धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 111

  1. [लॊमष] सा तु नाव्याश्रमं चक्रे राजकार्यार्थ सिद्धये संदेशाच चैव नृपतेः सवबुद्ध्या चैव भारत ॥ 1 ॥

  2. नानापुष्पफलैर वृक्षैः कृत्रिमैर उपशॊभितम नानागुल्मलतॊपैतैः सवादु कामफलप्रदैः ॥ 2 ॥

  3. अतीव रमणीयं तद अतीव च मनॊहरम चक्रे नाव्याश्रमं रम्यम अद्भुतॊपमदर्शनम ॥ 3 ॥

  4. ततॊ निबध्य तां नावम अदूरे काश्यपाश्रमात चारयाम आस पुरुषैर विहारं तस्य वै मुनेः ॥ 4 ॥

  5. ततॊ दुहितरं वेश्या समाधायेति कृत्यताम दृष्ट्वान्तरं काश्यपस्य पराहिणॊद बुद्धिसंमताम ॥ 5 ॥

  6. सा तत्र गत्वा कुशला तपॊनित्यस्य संनिधौ आश्रमं तं समासाद्य ददर्श तम ऋषेः सुतम ॥ 6 ॥

  7. [वेष्या] कच चिन मुने कुशलं तापसानां; कच चिच च वॊ मूलफलं परभूतम कच चिद भवान रमते चाश्रमे ऽसमिंस; तवां वै दरष्टुं सांप्रतम आगतॊ ऽसमि ॥ 7 ॥

  8. कच चित तपॊ वर्धते तापसानां; पिता च ते कच चिद अहीन तेजाः कच चित तवया परीयते चैव विप्र; कच चित सवाध्यायः करियत ऋश्य शृङ्ग ॥ 8 ॥

  9. [र] ऋद्धॊ भवाञ जयॊतिर इव परकाशते; मन्ये चाहं तवाम अभिवादनीयम पाद्यं वै ते संप्रदास्यामि कामाद; यथा धर्मं फलमूलानि चैव ॥ 9 ॥

  10. कौश्यां बृस्याम आस्स्व यथॊपजॊषं; कृष्णाजिनेनावृतायां सुखायाम कव चाश्रमस तव किंनाम चेदं; वरतं बरह्मंश चरसि हि देव वत तवम ॥ 10 ॥

  11. [वेष्या] ममाश्रमः काश्यप पुत्र रम्यस; तरियॊजनं शैलम इमं परेण तत्र सवधर्मॊ ऽनभिवानदं नॊ; न चॊदकं पाद्यम उपस्पृशामः ॥ 11 ॥

  12. [र] फलानि पक्वानि ददानि ते ऽहं; भल्लातकान्य आमलकानि चैव परूषकाणीङ्गुद धन्वनानि; परियालानां कामकारं कुरुष्व ॥ 12 ॥

  13. [ल] सा तानि सर्वाणि विसर्जयित्वा; भक्षान महार्हान परददौ ततॊ ऽसमै तान्य ऋश्य शृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर हि ॥ 13 ॥

  14. ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति पानानि चाग्र्याणि ततॊ मुमॊद; चिक्रीड चैव परजहास चैव ॥ 14 ॥

  15. सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव गात्रैश च गात्राणि निषेवमाणा; समाश्लिषच चासकृद ऋश्य शृङ्गम ॥ 15 ॥

  16. सर्जान अशॊकांस तिलकांश च वृक्षान; परपुष्पितान अवनाम्यावभज्य विलज्जमानेव मदाभिभूता; परलॊभयाम आस सुतं महर्षेः ॥ 16 ॥

  17. अथर्श्य शृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायम अस्य अवेक्षमाणा शनकिर जगाम; कृत्वाग्निहॊत्रस्य तदापदेशम ॥ 17 ॥

  18. तस्यां गतायां मदनेन मत्तॊ; वि चेतनश चाभवद ऋश्य शृङ्गः ताम एव भावेन गतेन शून्यॊ; विनिःश्वसन्न आर्तरूपॊ बभूव ॥ 18 ॥

  19. ततॊ मुहूर्ताद धरि पिङ्गलाक्षः; परवेष्टितॊ रॊमभिरा नखाग्रात सवाध्यायवान वृत्तसमाधि युक्तॊ; विभाण्डकः काश्यपः परादुरासीत ॥ 19 ॥

  20. सॊ ऽपश्यद आसीनम उपेत्य पुत्रं; धयायन्तम एकं विपरीतचित्तम विनिःश्वसन्तं मुहुर ऊर्ध्वदृष्टिं; विभाण्डकः पुत्रम उवाच दीनम ॥ 20 ॥

  21. न कल्प्यन्ते समिधः किं नु तात; कच चिद धुतं चाग्निहॊत्रं तवयाद्य सुनिर्निक्तं सरुक सरुवं हॊमधेनुः; कच चित स वत्सा च कृता तवयाद्य ॥ 21 ॥

  22. न वै यथापूर्वम इवासि पुत्र; चिन्तापरश चासि वि चेतनश च दीनॊ ऽति मात्रं तवम इहाद्य किं नु; पृच्छामि तवां क इहाद्यागतॊ ऽभूत ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 112

Previous: अध्याय 110