[लॊमष] एतच छरुत्वान्तरिक्षाच च स राजा राजसत्तम यथॊक्तं तच चकाराथ शरद्दधद भरतर्षभ ॥ 1 ॥
षष्टिः पुत्रसहस्राणि तस्याप्रतिम तेजसः रुद्र परसादाद राजर्षेः समजायन्त पार्थिव ॥ 2 ॥
ते घॊराः करूरकर्माण आकाशपरिषर्पिणः बहुत्वाच चावजानन्तः सर्वाँल लॊकान सहामरान ॥ 3 ॥
तरिदशांश चाप्य अबाधन्त तथा गन्धर्वराक्षसान सर्वाणि चैव भूतानि शूराः समरशालिनः ॥ 4 ॥
वध्यमानास ततॊ लॊकाः सागरैर मन्दबुद्धिभिः बरह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः ॥ 5 ॥
तान उवाच महाभागः सर्वलॊकपितामहः गच्छध्वं तरिदशाः सर्वे लॊकैः सार्धं यथागतम ॥ 6 ॥
नातिदीर्घेण कालेन सागराणां कषयॊ महान भविष्यति महाघॊरः सवकृतैः कर्मभिर सुराः ॥ 7 ॥
एवम उक्तास ततॊ देवा लॊकाश च मनुजेश्वर पितामहम अनुज्ञाप्य विप्रजग्मुर यथागतम ॥ 8 ॥
ततः काले बहुतिथे वयतीते भरतर्षभ दीक्षितः सगरॊ राजा हयमेधेन वीर्यवान तस्याश्वॊ वयचरद भूमिं पुत्रैः सुपरिरक्षितः ॥ 9 ॥
समुद्रं स समासाद्य निस्तॊयं भीमदर्शनम रक्ष्यमाणः परयत्नेन तत्रैवान्तरधीयत ॥ 10 ॥
ततस ते सागरास तात हृतं मत्वा हयॊत्तमम आगम्य पितुर आचख्युर अदृश्यं तुरगं हृतम तेनॊक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम ॥ 11 ॥
ततस ते पितुर आज्ञाय दिक्षु सर्वासु तं हयम अमार्गन्त महाराज सर्वं च पृथिवीतलम ॥ 12 ॥
ततस ते सागराः सर्वे समुपेत्य परस्परम नाध्यगच्छन्त तुरगम अश्वहर्तारम एव च ॥ 13 ॥
आगम्य पितरं चॊचुस ततः पराञ्जलयॊ ऽगरतः ससमुद्र वनद्वीपा सनदी नदकन्दरा सपर्वतवनॊद्देशा निखिलेन मही नृप ॥ 14 ॥
अस्माभिर विचिता राजञ शासनात तव पार्थिव न चाश्वम अधिगच्छामॊ नाश्वहर्तारम एव च ॥ 15 ॥
शरुत्वा तु वचनं तेषां स राजा करॊधमूर्छितः उवाच वचनं सर्वांस तदा दैववशान नृप ॥ 16 ॥
अनागमाय गच्छध्वं भूयॊ मार्गत वाजिनम यज्ञियं तं विना हय अश्वं नागन्तव्यं हि पुत्रकाः ॥ 17 ॥
परतिगृह्य तु संदेशं ततस ते सगरात्मजाः भूय एव महीं कृत्स्नां विचेतुम उपचक्रमुः ॥ 18 ॥
अथापश्यन्त ते वीराः पृथिवीम अवदारिताम समासाद्य बिलं तच च खनन्तः सगरात्मजाः कुद्दालैर हरेषुकैश चैव समुद्रम अखनंस तदा ॥ 19 ॥
स खन्यमानः सहितैः सागरैर वरुणालयः अगच्छत परमाम आर्तिं दार्यमाणः समन्ततः ॥ 20 ॥
असुरॊरग रक्षांसि सत्त्वानि विविधानि च आर्तनादम अकुर्वन्त वध्यमानानि सागरैः ॥ 21 ॥
छिन्नशीर्षा विदेहाश च भिन्नजान्व अस्थि मस्तकाः पराणिनः समदृश्यन्त शतशॊ ऽथ सहस्रशः ॥ 22 ॥
एवं हि खनतां तेषां समुद्रं मकरालयम वयतीतः सुमहान कालॊ न चाश्वः समदृश्यत ॥ 23 ॥
ततः पूर्वॊत्तरे देशे समुद्रस्य महीपते विदार्य पातालम अथ संक्रुद्धाः सगरात्मजाः अपश्यन्त हयं तत्र विचरन्तं महीतले ॥ 24 ॥
कपिलं च महात्मानं तेजॊराशिम अनुत्तमम तपसा दीप्यमानं तं जवालाभिर इव पावकम ॥ 25 ॥
वनपर्व · Vana Parva
अध्याय 105
Reach this point to mark the section finished.
Continue to अध्याय 106