धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 121

  1. [ल] नृगेण यजमानेन सॊमेनेह पुरंदरः तर्पितः शरूयते राजन स तृप्तॊ मदम अभ्यगात ॥ 1 ॥

  2. इह देवैः सहेन्द्रैर हि परजापतिभिर एव च इष्टं बहुविधैर यज्ञैर महद्भिर भूरिदक्षिणैः ॥ 2 ॥

  3. आमूर्त रयसश चेह राजा वज्रधरं परभुम तर्पयाम आस सॊमेन हयमेधेषु सप्तसु ॥ 3 ॥

  4. तस्य सप्तसु यज्ञेषु सर्वम आसीद धिरन मयम वानस्पत्यं च भौमं च यद दरव्यं नियतं मखे ॥ 4 ॥

  5. तेष्व एव चास्य यज्ञेषु परयॊगाः सप्त विश्रुताः सप्तैकैकस्य यूपस्य चषालाश चॊपरिस्थिताः ॥ 5 ॥

  6. तस्य सम यूपान यज्ञेषु भराजमानान हिरन मयान सवयम उत्थापयाम आसुर देवाः सेन्द्रा युधिष्ठिर ॥ 6 ॥

  7. तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः ॥ 7 ॥

  8. सिकता वा यथा लॊके यथा वा दिवि तारकाः यथा वा वर्षतॊ धारा असंख्येयाश च केन चित ॥ 8 ॥

  9. तथैव तद असंख्येयं धनं यत परददौ गयः सदस्येभ्यॊ महाराज तेषु यज्ञेषु सप्तसु ॥ 9 ॥

  10. भवेत संख्येयम एतद वै यद एतत परिकीर्तितम न सा शक्या तु संख्यातुं दक्षिणा दक्षिणा वतः ॥ 10 ॥

  11. हिरन मयीभिर गॊभिश च कृताभिर विश्वकर्मणा बराह्मणांस तर्पयाम आस नानादिग्भ्यः समागतान ॥ 11 ॥

  12. अल्पावशेषा पृथिवी चैत्यैर आसीन महात्मनः गयस्य यजमानस्य तत्र तत्र विशां पते ॥ 12 ॥

  13. स लॊकान पराप्तवान ऐन्द्रान कर्मणा तेन भारत स लॊकतां तस्य गच्छेत पयॊष्ण्यां य उपस्पृशेत ॥ 13 ॥

  14. तस्मात तवम अत्र राजेन्द्र भरातृभिः सहितॊ ऽनघ उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ॥ 14 ॥

  15. [व] स पयॊष्ण्यां नरश्रेष्ठः सनात्वा वै भरातृभिः सह वैडूर्य पर्वतं चैव नर्मदां च महानदीम समाजगाम तेजॊ वी भरातृभिः सहितॊ ऽनघ ॥ 15 ॥

  16. ततॊ ऽसय सर्वाण्य आचख्यौ लॊमशॊ भगवान ऋषिः तीर्थानि रमणीयानि तत्र तत्र विशां पते ॥ 16 ॥

  17. यथायॊगं यथा परीतिप्रययौ भरातृभिः सह ददमानॊ ऽसकृद वित्तं बराह्मणेभ्यः सहस्रशः ॥ 17 ॥

  18. [ल] देवानाम एति कौन्तेय तथा राज्ञां स लॊकताम वैडूर्य पर्वतं दृष्ट्वा नर्मदाम अवतीर्य च ॥ 18 ॥

  19. संधिर एष नरश्रेष्ठ तरेताया दवापरस्य च एतम आसाद्य कौन्तेय सर्वपापैः परमुच्यते ॥ 19 ॥

  20. एष शर्याति यज्ञस्य देशस तात परकाशते साक्षाद यत्रापिबत सॊमम अश्विभ्यां सह कौशिकः ॥ 20 ॥

  21. चुकॊप भार्गवश चापि महेन्द्रस्य महातपाः संस्तम्भयाम आस च तं वासवं चयवनः परभुः सुकङ्क्यां चापि भार्यां स राजपुत्रीम इवाप्तवान ॥ 21 ॥

  22. [य] कथं विष्टम्भितस तेन भगवान पाकशासनः किमर्थं भार्गवश चापि कॊपं चक्रे महातपाः ॥ 22 ॥

  23. नासत्यौ च कथं बरह्मन कृतवान सॊमपीथिनौ एतत सर्वं यथावृत्तम आख्यातु भगवान मम ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 122

Previous: अध्याय 120