[लॊमष] एषा देव नदी पुण्या कौशिकी भरतर्षभ विश्वा मित्राश्रमॊ रम्यॊ एष चात्र परकाशते ॥ 1 ॥
आश्रमश चैव पुण्याख्यः काश्यपस्य महात्मनः ऋश्य शृङ्गः सुतॊ यस्य तपॊ वी संयतेन्द्रियः ॥ 2 ॥
तपसॊ यः परभावेन वर्षयाम आस वासवम अनावृष्ट्यां भयाद यस्य ववर्ष बलवृत्र हा ॥ 3 ॥
मृग्यां जातः स तेजॊ वी काश्यपस्य सुतः परभुः विषये लॊम पादस्य यश चकाराद्भुतं महत ॥ 4 ॥
निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः लॊम पादॊ दुहितरं सावित्रीं सविता यथा ॥ 5 ॥
[य] ऋश्य शृङ्गः कथं मृग्याम उत्पन्नः काश्यपात्म जः विरुद्धे यॊनिसंसर्गे कथं च तपसा युतः ॥ 6 ॥
किमर्थं च भयाच छक्रस तस्य बालस्य धीमतः अनावृष्ट्यां परवृत्तायां ववर्ष बलवृत्र हा ॥ 7 ॥
कथंरूपा च शान्ताभूद राजपुत्री यतव्रता लॊभयाम आस या चेतॊ मृगभूतस्य तस्य वै ॥ 8 ॥
लॊम पादश च राजर्षिर यदाश्रूयत धार्मिकः कथं वै विषये तस्य नावर्षत पाकशासनः ॥ 9 ॥
एतन मे भगवन सर्वं विस्तरेण यथातथम वक्तुम अर्हसि शुश्रूषॊर ऋष्यशृङ्गस्य चेष्टितम ॥ 10 ॥
[ल] विभाण्डकस्य बरह्मर्षेस तपसा भावितात्मनः अमॊघवीर्यस्य सतः परजापतिसमद्युतेः ॥ 11 ॥
शृणु पुत्रॊ यथा जात ऋश्य शृङ्गः परतापवान महाह्रदे महातेजा बालः सथविर संमतः ॥ 12 ॥
महाह्रदं समासाद्य काश्यपस तपसि सथितः दीर्घकालं परिश्रान्त ऋषिर देवर्षिसंमतः ॥ 13 ॥
तस्य रेतः परचस्कन्द दृष्ट्वाप्सरसम उर्वशीम अप्सूपस्पृशतॊ राजन मृगी तच चापिबत तदा ॥ 14 ॥
सह तॊयेन तृषिता सा गर्भिण्य अभवन नृप अमॊघत्वाद विधेश चैव भावि तवाद दैवनिर्मितात ॥ 15 ॥
तस्यां मृग्यां समभवत तस्य पुत्रॊ महान ऋषिः ऋश्य शृङ्गस तपॊनित्यॊ वन एव वयवर्धत ॥ 16 ॥
तस्यर्श्य शृङ्गं शिरसि राजन्न आसीन महात्मनः तेनर्श्य शृङ्ग इत्य एवं तदा स परथितॊ ऽभवत ॥ 17 ॥
न तेन दृष्टपूर्वॊ ऽनयः पितुर अन्यत्र मानुषः तस्मात तस्य मनॊ नित्यं बरह्मचर्ये ऽभवन नृप ॥ 18 ॥
एतस्मिन्न एव काले तु सखा दशरथस्य वै लॊम पाद इति खयातॊ अङ्गानाम ईश्वरॊ ऽभवत ॥ 19 ॥
तेन कामः कृतॊ मिथ्या बराह्मणेभ्य इति शरुतिः स बराह्मणैः परित्यक्तस तदा वै जगतीपतिः ॥ 20 ॥
पुरॊहितापचाराच च तस्य राज्ञॊ यदृच्छया न ववर्ष सहस्राक्षस ततॊ ऽपीड्यन्त वै परजाः ॥ 21 ॥
स बराह्मणान पर्यपृच्छत तपॊ युक्तान मनीषिणः परवर्षणे सुरेन्द्रस्य समर्थान पृथिवीपतिः ॥ 22 ॥
कथं परवर्षेत पर्जन्य उपायः परिदृश्यताम तम ऊचुश चॊदितास तेन सवमतानि मनीषिणः ॥ 23 ॥
तत्र तव एकॊ मुनिवरस तं राजानम उवाच ह कुपितास तव राजेन्द्र बराह्मणा निस्कृतिं चर ॥ 24 ॥
ऋश्य शृङ्गं मुनिसुतम आनयस्व च पार्थिव वानेयम अनभिज्ञं च नारीणाम आर्जवे रतम ॥ 25 ॥
स चेद अवतरेद राजन विषयं ते महातपाः सद्यः परवर्षेत पर्जन्य इति मे नात्र संशयः ॥ 26 ॥
एतच छरुत्वा वचॊ राजन कृत्वा निस्कृतिम आत्मनः स गत्वा पुनर आगच्छत परसन्नेषु दविजातिषु राजानम आगतं दृष्ट्वा परतिसंजगृहुः परजाः ॥ 27 ॥
ततॊ ऽङगपतिर आहूय सचिवान मन्त्रकॊविदान ऋश्य शृङ्गागमे यत्नम अकरॊन मन्त्रनिश्चये ॥ 28 ॥
सॊ ऽधयगच्छद उपायं तु तैर अमात्यैः सहाच्युतः शास्त्रज्ञैर अलम अर्थज्ञैर नीत्यां च परिनिष्ठितैः ॥ 29 ॥
तत आनाययाम आस वार मुख्या महीपतिः वैश्याः सर्वत्र निष्णातास ता उवाच स पार्थिवः ॥ 30 ॥
ऋश्य शृङ्गम ऋषेः पुत्रम आनयध्वम उपायतः लॊभयित्वाभिविश्वास्य विषयं मम शॊभनाः ॥ 31 ॥
ता राजभयभीताश च शापभीताश च यॊषितः अशक्यम ऊचुस तत कार्यं वि वर्णा गतचेतसः ॥ 32 ॥
तत्र तव एका जरद यॊषा राजानम इदम अब्रवीत परयतिष्ये महाराज तम आनेतुं तपॊधनम ॥ 33 ॥
अभिप्रेतांस तु मे कामान समनुज्ञातुम अर्हसि ततः शक्ष्ये लॊभयितुम ऋश्य शृङ्गम ऋषेः सुतम ॥ 34 ॥
तस्याः सर्वम अभिप्रायम अन्वजानात स पार्थिवः धनं च परददौ भूरि रत्नानि विविधानि च ॥ 35 ॥
ततॊ रूपेण संपन्ना वयसा च महीपते सत्रिय आदाय काश चित सा जगाम वनम अञ्जसा ॥ 36 ॥
वनपर्व · Vana Parva
अध्याय 110
Reach this point to mark the section finished.
Continue to अध्याय 111