धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 103

  1. [लॊमष] समुद्रं स समासाद्य वारुणिर भगवान ऋषिः उवाच सहितान देवान ऋषींश चैव समागतान ॥ 1 ॥

  2. एष लॊकहितार्थं वै पिबामि वरुणालयम भवद्भिर यद अनुष्ठेयं तच छीघ्रं संविधीयताम ॥ 2 ॥

  3. एतावद उक्त्वा वचनं मैत्रावरुणिर अच्युत समुद्रम अपिबत करुद्धः सर्वलॊकस्य पश्यतः ॥ 3 ॥

  4. पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः विस्मयं परमं जग्मुः सतुतिभिश चाप्य अपूजयन ॥ 4 ॥

  5. तवं नस तराता विधाता च लॊकानां लॊकभावनः तवत्प्रसादात समुच्छेदं न गच्छेत सामरं जगत ॥ 5 ॥

  6. संपूज्यमानस तरिदशैर महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः दिव्यैश च पुष्पैर अवकीर्यमाणॊ; महार्णवं निःसलिलं चकार ॥ 6 ॥

  7. दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः परगृह्य दिव्यानि वरायुधानि; तान दानवाञ जघ्नुर अदीनसत्त्वाः ॥ 7 ॥

  8. ते वध्यमानास तरिदशैर महात्मभिर; महाबलैर वेगिभिर उन्नदद्भिः न सेहिरे वेगवतां महात्मनां; वेगं तदा धारयितुं दिवौकसाम ॥ 8 ॥

  9. ते वध्यमानास तरिदशैर दानवा भीमनिस्वनाः चक्रुः सुतुमुलं युद्धं मुहूर्तम इव भारत ॥ 9 ॥

  10. ते पूर्वं तपसा दग्धा मुनिभिर भावितात्मभिः यतमानाः परं शक्त्या तरिदशैर विनिषूदिताः ॥ 10 ॥

  11. ते हेमनिष्काभरणाः कुण्डलाङ्गद धारिणः निहत्य बह्व अशॊभन्त पुष्पिता इव किंशुकाः ॥ 11 ॥

  12. हतशेषास ततः के चित कालेया मनुजॊत्तम विदार्य वसुधां देवीं पातालतलम आश्रिताः ॥ 12 ॥

  13. निहतान दानवान दृष्ट्वा तरिदशा मुनिपुंगवम तुष्टुवुर विविधैर वाक्यैर इदं चैवाब्रुवन वचः ॥ 13 ॥

  14. तवत्प्रसादान महाभाग लॊकैः पराप्तं महत सुखम तवत तेजसा च निहताः कालेयाः करूर विक्रमाः ॥ 14 ॥

  15. पूरयस्व महाबाहॊ समुद्रं लॊकभावन यत तवया सलिलं पीतं तद अस्मिन पुनर उत्सृज ॥ 15 ॥

  16. एवम उक्तः परत्युवाच भगवान मुनिपुंगवः जीर्णं तद धि मया तॊयम उपायॊ ऽनयः परचिन्त्यताम पूरणार्थं समुद्रस्य भवद्भिर यत्नम आस्थितैः ॥ 16 ॥

  17. एतच छरुत्वा तु वचनं महर्षे भावितात्मनः विस्मिताश च विषण्णाश च बभूवुः सहिताः सुराः ॥ 17 ॥

  18. परस्परम अनुज्ञाप्य परनम्य मुनिपुंगवम परजाः सर्वा महाराज विप्रजग्मुर यथागतम ॥ 18 ॥

  19. तरिदशा विष्णुना सार्धम उपजग्मुः पितामहम पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ऊचुः पराञ्जलयः सर्वे सागरस्याभिपूरणम ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 104

Previous: अध्याय 102