धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 118

  1. [व] गच्छन स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा सर्वाणि विप्रैर उपशॊभितानि; कव चित कव चिद भारत सागरस्य ॥ 1 ॥

  2. स वृत्तवांस तेषु कृताभिषेकः; सहानुजः पार्थिव पुत्रपौत्रः समुद्रगां पुण्यतमां परशस्तां; जगाम पारिक्षित पाण्डुपुत्रः ॥ 2 ॥

  3. तत्रापि चाप्लुत्य महानुभावः; संतर्पयाम आस पितॄन सुरांश च दविजातिमुख्येषु धनं विसृज्य; गॊदावरिं सागरगाम अगच्छत ॥ 3 ॥

  4. ततॊ वि पाप्मा दरविडेषु राजन; अमुद्रम आसाद्य च लॊकपुण्यम अगस्त्यतीर्थं च पवित्रपुण्यं; नारी तीर्थान्य अथ वीरॊ ददर्श ॥ 4 ॥

  5. तत्रार्जुनस्याग्र्य धनुर्धरस्य; निशम्य तत कर्म परैर असह्यम संपूज्यमानः परमर्षिसंघैः; परां मुदं पाण्डुसुतः स लेभे ॥ 5 ॥

  6. स तेषु तीर्थेष्व अभिषिक्त गात्रः; कृष्णा सहायः सहितॊ ऽनुजैश च संपूजयन विक्रमम अर्जुनस्य; रेमे महीपाल पतिः पृथिव्याम ॥ 6 ॥

  7. ततः सहस्राणि गवां परदाय; तीर्थेषु तेष्व अम्बुधरॊत्तमस्य हृष्टः सह भरातृभिर अर्जुनस्य; संकीर्तयाम आस गवां परदानम ॥ 7 ॥

  8. स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन करमेण गच्छन परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श ॥ 8 ॥

  9. तत्रॊदधेः कं चिद अतीत्य देशं; खयातं पृथिव्यां वनम आससाद तप्तं सुरैर यत्र तपः पुरस्ताद; इष्टं तथा पुण्यतमैर नरेन्द्रैः ॥ 9 ॥

  10. स तत्र ताम अग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः ऋचीक पुत्रस्य तपॊ वि संघैः; समावृतां पुण्यकृद अर्चनीयाम ॥ 10 ॥

  11. ततॊ वसूनां वसु धाधिपः स; मरुद्गणानां च तथाश्विनॊश च वैवस्वतादित्य धनेश्वराणाम; इन्द्रस्य विष्णॊर सवितुर विभॊर च ॥ 11 ॥

  12. भगस्य चन्द्रस्य दिवाकरस्य; पतेर अपां साध्य गणस्य चैव धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन सगणस्य चैव ॥ 12 ॥

  13. सरॊ वत्याः सिद्धगणस्य चैव; पूष्णश च ये चाप्य अमरास तथान्ये पुण्यानि चाप्य आयतनानि तेषां; ददर्श राजा सुमनॊहराणि ॥ 13 ॥

  14. तेषूपवासान विविधान उपॊष्य; दत्त्वा च रत्नानि महाधनानि तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकम आजगाम ॥ 14 ॥

  15. स तेन तीर्थेन तु सागरस्य; पुनः परयातः सह सॊदरीयैः दविजैः पृथिव्यां परथितं महद्भिस; तीर्थं परभासं सम उपाजगाम ॥ 15 ॥

  16. तत्राभिषिक्तः पृथु लॊहिताक्षः; सहानुजैर देवगणान पितॄंश च संतर्पयाम आस तथैव कृष्णा; ते चापि विप्राः सह लॊमशेन ॥ 16 ॥

  17. स दवादशाहं जलवायुभक्षः; कुर्वन कषपाहःसु तदाभिषेकम समन्ततॊ ऽगनीन उपदीपयित्वा; तेपे तपॊ धर्मभृतां वरिष्ठः ॥ 17 ॥

  18. तम उग्रम आस्थाय तपश चरन्तं; शुश्राव रामश च जनार्दनश च तौ सर्ववृष्णिप्रवरौ स सैन्यौ; युधिष्ठिरं जग्मतुर आजमीढम ॥ 18 ॥

  19. ते वृष्णयः पाण्डुसुतान समीक्ष्य; भूमौ शयानान मलदिग्ध गात्रान अनर्हतीं दरौपदीं चापि दृष्ट्वा; सुदुःखिताश चुक्रुशुर आर्तनादम ॥ 19 ॥

  20. ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश च पौत्रम अन्यांश च वृष्णीन उपगम्य पूजां; चक्रे यथा धर्मम अदीनसत्त्वः ॥ 20 ॥

  21. ते चापि सर्वान परतिपूज्य पार्थांस; तैः सत्कृताः पाण्डुसुतैस तथैव युधिष्ठिरं संपरिवार्य राजन्न; उपाविशन देवगणा यथेन्द्रम ॥ 21 ॥

  22. तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः अस्त्रार्थम इन्द्रस्य गतं च पार्थं; कृष्णे शशंसामर राजपुत्रम ॥ 22 ॥

  23. शरुत्वा तु ते तस्य वचः परतीतास; तांश चापि दृष्ट्वा सुकृशान अतीव नेत्रॊद्भवं संमुमुचुर दशार्हा; दुःखार्ति जं वारि महानुभावाः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 119

Previous: अध्याय 117