[ज] परभास तीर्थं संप्राप्य वृष्णयः पाण्डवास तथा किम अकुर्वन कथाश चैषां कास तत्रासंस तपॊधन ॥ 1 ॥
ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः वृष्णयः पाण्डवाश चैव सुहृदश च परस्परम ॥ 2 ॥
[व] परभास तीर्थं संप्राप्य पुण्यं तीर्थं महॊदधेः वृष्णयः पाण्डवान वीरान परिवार्यॊपतस्थिर ॥ 3 ॥
ततॊ गॊक्षीरकुन्देन्दु मृणालरजतप्रभः वनमाली हली रामॊ बभाषे पुष्करेक्षणम ॥ 4 ॥
न कृष्ण धर्मश चरितॊ भवाय; जन्तॊर अधर्मश च पराभवाय युधिष्ठिरॊ यत्र जटी महात्मा; वनाश्रयः कलिश्यति चीरवासः ॥ 5 ॥
दुर्यॊधनश चापि महीं परशास्ति; न चास्य भूमिर विवरं ददाति धर्माद अधर्मश चरितॊ गरीयान; इतीव मन्येत नरॊ ऽलपबुद्धिः ॥ 6 ॥
दुर्यॊधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये किं नव अद्य कर्तव्यम इति परजाभिः; शङ्का मिथः संजनिता नराणाम ॥ 7 ॥
अयं हि धर्मप्रभवॊ नरेन्द्रॊ; धर्मे रतः सत्यधृतिः परदाता चलेद धि राज्याच च सुखाच च पार्थॊ; धर्माद अपैतश च कथं विवर्धेत ॥ 8 ॥
कथं नु भीष्मश च कृपश च विप्रॊ; दरॊणश च राजा च कुलस्य वृद्धः परव्राज्य पार्थान सुखम आप्नुवन्ति; धिक पापबुद्धीन भरत परधानान ॥ 9 ॥
किंनाम वक्ष्यत्य अवनि परधानः; पितॄन समागम्य परत्र पापः पुत्रेषु सम्यक चरितं मयेति; पुत्रान अपापान अवरॊप्य राज्यात ॥ 10 ॥
नासौ धिया संप्रतिपश्यति सम; किंनाम कृत्वाहम अचक्षुर एवम जातः पृथिव्याम इति पार्थिवेषु; परव्राज्य कौन्तेयम अथापि राज्यात ॥ 11 ॥
नूनं समृद्धान पितृलॊकभूमौ; चामीकराभान कषितिजान परफुल्लान विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति सम ॥ 12 ॥
वयूढॊत्तरांसान पृथु लॊहिताक्षान; नेमान सम पृच्छन स शृणॊति नूनम परस्थापयद यत स वनं हय अशङ्कॊ; युधिष्ठिरं सानुजम आत्तशस्त्रम ॥ 13 ॥
यॊ ऽयं परेषां पृतनां समृद्धां; निर आयुधॊ दीर्घभुजॊ निहन्यात शरुत्वैव शब्दं हि वृकॊदरस्य; मुञ्चन्ति सैन्यानि शकृत स मूत्रम ॥ 14 ॥
स कषुत्पिपासाध्व कृशस तरॊ वी; समेत्य नानायुध बाणपाणिः वने समरन वासम इमं सुघॊरं; शेषं न कुर्याद इति निश्चितं मे ॥ 15 ॥
न हय अस्य वीर्येण बलेन कश चित; समः पृथिव्यां भविता नरेषु शीतॊष्णवातातप कर्शिताङ्गॊ; न शेषम आजाव असुहृत्सु कुर्यात ॥ 16 ॥
पराच्यां नृपान एकरथेन जित्वा; वृकॊदरः सानुचरान रणेषु सवस्त्यागमद यॊ ऽति रथस तरॊ वी; सॊ ऽयं वने कलिश्यति चीरवासः ॥ 17 ॥
यॊ दन्तकूरे वयजयन नृदेवान; समागतान दाक्षिणात्यान मही पान तं पश्यतेमं सहदेवम अद्य; तपॊ विनं तापस वेषरूपम ॥ 18 ॥
यः पार्थिवान एकरथेन वीरॊ; दिशं परतीचीं परति युद्धशौण्डः सॊ ऽयं वने मूलफलेन जीवञ; जटी चरत्य अद्य मलाचिताङ्गः ॥ 19 ॥
सत्रे समृद्धे ऽति रथस्य राज्ञॊ; वेदी तलाद उत्पतिता सुता या सेयं वनेवासम इमं सुदुःखं; कथं सहत्य अद्य सती सुखार्हा ॥ 20 ॥
तरिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्य अथ वाश्विनॊश च एषां सुराणां तनयाः कथं नु; वनेचरन्त्य अल्पसुखाः सुखार्हाः ॥ 21 ॥
जिते हि धर्मस्य सुते सभार्ये; स भरातृके सानुचरे निरस्ते दुर्यॊधने चापि विवर्धमाने; कथं न सीदत्य अवनिः स शैला ॥ 22 ॥
वनपर्व · Vana Parva
अध्याय 119
Reach this point to mark the section finished.
Continue to अध्याय 120