[लॊमष] ते तं दृष्ट्वा हयं राजन संप्रहृष्टतनू रुहाः अनादृत्य महात्मानं कपिलं कालचॊदिताः संक्रुद्धाः समधावन्त अश्वग्रहण काङ्क्षिणः ॥ 1 ॥
ततः करुद्धॊ महाराज कपिलॊ मुनिसत्तमः वासुदेवेति यं पराहुः कपिलं मुनिसत्तमम ॥ 2 ॥
स चक्षुर विवृतं कृत्वा तेजस तेषु समुत्सृजन ददाह सुमहातेजा मन्दबुद्धीन स सागरान ॥ 3 ॥
तान दृष्ट्वा भस्मसाद भूतान नारदः सुमहातपाः सगरान्तिकम आगच्छत तच च तस्मै नयवेदयत ॥ 4 ॥
स तच छरुत्वा वचॊ घॊरं राजा मुनिमुखॊद्गतम आत्मानम आत्मनाश्वस्य हयम एवान्वचिन्तयत ॥ 5 ॥
अंशुमन्तं समाहूय असमज्ञः सुतं तदा पौत्रं भरतशार्दूल इदं वचनम अब्रवीत ॥ 6 ॥
षष्टिस तानि सहस्राणि पुत्राणाम अमितौजसाम कापिलं तेज आसाद्य मत्कृते निधनं गताः ॥ 7 ॥
तव चापि पिता तात परित्यक्तॊ मयानघ धर्मं संरक्षमाणेन पौराणां हितम इच्छता ॥ 8 ॥
[य] किमर्थं राजशार्दूलः सगरः पुत्रम आत्मजम तयक्तवान दुस्त्यजं वीरं तन मे बरूहि तपॊधन ॥ 9 ॥
[ल] असमञ्जा इति खयातः सगरस्य सुतॊ हय अभूत यं शैब्या जनयाम आस पौराणां स हि दारकान खुरेषु करॊशतॊ गृह्य नद्यां चिक्षेप दुर्बलान ॥ 10 ॥
ततः पौराः समाजग्मुर भयशॊकपरिप्लुताः सगरं चाभ्ययाचन्त सर्वे पराञ्जलयः सथिताः ॥ 11 ॥
तवं नस तराता महाराज परचक्रादिभिर भयैः असमञ्जॊ भयाद घॊरात ततॊ नस तरातुम अर्हसि ॥ 12 ॥
पौराणां वचनं शरुत्वा घॊरं नृपतिसत्तमः मुहूर्तं विमनॊ भूत्वा सचिवान इदम अब्रवीत ॥ 13 ॥
असमञ्जाः पुराद अद्य सुतॊ मे विप्रवास्यताम यदि वॊ मत्प्रियं कार्यम एतच छीघ्रं विधीयताम एवम उक्ता नरेन्द्रेण सचिवास ते नराधिप ॥ 14 ॥
यथॊक्तं तवरिताश चक्रुर यथाज्ञापितवान नृपः ॥ 15 ॥
एतत ते सर्वम आख्यातं यथा पुत्रॊ महात्मना पौराणां हितकामेन सगरेण विवासितः ॥ 16 ॥
अंशुमांस तु महेष्वासॊ यद उक्तः सगरेण ह तत ते सर्वं परवक्ष्यामि कीर्त्यमानं निबॊध मे ॥ 17 ॥
[सगर] पितुश च ते ऽहं तयागेन पुत्राणां निधनेन च अलाभेन तथाश्वस्य परितप्यामि पुत्रक ॥ 18 ॥
तस्माद दुःखाभिसंतप्तं यज्ञविघ्नाच च मॊहितम हयस्यानयनात पौत्र नरकान मां समुद्धर ॥ 19 ॥
[ल] अंशुमान एवम उक्तस तु सगरेण महात्मना जगाम दुःखात तं देशं यत्र वै दारिता मही ॥ 20 ॥
स तु तेनैव मार्गेण समुद्रं परविवेश ह अपश्यच च महात्मानं कपिलं तुरगं च तम ॥ 21 ॥
स दृष्ट्वा तेजसॊ राशिं पुराणम ऋषिसत्तमम परणम्य शिरसा भूमौ कार्यम अस्मै नयवेदयत ॥ 22 ॥
ततः परीतॊ महातेजाः कलिपॊ ऽंशुमतॊ ऽभवत उवाच चैनं धर्मात्मा वरदॊ ऽसमीति भारत ॥ 23 ॥
स वव्रे तुरगं तत्र परथमं यज्ञकारणात दवितीयम उदकं वव्रे पितॄणां पावनेप्सया ॥ 24 ॥
तम उवाच महातेजाः कपिलॊ मुनिपुंगवः ददानि तव भद्रं ते यद यत परार्थयसे ऽनघ ॥ 25 ॥
तवयि कषमा च धर्मश च सत्यं चापि परतिष्ठितम तवया कृतार्थः सगरः पुत्र वांश च तवया पिता ॥ 26 ॥
तव चैव परभावेण सवर्गं यास्यन्ति सागराः पौत्रश च ते तरिपथ गां तरिदिवाद आनयिष्यति पावनार्थं सागराणां तॊषयित्वा महेश्वरम ॥ 27 ॥
हयं नयस्व भद्रं ते यज्ञियं नरपुंगव यज्ञः समाप्यतां तात सगरस्य महात्मनः ॥ 28 ॥
अंशुमान एवम उक्तस तु कपिलेन महात्मना आजगाम हयं गृह्य यज्ञवाटं महात्मनः ॥ 29 ॥
सॊ ऽभिवाद्य ततः पादौ सगरस्य महात्मनः मूर्ध्नि तेनाप्य उपाघ्रातस तस्मै सर्वं नयवेदयत ॥ 30 ॥
यथादृष्टं शरुतं चापि सागराणां कषयं तथा तं चास्मै हयम आचस्त यज्ञवाटम उपागतम ॥ 31 ॥
तच छरुत्वा सगरॊ राजा पुत्र जं दुःखम अत्यजत अंशुमन्तं च संपूज्य समापयत तं करतुम ॥ 32 ॥
समाप्तयज्ञः सगरॊ देवैः सर्वैः सभाजितः पुत्र तवे कल्पयाम आस समुद्रं वरुणालयम ॥ 33 ॥
परशास्य सुचिरं कालं राज्यं राजीवलॊचनः पौत्रे भारं समावेश्य जगाम तरिदिवं तदा ॥ 34 ॥
अंशुमान अपि धर्मात्मा महीं सागरमेखलाम परशशाश महाराज यथैवास्य पिता महः ॥ 35 ॥
तस्य पुत्रः समभवद दिलीपॊ नाम धर्मवित तस्मै राज्यं समाधाय अंशुमान अपि संस्थितः ॥ 36 ॥
दिलीपस तु ततः शरुत्वा पितॄणां निधनं महत पर्यतप्यत दुःखेन तेषां गतिम अचिन्तयत ॥ 37 ॥
गङ्गावतरणे यत्नं सुमहच चाकरॊन नृपः न चावतारयाम आस चेष्टमानॊ यथाबलम ॥ 38 ॥
तस्य पुत्रः समभवच छरीमान धर्मपरायणः भगीरथ इति खयातः सत्यवाग अनसूयकः ॥ 39 ॥
अभिषिच्य तु तं राज्ये दिलीपॊ वनम आश्रितः तपःसिद्धिसमायॊगात स राजा भरतर्षभ वनाज जगाम तरिदिवं कालयॊगेन भारत ॥ 40 ॥
वनपर्व · Vana Parva
अध्याय 106
Reach this point to mark the section finished.
Continue to अध्याय 107