धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 107

  1. [लॊमष] स तु राजा महेष्वासश चक्रवर्ती महारथः बभूव सर्वलॊकस्य मनॊ नयननन्दनः ॥ 1 ॥

  2. स शुश्राव महाबाहुः कपिलेन महात्मना पितॄणां निधनं घॊरम अप्राप्तिं तरिदिवस्य च ॥ 2 ॥

  3. स राज्यं सचिवे नयस्य हृदयेन विदूयता जगाम हिमवत्पार्श्वं तपस तप्तुं नरेश्वरः ॥ 3 ॥

  4. आरिराधयिषुर गङ्गां तपसा दग्धकिल्बिषः सॊ ऽपश्यत नरश्रेष्ठ हिमवन्तं नगॊत्तमम शृङ्गैर बहुविधाकारैर धातुमद्भिर अलं कृतम ॥ 4 ॥

  5. पवनालम्बिभिर मेघैः परिष्वक्तं समन्त तः ॥ 5 ॥

  6. नदी कुञ्ज नितम्बैश च सॊदकैर उपशॊभितम गुहा कन्दरसंलीनैः सिंहव्याघ्रैर निषेवितम ॥ 6 ॥

  7. शकुनैश च वि चित्राङ्गैः कूजद्भिर विविधा गिरः भृङ्गराजैस तथा हंसैर दात्यूहैर जलकुक्कुतैः ॥ 7 ॥

  8. मयूरैः शतपत्रैश च कॊकिलैर जीव जीवकैः चकॊरैर असितापाङ्गैस तथा पुत्र परियैर अपि ॥ 8 ॥

  9. जलस्थानेषु रम्येषु पद्मिनीभिश च संकुलम सारसानां च मधुरैर वयाहृतैः समलं कृतम ॥ 9 ॥

  10. किंनरैर अप्सरॊभिश च निषेवित शिलातलम दिशागजविषाणाग्रैः समन्ताद घृष्ट पादपम ॥ 10 ॥

  11. विद्याधरानुचरितं नानारत्नसमाकुलम विषॊल्बणैर भुजं गैश च दीप्तजिह्वैर निषेवितम ॥ 11 ॥

  12. कव चित कनकसंकाशं कव चिद रजतसंनिभम कव चिद अञ्जन पुञ्जाभं हिमवन्तम उपागमत ॥ 12 ॥

  13. स तु तत्र नरश्रेष्ठस तपॊ घॊरं समाश्रितः फलमूलाम्बुभक्षॊ ऽभूत सहस्रं परिवत्सरान ॥ 13 ॥

  14. संवत्सरसहस्रे तु गते दिव्ये महानदी दर्शयाम आस तं गङ्गा तदा मूर्ति मती सवयम ॥ 14 ॥

  15. [गन्गा] किम इच्छसि महाराज मत्तः किं च ददानि ते तद बरवीहि नरश्रेष्ठ करिष्यामि वचस तव ॥ 15 ॥

  16. [लॊमष] एवम उक्तः परत्युवाच राजा हैमवतीं तदा पिता महामे वरदे कपिलेन महानदि अन्वेषमाणास तुरगं नीता वैवस्वतक्षयम ॥ 16 ॥

  17. षष्टिस तानि सहस्राणि सागराणां महात्मनाम कापिलं तेज आसाद्य कषणेन निधनं गताः ॥ 17 ॥

  18. तेषाम एवं विनष्टानां सवर्गे वासॊ न विद्यते यावत तानि शरीराणि तवं जलैर नाभिषिञ्चसि ॥ 18 ॥

  19. सवर्गं नयमहाभागे मत पितॄन सगरात्म जान तेषाम अर्थे ऽभियाचामि तवाम अहं वै महानदि ॥ 19 ॥

  20. एतच छरुत्वा वचॊ राज्ञॊ गङ्गा लॊकनमस्कृता भगीरथम इदं वाक्यं सुप्रीता समभाषत ॥ 20 ॥

  21. करिष्यामि महाराज वचस ते नात्र संशयः वेगं तु मम दुर धार्यं पतन्त्या गगणाच चयुतम ॥ 21 ॥

  22. न शक्तस तरिषु लॊकेषु कश चिद धारयितुं नृप अन्यत्र विबुधश्रेष्ठान नीलकण्ठान महेश्वरात ॥ 22 ॥

  23. तं तॊषय महाबाहॊ तपसा वरदं हरम स तु मां परच्युतां देवः शिरसा धारयिष्यति करिष्यति च ते कामं पितॄणां हितकाम्यया ॥ 23 ॥

  24. एतच छरुत्वा वचॊ राजन महाराजॊ भगीरथः कैलासं पर्वतं गत्वा तॊषयाम आस शंकरम ॥ 24 ॥

  25. ततस तेन समागम्य कालयॊगेन केन चित अगृह्णाच च वरं तस्माद गङ्गाया धारणं नृप सवर्गवासं समुद्दिश्य पितॄणां स नरॊत्तमः ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 108

Previous: अध्याय 106