[य] किमर्थं सहसा विन्ध्यः परवृद्धः करॊधमूर्छितः एतद इच्छाम्य अहं शरॊतुं विस्तरेण महामुने ॥ 1 ॥
[लॊमष] अद्रिराजं महाशैलं मरुं कनकपर्वतम उदयास्तमये भानुः परदक्षिणम अवर्तत ॥ 2 ॥
तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यम अथाब्रवीत यथा हि मेरुर भवता नित्यशः परिगम्यते परदक्षिणं च करियते माम एवं कुरु भास्कर ॥ 3 ॥
एवम उक्तस ततः सूर्यः शैलेन्द्रं परत्यभासत नाहम आत्मेच्छया शैलकरॊम्य एनं परदक्षिणम एष मार्गः परदिष्टॊ मे येनेदं निर्मितं जगत ॥ 4 ॥
एवम उक्तस ततः करॊधात परवृद्धः सहसाचलः सूर्या चन्द्रमसॊर मार्गं रॊद्धुम इच्छन परंतप ॥ 5 ॥
ततॊ देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम निवारयाम आसुर उपायतस तं; न च सम तेषां वचनं चकार ॥ 6 ॥
अथाभिजग्मुर मुनिम आश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम अगस्त्यम अत्यद्भुतवीर्यदीप्तं; तं चार्थम ऊचुः सहिताः सुरास ते ॥ 7 ॥
[देवा] सूर्या चन्द्रमसॊर मार्गं नक्षत्राणां गतिं तथा शैलराजॊ वृणॊत्य एष विन्ध्यः करॊधवशानुगः ॥ 8 ॥
तं निवारयितुं शक्तॊ नान्यः कश चिद दविजॊत्तम ऋते तवां हि महाभाग तस्माद एनं निवारय ॥ 9 ॥
[लॊमष] तच छरुत्वा वचनं विप्रः सुराणां शैलम अभ्यगात सॊ ऽभिगम्याब्रवीद विन्ध्यं सदारः समुपस्थितः ॥ 10 ॥
मार्गम इछाम्य अहं दत्तं भवता पर्वतॊत्तम दक्षिणाम अभिगन्तास्मि दिशं कार्येण केन चित ॥ 11 ॥
यावदागमनं मह्यं तावत तवं परतिपालय निवृत्ते मयि शैलेन्द्र ततॊ वर्धस्व कामतः ॥ 12 ॥
एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन अद्यापि दक्षिणा देशाद वारुणिर न निवर्तते ॥ 13 ॥
एतत ते सर्वम आख्यातं यथा विन्ध्यॊ न वर्धते अगस्त्यस्य परभावेन यन मां तवं परिपृच्छसि ॥ 14 ॥
कालेयास तु यथा राजन सुरैः सर्वैर निषूदिताः अगस्त्याद वरम आसाद्य तन मे निगदतः शृणु ॥ 15 ॥
तरिदशानां वचॊ शरुत्वा मैत्रावरुणिर अब्रवीत किमर्थम अभियाताः सथ वरं मत्तः किम इच्छथ एवम उक्तास ततस तेन देवास तं मुनिम अब्रुवन ॥ 16 ॥
एवं तवयेच्छाम कृतं महर्षे; महार्णवं पीयमानं महात्मन ततॊ वधिष्याम सहानुबन्धान; कालेय संज्ञान सुरविद्विषस तान ॥ 17 ॥
तरिदशानां वचः शरुत्वा तथेति मुनिर अब्रवीत करिष्ये भवतां कामं लॊकानां च महत सुखम ॥ 18 ॥
एवम उक्त्वा ततॊ ऽगच्छत समुद्रं सरितां पतिम ऋषिभिश च तपःसिद्धैः सार्धं देवैश च सुव्रतः ॥ 19 ॥
मनुस्यॊरग गन्धर्वयक्षकिंपुरुषास तथा अनुजग्मुर महात्मानं दरस्तु कामास तद अद्भुतम ॥ 20 ॥
ततॊ ऽभयगच्छन सहिताः समुद्रं भीम निष्वनम नृत्यन्तम इव चॊर्मीभिर वल्गन्तम इव वायुना ॥ 21 ॥
हसन्तम इव फेनौघैः सखलन्तं कन्दरेषु च नाना गराहसमाकीर्णं नानाद्विज गनायुतम ॥ 22 ॥
अगस्त्यसहिता देवाः सगन्धर्वमहॊरगाः ऋषयश च महाभागाः समासेदुर महॊदधिम ॥ 23 ॥
वनपर्व · Vana Parva
अध्याय 102
Reach this point to mark the section finished.
Continue to अध्याय 103