[लॊमष] भगीरथवचः शरुत्वा परियार्थं च दिवौकसाम एवम अस्त्व इति राजानं भगवान परत्यभाषत ॥ 1 ॥
धारयिष्ये महाबाहॊ गगणात परच्युतां शिवाम दिव्यां देव नदीं पुण्यां तवत्कृते नृपसत्तम ॥ 2 ॥
एवम उक्त्वा महाबाहॊ हिमवन्तम उपागमत संवृतः पार्षदैर घॊरैर नानाप्रहरणॊद्यतैः ॥ 3 ॥
ततः सथित्वा नरश्रेष्ठं भगीरथम उवाच ह परयाचस्व महाबाहॊ शैलराजसुतां नदीम पतमानां सरिच्छ्रेष्ठां धारयिष्ये तरिविष्टपात ॥ 4 ॥
एतच छरुत्वा वचॊ राजा शर्वेण समुदाहृतम परयतः परणतॊ भूत्वा गङ्गां समनुचिन्तयत ॥ 5 ॥
ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता ईशानं च सथितं दृष्ट्वा गगणात सहसा चयुता ॥ 6 ॥
तां परच्युतां ततॊ दृष्ट्वा देवाः सार्धं महर्षिभिः गन्धर्वॊरगरक्षांसि समाजग्मुर दिदृक्षया ॥ 7 ॥
ततः पपात गगणाद गङ्गा हिमवतः सुता समुद्भ्रान्त महावर्ता मीनग्राहसमाकुला ॥ 8 ॥
तां दधार हरॊ राजन गङ्गां गगण मेखलाम ललाटदेशे पतितां मालां मुक्ता मयीम इव ॥ 9 ॥
सा बभूव विसर्पन्ती तरिधा राजन समुद्रगा फेनपुञ्जाकुल जला हंसानाम इव पङ्क्तयः ॥ 10 ॥
कव चिद आभॊग कुटिला परस्खलन्ती कव चित कव चित सवफेन पटसंवीता मत्तेव परमदाव्रजत कव चित सा तॊयनिनदैर नदन्ती नादम उत्तमम ॥ 11 ॥
एवं परकारान सुबहून कुर्वन्ती गगणाच चयुता पृथिवीतलम आसाद्य भगीरथम अथाब्रवीत ॥ 12 ॥
दर्शयस्व महाराज मार्गं केन वरजाम्य अहम तवदर्थम अवतीर्णास्मि पृथिवीं पृथिवीपते ॥ 13 ॥
एतच छरुत्वा वचॊ राजा परातिष्ठत भगीरथः यत्र तानि शरीराणि सागराणां महात्मनाम पावनार्थं नरश्रेष्ठ पुण्येन सलिलेन ह ॥ 14 ॥
गङ्गाया धारणं कृत्वा हरॊ लॊकनमस्कृतः कैलासं पर्वतश्रेष्ठं जगाम तरिदशैः सह ॥ 15 ॥
समुद्रं च समासाद्य गङ्गया सहितॊ नृपः पूरयाम आस वेगेन समुद्रं वरुणालयम ॥ 16 ॥
दुहितृत्वे च नृपतिर गङ्गां समनुकल्पयत पितॄणां चॊदकं यत्र ददौ पूर्णमनॊ रथः ॥ 17 ॥
एतत ते सर्वम आख्यातं गङ्गा तरिपथ गा यथा पूरणार्थं समुद्रस्य पृथिवीम अवतारिता ॥ 18 ॥
समुद्रश च यथा पीतः कारणार्थे महात्मना वातापिश च यथा नीतः कषयं स बरह्म हा परभॊ अगस्त्येन महाराज यन मां तवं परिपृच्छसि ॥ 19 ॥
वनपर्व · Vana Parva
अध्याय 108
Reach this point to mark the section finished.
Continue to अध्याय 109