धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 117

  1. [र] ममापराधात तैः कषुद्रैर हतस तवं तात बालिशैः कार्तवीर्यस्य दाया दैर वने मृग इवेषुभिः ॥ 1 ॥

  2. धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे मृत्युर एवंविधॊ युक्तः सर्वभूतेष्व अनागसः ॥ 2 ॥

  3. किं नु तैर न कृतं पापं यैर भवांस तपसि सथितः अयुध्यमानॊ वृद्धः सन हतः शरशतैः शितैः ॥ 3 ॥

  4. किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च अयुध्यमानं धर्मज्ञम एकं हत्वानपत्रपाः ॥ 4 ॥

  5. [अक] विलप्यैवं स करुणं बहु नानाविधं नृप परेतकार्याणि सर्वाणि पितुश चक्रे महातपाः ॥ 5 ॥

  6. ददाह पितरं चाग्नौ रामः परपुरंजयः परतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ॥ 6 ॥

  7. संक्रुद्धॊ ऽति बलः शूरः शस्त्रम आदाय वीर्यवान जघ्निवान कार्तवीर्यस्य सुतान एकॊ ऽनतकॊपमः ॥ 7 ॥

  8. तेषां चानुगता ये च कषत्रियाः कषत्रियर्षभ तांश च सर्वान अवामृद्नाद रामः परहरतां वरः ॥ 8 ॥

  9. तरिः सप्तकृत्वः पृथिवीं कृत्वा निः कषत्रियां परभुः समन्तपञ्चके पञ्च चकार रुधिरह्रदान ॥ 9 ॥

  10. स तेषु तर्पयाम आस पितॄन भृगुकुलॊद्वहः साक्षाद ददर्श चर्चीकं स च रामं नयवारयत ॥ 10 ॥

  11. ततॊ यज्ञेन महता जामदग्न्यः परतापवान तर्पयाम आस देवेन्द्रम ऋत्विग्भ्यश च महीं ददौ ॥ 11 ॥

  12. वेदीं चाप्य अददद धैमीं कश्यपाय महात्मने दशव्यामायतां कृत्वा नवॊत्सेधां विशां पते ॥ 12 ॥

  13. तां कश्यपस्यानुमते बराह्मणाः खन्द शस तदा वयभजंस तेन ते राजन परख्याताः खान्दवायनाः ॥ 13 ॥

  14. स परदाय महीं तस्मै कश्यपाय महात्मने अस्मिन महेन्द्रे शैलेन्द्रे वसत्य अमितविक्रमः ॥ 14 ॥

  15. एवं वैरम अभूत तस्य कषत्रियैर लॊकवासिभिः पृथिवी चापि विजिता रामेणामिततेजसा ॥ 15 ॥

  16. [व] ततश चतुर्दशीं रामः समयेन महामनाः दर्शयाम आस तान विप्रान धर्मराजं च सानुजम ॥ 16 ॥

  17. स तम आनर्च राजेन्द्रॊ भरातृभिः सहितः परभुः दविजानां च परां पूजां चक्रे नृपतिसत्तमः ॥ 17 ॥

  18. अर्चयित्वा जामदग्न्यं पूजितस तेन चाभिभूः महेन्द्र उष्य तां रात्रिं परययौ दक्षिणामुखः ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 118

Previous: अध्याय 116