[व] ततः परयातः कौन्तेयः करमेण भरतर्षभ नन्दाम अपरनन्दां च नद्यौ पापभयापहे ॥ 1 ॥
स पर्वतं समासाद्य हेमकूटम अनामयम अचिन्त्यान अद्भुतान भावान ददर्श सुबहून नृपः ॥ 2 ॥
वाचॊ यत्राभवन मेघा उपलाश च सहस्रशः नाशक्नुवंस तम आरॊढुं विषण्णमनसॊ जनाः ॥ 3 ॥
वायुर नित्यं ववौ यत्र नित्यं देवश च वर्षति सायंप्रातश च भगवान दृश्यते हव्यवाहनः ॥ 4 ॥
एवं बहुविधान भावान अद्भुतान वीक्ष्य पाण्डवः लॊमशं पुनर एव सम पर्यपृच्छत तद अद्भुतम ॥ 5 ॥
[लॊमष] यथा शरुतम इदं पूर्वम अस्माभिर अरिकर्शन तद एकाग्रमना राजन निबॊध गदतॊ मम ॥ 6 ॥
अस्मिन्न ऋषभकूटे ऽभूद ऋषभॊ नाम तापसः अनेकशतवर्षायुस तपॊ वी कॊपनॊ भृशम ॥ 7 ॥
स वै संभाष्यमाणॊ ऽनयैः कॊपाद गिरिम उवाच ह य इह वयाहरेत कश चिद उपलान उत्सृजेस तदा ॥ 8 ॥
वातं चाहूय मा शब्दम इत्य उवाच स तापसः वयाहरंश चैव पुरुषॊ मेघेन विनिवार्यते ॥ 9 ॥
एवम एतानि कर्माणि राजंस तेन महर्षिणा कृतानि कानि चित कॊपात परतिसिद्धानि कानि चित ॥ 10 ॥
नन्दाम अभिगतान देवान पुरा राजन्न इति शरुतिः अन्वपद्यन्त सहसा पुरुषा देव दर्शिनः ॥ 11 ॥
ते दर्शनम अनिच्छन्तॊ देवाः शक्रपुरॊगमाः दुर्गं चक्रुर इमं देशं गिरिप्रत्यूह रूपकम ॥ 12 ॥
तदा परभृति कौन्तेय नरा गिरिम इमं सदा नाशक्नुवन अभिद्रष्टुं कुत एवाधिरॊहितुम ॥ 13 ॥
नातप्त तपसा शक्यॊ दरष्टुम एष महागिरिः आरॊढुं वापि कौन्तेय तस्मान नियतवाग भव ॥ 14 ॥
इह देवाः सदा सर्वे यज्ञान आजह्रुर उत्तमान तेषाम एतानि लिङ्गानि दृश्यन्ते ऽदयापि भारत ॥ 15 ॥
कुशाकारेव दूर्वेयं संस्तीर्णेव च भूर इयम यूपप्रकारा बहवॊ वृक्षाश चेमे विशां पते ॥ 16 ॥
देवाश च ऋषयश चैव वसन्त्य अद्यापि भारत तेषां सायं तथा परातर दृश्यते हव्यवाहनः ॥ 17 ॥
इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते कुरुश्रेष्ठाभिषेकं वै तस्मात कुरु सहानुजः ॥ 18 ॥
ततॊ नन्दाप्लुताङ्गस तवं कौशिकीम अभियास्यसि विश्वा मित्रेण यत्रॊग्रं तपस तप्तुम अनुत्तमम ॥ 19 ॥
ततस तत्र समाप्लुत्य गात्राणि सगणॊ नृपः जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम ॥ 20 ॥
वनपर्व · Vana Parva
अध्याय 109
Reach this point to mark the section finished.
Continue to अध्याय 110