धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 120

  1. [सात्यकि] न राम कालः परिदेवनाय; यद उत्तरं तत्र तद एव सर्वे समाचरामॊ हय अनतीत कालं; युधिष्ठिरॊ यद्य अपि नाह किं चित ॥ 1 ॥

  2. ये नाथवन्तॊ हि भवन्ति लॊके; ते नात्मना कर्म समारभन्ते तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयॊ राम यथा ययातेः ॥ 2 ॥

  3. येषां तथा राम समारभन्ते; कार्याणि नाथाः सवमतेन लॊके ते नाथवन्तः पुरुषप्रवीरा; नानाथ वत कृच्छ्रम अवाप्नुवन्ति ॥ 3 ॥

  4. कस्माद अयं राम जनार्दनौ च; परद्युम्न साम्बौ च मया समेतौ वसत्य अरण्ये सह सॊदरीयैस; तरैलॊक्यनाथान अधिगम्य नाथान ॥ 4 ॥

  5. निर्यातु साध्व अद्य दशार्ह सेना; परभूतनानायुध चित्रवर्माः यमक्षयं गच्छतु धार्तराष्ट्रः; स बान्धवॊ वृष्णिबलाभिभूतः ॥ 5 ॥

  6. तवं हय एव कॊपात पृथिवीम अपीमां; संवेष्टयेस तिष्ठतु शार्ङ्गधन्वा स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर महेन्द्रः ॥ 6 ॥

  7. भराता च मे यश च सखा गुरुश च; जनार्दनस्यात्म समश च पार्थः यदर्थम अभ्युद्यतम उत्तमं तत; करॊति कर्माग्र्यम अपारणीयम ॥ 7 ॥

  8. तस्यास्त्र वर्षाण्य अहम उत्तमास्त्रैर; विहत्य सर्वाणि रणे ऽभिभूय कायाच छिरः सर्पविषाग्निकल्पैः; शरॊत्तमैर उन्मथितास्मि राम ॥ 8 ॥

  9. खड्गेन चाहं निशितेन संख्ये; कायाच छिरस तस्य बलात परमथ्य ततॊ ऽसय सर्वान अनुगान हनिष्ये; दुर्यॊधनं चापि कुरूंश च सर्वान ॥ 9 ॥

  10. आत्तायुधं माम इह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः निघ्नन्तम एकं कुरु यॊधमुख्यान; काले महाकक्षम इवान्तकाग्निः ॥ 10 ॥

  11. परद्युम्न मुक्तान निशितान न शक्ताः; सॊढुं कृप दरॊण विकर्ण कर्णाः जानामि वीर्यं च तवात्म जस्य; कार्ष्णिर भवत्य एष यथा रणस्थः ॥ 11 ॥

  12. साम्बः ससूतं स रथं भुजाभ्यां; दुःशासनं शास्तु बलात परमथ्य न विद्यते जाम्ब वती सुतस्य; रणे ऽविषह्यं हि रणॊत्कटस्य ॥ 12 ॥

  13. एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा परणुन्नम वृत्तॊरुर अत्यायत पीनबाहुर; एतेन संख्ये निहतॊ ऽशवचक्रः कॊ नाम साम्बस्य रणे मनुष्यॊ; गत्वान्तरं वै भुजयॊर धरेत ॥ 13 ॥

  14. यथा परविश्यान्तरम अन्तकस्य; काले मनुष्यॊ न विनिष्क्रमेत तथा परविश्यान्तरम अस्य संख्ये; कॊ नाम जीवन पुनर आव्रजेत ॥ 14 ॥

  15. दरॊणं च भीष्मं च महारथौ तौ; सुतैर वृतं चाप्य अथ सॊमदत्तम सर्वाणि सैन्यानि च वासुदेवः; परधक्ष्यते सायकवह्नि जालैः ॥ 15 ॥

  16. किंनाम लॊकेष्व अविषह्यम अस्ति; कृष्णस्य सर्वेषु सदैव तेषु आत्तायुधस्यॊत्तम बाणपाणेश; चक्रायुधस्याप्रतिमस्य युद्धे ॥ 16 ॥

  17. ततॊ ऽनिरुद्धॊ ऽपय असि चर्म पाणिर; महीम इमां धार्तराष्ट्रैर वि संज्ञैः हृतॊत्तमाङ्गैर निहतैः करॊतु; कीर्णां कुशैर वेदिम इवाध्वरेषु ॥ 17 ॥

  18. गदॊल्मुकौ बाहुक भानुनीथाः; शूरश च संख्ये निशठः कुमारः रणॊत्कटौ सारण चारुदेष्णौ; कुलॊचितं विप्रथयन्तु कर्म ॥ 18 ॥

  19. स वृष्णिभॊजान्धकयॊधमुख्या; समागता कषत्रिय शूरसेना हत्वा रणे तान धृतराष्ट्र पुत्राँल; लॊके यशः सफीतम उपाकरॊतु ॥ 19 ॥

  20. ततॊ ऽभिमन्युः पृथिवीं परशास्तु; यावद वरतं धर्मभृतां वरिष्ठः युधिष्ठिरः पारयते महात्मा; दयूते यथॊक्तं कुरुसत्तमेन ॥ 20 ॥

  21. अस्मत परमुखैर वि शिखैर जितारिस; ततॊ महीं भॊक्ष्यति धर्मराजः निर धार्तराष्ट्रां हतसूतपुत्राम; एतद धि नः कृत्यतमं यशश्यम ॥ 21 ॥

  22. [वासु] असंशयं माधव सत्यम एतद; गृह्णीम ते वाक्यम अदीनसत्त्व सवाभ्यां भुजाभ्याम अजितां तु भूमिं; नेच्छेत कुरूणाम ऋषभः कथं चित ॥ 22 ॥

  23. न हय एष कामान न भयान न लॊभाद; युधिष्ठिरॊ जातु जह्यात सवधर्मम भीमार्जुनौ चाति रथौ यमौ वा; तथैव कृष्णा दरुपदात्म जेयम ॥ 23 ॥

  24. उभौ हि युद्धे ऽपरतिमौ पृथिव्यां; वृकॊदरश चैव धनंजयश च कस्मान न कृत्स्नां पृथिवीं परशासेन; माद्री सुताभ्यांच पुरस्कृतॊ ऽयम ॥ 24 ॥

  25. यदा तु पाञ्चाल पतिर महात्मा; स केकयश चेदिपतिर वयं च यॊत्स्याम विक्रम्य परांस तदा वै; सुयॊधनस तयक्ष्यति जीवलॊकम ॥ 25 ॥

  26. [य] नैतच चित्रं माधव यद बरवीषि; सत्यं तु मे रक्ष्य तमं न राज्यम कृष्णस तु मां वेद यथा वद एकः; कृष्णं च वेदाहम अथॊ यथा वत ॥ 26 ॥

  27. यदैव कालं पुरुषप्रवीरॊ; वेत्स्यत्य अयं माधव विक्रमस्य तदा रणे तवं च शिनिप्रवीर; सुयॊधनं जेष्यसि केशवश च ॥ 27 ॥

  28. परतिप्रयान्त्व अद्य दशार्ह वीरा; दृढॊ ऽसमि नाथैर नरलॊकनाथैः धर्मे ऽपरमादं कुरुताप्रमेया; दरष्टास्मि भूयः सुखिनः समेतान ॥ 28 ॥

  29. ते ऽनयॊन्यम आमन्त्र्य तथाभिवाद्य; वृद्धान परिस्वज्य शिशूंश च सर्वान यदुप्रवीराः सवगृहाणि जग्मू; राजापि तीर्थान्य अनुसंचचार ॥ 29 ॥

  30. विसृज्य कृष्णं तव अथ धर्मराजॊ; विदर्भराजॊप चितां सुतीर्थाम सुतेन सॊमेन विमिश्रितॊदां; ततः पयॊष्णीं परति स हय उवास ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 121

Previous: अध्याय 119