धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 9

  1. [न] युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा परमाणेन यथा याम्या शुभप्राकारतॊरणा ॥ 1 ॥

  2. अन्तः सलिलम आस्थाय विहिता विश्वकर्मणा दिव्यरत्नमयैर वृक्षैः फलपुष्पप्रदैर युता ॥ 2 ॥

  3. नीलपीतासित शयामैः सितैर लॊहितकैर अपि अवतानैस तथा गुल्मैः पुष्पमञ्जरि धारिभिः ॥ 3 ॥

  4. तथा शकुनयस तस्यां नानारूपा मृदु सवराः अनिर्देश्या वपुष्मन्तः शतशॊ ऽथ सहस्रशः ॥ 4 ॥

  5. सा सभा सुखसंस्पर्शा न शीता न च घर्मदा वेश्मासनवती रम्या सिता वरुणपालिता ॥ 5 ॥

  6. यस्याम आस्ते स वरुणॊ वारुण्या सह भारत दिव्यरत्नाम्बर धरॊ भूषणैर उपशॊभितः ॥ 6 ॥

  7. सरग्विणॊ भूषिताश चापि दिव्यमाल्यानुकर्षिणः आदित्यास तत्र वरुणं जलेश्वरम उपासते ॥ 7 ॥

  8. वासुकिस तक्षकश चैव नागश चैरावतस तथा कृष्णश च लॊहितश चैव पद्मश चित्रश च वीर्यवान ॥ 8 ॥

  9. कम्बलाश्वतरौ नागौ धृतराष्ट्र बलाहकौ मणिमान कुण्डलधरः कर्कॊटक धनंजयौ ॥ 9 ॥

  10. परह्लादॊ मूषिकादश च तथैव जनमेजयः पताकिनॊ मण्डलिनः फणवन्तश च सर्वशः ॥ 10 ॥

  11. एते चान्ये च बहवः सर्पास तस्यां युधिष्ठिर उपासते महात्मानं वरुणं विगतक्लमाः ॥ 11 ॥

  12. बलिर वैरॊचनॊ राजा नरकः पृथिवीं जयः परह्लादॊ विप्र चित्तिश च कालखञ्जाश च सर्वशः ॥ 12 ॥

  13. सुहनुर दुर्मुखः शङ्खः सुमनाः सुमतिः सवनः घटॊदरॊ महापार्श्वः करथनः पिठरस तथा ॥ 13 ॥

  14. विश्वरूपः सुरूपश च विरूपॊ ऽथ महाशिराः दशग्रीवश च बाली च मेघवासा दशावरः ॥ 14 ॥

  15. कैटभॊ विटटूतश च संह्रादश चेन्द्र तापनः दैत्यदानव संघाश च सर्वे रुचिरकुण्डलाः ॥ 15 ॥

  16. सरग्विणॊ मौलिनः सर्वे तथा दिव्यपरिच्छदाः सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥ 16 ॥

  17. ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा उपासते महात्मानं सर्वे सुचरितव्रताः ॥ 17 ॥

  18. तथा समुद्राश चत्वारॊ नदी भागीरथी च या कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी ॥ 18 ॥

  19. विपाशा च शतद्रुश च चन्द्र भागा सरस्वती इरावती वितस्ता च सिन्धुर देव नदस तथा ॥ 19 ॥

  20. गॊदावरी कृष्ण वेण्णा कावेरी च सरिद वरा एताश चान्याश च सरितस तीर्थानि च सरांसि च ॥ 20 ॥

  21. कूपाश च सप्रस्रवणा देहवन्तॊ युधिष्ठिर पल्वलानि तडागानि देहवन्त्य अथ भारत ॥ 21 ॥

  22. दिशस तथा मही चैव तथा सर्वे महीधराः उपासते महात्मानं सर्वे जलचरास तथा ॥ 22 ॥

  23. गीतवादित्रवन्तश च गन्धर्वाप्सरसां गणाः सतुवन्तॊ वरुणं तस्यां सर्व एव समासते ॥ 23 ॥

  24. महीधरा रत्नवन्तॊ रसा येषु परतिष्ठिताः सर्वे विग्रहवन्तस ते तम ईश्वरम उपासते ॥ 24 ॥

  25. एषा मया संपतता वारुणी भरतर्षभ दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 10

Previous: अध्याय 8