[धृ] एवम एतन महाप्राज्ञ यथा वदसि नॊ मुने अहं चैव विजानामि सर्वे चेमे नराधिपाः ॥ 1 ॥
भवांस तु मन्यते साधु यत कुरूणां सुखॊदयम तद एव विदुरॊ ऽपय आह भीष्मॊ दरॊणश च मां मुने ॥ 2 ॥
यदि तव अहम अनुग्राह्यः कौरवेषु दया यदि अनुशाधि दुरात्मानं पुत्रं दुर्यॊधनं मम ॥ 3 ॥
[वय] अयम आयाति वै राजन मैत्रेयॊ भवगान ऋषिः अन्वीय पाण्डवान भरातॄन इहैवास्मद दिदृक्षया ॥ 4 ॥
एष दुर्यॊधनं पुत्रं तव राजन महान ऋषिः अनुशास्ता यथान्यायं शमायास्य कुलस्य ते ॥ 5 ॥
बरूयाद यद एष राजेन्द्र तत कार्यम अविशङ्कया अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा ॥ 6 ॥
[वै] एवम उक्त्वा ययौ वयासॊ मैत्रेयः परत्यदृश्यत पूजया परतिजग्राह सपुत्रस तं नराधिपः ॥ 7 ॥
दत्त्वार्घ्याद्याः करियाः सर्वा विश्रान्तं मुनिपुंगवम परश्रयेणाब्रवीद राजा धृतराष्ट्रॊ ऽमबिका सुतः ॥ 8 ॥
सुखेनागमनं कच चिद भगवन कुरुजाङ्गले कच चित कुशलिनॊ वीरा भरातरः पञ्च पाण्डवाः ॥ 9 ॥
समये सथातुम इच्छन्ति कच चिच च पुरुषर्षभाः कच चित कुरूणां सौभ्रात्रम अव्युच्छन्नं भविष्यति ॥ 10 ॥
[मै] तीर्थयात्राम अनुक्रामन पराप्तॊ ऽसमि कुरुजाङ्गलम यदृच्छया धर्मराजं दृष्टवान काम्यके वने ॥ 11 ॥
तं जटाजिनसंवीतं तपॊवननिवासिनम समाजग्मुर महात्मानं दरष्टुं मुनिगणाः परभॊ ॥ 12 ॥
तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम अनयं दयूतरूपेण महापापम उपस्थितम ॥ 13 ॥
ततॊ ऽहं तवाम अनुप्राप्तः कौरवाणाम अवेक्षया सदा हय अभ्यधिकः सनेहः परीतिश च तवयि मे परभॊ ॥ 14 ॥
नैतद औपयिकं राजंस तवयि भीष्मे च जीवति यद अन्यॊन्येन ते पुत्रा विरुध्यन्ते नराधिप ॥ 15 ॥
मेढी भूतः सवयं राजन निग्रहे रपग्रहे भवान किमर्थम अनयं घॊरम उत्पतन्तम उपेक्षसे ॥ 16 ॥
दस्यूनाम इव यद्वृत्तं सभायां कुरुनन्दन तेन न भराजसे राजंस तापसानां समागमे ॥ 17 ॥
[वै] ततॊ वयावृत्य राजानं दुर्यॊधनम अमर्षणम उवाच शलक्ष्णया वाचा मैत्रेयॊ भगवान ऋषिः ॥ 18 ॥
दुर्यॊधन महाबाहॊ निबॊध वदतां वर वचनं मे महाप्राज्ञ बरुवतॊ यद धितं तव ॥ 19 ॥
मा दरुहः पाण्डवान राजन कुरुष्व हितम आत्मनः पाण्डवानां कुरूणां च लॊकस्य च नरर्षभ ॥ 20 ॥
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयॊधिनः सर्वे नागायुत पराणा वज्रसंहनना दृढाः ॥ 21 ॥
सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः हन्तारॊ देवशत्रूणां रक्षसां कामरूपिणाम हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः ॥ 22 ॥
इतः परच्यवतां रात्रौ यः स तेषां महात्मनाम आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिर इवाचलः ॥ 23 ॥
तं भीमः समरश्लाघी बलेन बलिनां वरः जघान पशुमारेण वयाघ्रः कषुद्रमृगं यथा ॥ 24 ॥
पश्य दिग विजये राजन यथा भीमेन पातितः जरासंधॊ महेष्वासॊ नागायुत बलॊ युधि ॥ 25 ॥
संबन्धी वासुदेवश च येषां शयालश च पार्षतः कस तान युधि समासीत जरामरणवान नरः ॥ 26 ॥
तस्य ते शम एवास्तु पाण्डवैर भरतर्षभ कुरु मे वचनं राजन मा मृत्युवशम अन्वगाः ॥ 27 ॥
एवं तु बरुवतस तस्य मैत्रेयस्य विशां पते ऊरुं गजकराकारं करेणाभिजघान सः ॥ 28 ॥
दुर्यॊधनः समितं कृत्वा चरणेनालिखन महीम न किं चिद उक्त्वा दुर्यॊधास तस्थौ किं चिद अवाङ्मुखः ॥ 29 ॥
तम अशुश्रूषमाणं तु विलिखन्तं वसुंधराम दृष्ट्वा दुर्यॊधनं राजन मैत्रेयं कॊप आविशत ॥ 30 ॥
स कॊपवशम आपन्नॊ मैत्रेयॊ मुनिसत्तमः विधिना संप्रयुक्तश च शापायास्य मनॊ दधे ॥ 31 ॥
ततः स वार्य उपस्पृश्य कॊपसंरक्त लॊचनः मैत्रेयॊ धार्तराष्ट्रं तम अशपद दुष्टचेतसम ॥ 32 ॥
यस्मात तवं माम अनादृत्य नेमां वाचं चिकीर्षसि तस्माद अस्याभिमानस्य सद्यः फलम अवाप्नुहि ॥ 33 ॥
तवद अभिद्रॊह संयुक्तं युद्धम उत्पत्स्यते महत यत्र भीमॊ गदापातैस तवॊरुं भेत्स्यते बली ॥ 34 ॥
इत्य एवम उक्ते वचने धृतराष्ट्रॊ महीपतिः परसादयाम आस मुनिं नैतद एवं भवेद इति ॥ 35 ॥
[मै] शमं यास्यति चेत पुत्रस तव राजन यथातथा शापॊ न भविता तात विपरीते भविष्यति ॥ 36 ॥
[वै] स विलक्षस तु राजेन्द्र दुर्यॊधन पिता तदा मैत्रेयं पराह किर्मीरः कथं भीमेन पातितः ॥ 37 ॥
[मै] नाहं वक्ष्याम्य असूरा ते न ते शुश्रूषते सुतः एष ते विदुरः सर्वम आख्यास्यति गते मयि ॥ 38 ॥
[वै] इत्य एवम उक्त्वा मैत्रेयः परातिष्ठत यथागतम किर्मीरवधसंविग्नॊ बहिर दुर्यॊधनॊ ऽगमत ॥ 39 ॥
वनपर्व · Vana Parva
अध्याय 11
Reach this point to mark the section finished.
Continue to अध्याय 12