[न] सभा वैश्रवणी राजञ शतयॊजनम आयता विस्तीर्णा सप्ततिश चैव यॊजनानि सितप्रभा ॥ 1 ॥
तपसा निर्मिता राजन सवयं वैश्रवणेन सा शशिप्रभा खेचरीणां कैलासशिखरॊपमा ॥ 2 ॥
गुह्यकैर उह्यमाना सा खे विषक्तेव दृश्यते दिव्या हेममयैर उच्चैः पादपैर उपशॊभिता ॥ 3 ॥
रश्मिवती भास्वरा च दिव्यगन्धा मनॊरमा सिताभ्रशिखराकारा पलवमानेव दृश्यते ॥ 4 ॥
तस्यां वैश्रवणॊ राजा विचित्राभरणाम्बरः सत्रीसहस्रावृतः शरीमान आस्ते जवलितकुण्डलः ॥ 5 ॥
दिवाकरनिभे पुण्ये दिव्यास्तरण संवृते दिव्यपादॊपधाने च निषण्णः परमासने ॥ 6 ॥
मन्दाराणाम उदाराणां वनानि सुरभीणि च सौगन्धिकानां चादाय गन्धान गन्धवहः शुचिः ॥ 7 ॥
नलिन्याश चालकाख्यायाश चन्दनानां वनस्य च मनॊ हृदयसंह्लादी वायुस तम उपसेवते ॥ 8 ॥
तत्र देवाः सगन्धर्वा गणैर अप्सरसां वृताः दिव्यतानेन गीतानि गान्ति दिव्यानि भारत ॥ 9 ॥
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला ॥ 10 ॥
विश्वाची सह जन्या च परम्लॊचा उर्वशी इरा वर्गा च सौरभेयी च समीची बुद्बुदा लता ॥ 11 ॥
एताः सहस्रशश चान्या नृत्तगीतविशारदाः उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः ॥ 12 ॥
अनिशं दिव्यवादित्रैर नृत्तैर गीतैश च सा सभा अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः ॥ 13 ॥
किंनरा नाम गन्धर्वा नरा नाम तथापरे मणिभद्रॊ ऽथ धनदः शवेतभद्रश च गुह्यकः ॥ 14 ॥
कशेरकॊ गण्डकण्डुः परद्यॊतश च महाबलः कुस्तुम्बुरुः पिशाचश च गजकर्णॊ विशालकः ॥ 15 ॥
वराहकर्णः सान्द्रौष्ठः फलभक्षः फलॊदकः अङ्गचूडः शिखावर्तॊ हेमनेत्रॊ विभीषणः ॥ 16 ॥
पुष्पाननः पिङ्गलकः शॊणितॊदः परवालकः वृक्षवास्य निकेतश च चीरवासाश च भारत ॥ 17 ॥
एते चान्ये च बहवॊ यक्षाः शतसहस्रशः सदा भगवती च शरीस तथैव नलकूबरः ॥ 18 ॥
अहं च बहुशस तस्यां भवन्त्य अन्ये च मद्विधाः आचार्याश चाभवंस तत्र तथा देवर्षयॊ ऽपरे ॥ 19 ॥
भगवान भूतसंघैश च वृतः शतसहस्रशः उमापतिः पशुपतिः शूलधृग भग नेत्रहा ॥ 20 ॥
तर्यम्बकॊ राजशार्दूल देवी च विगतक्लमा वामनैर विकटैः कुब्जैः कषतजाक्षैर मनॊजवैः ॥ 21 ॥
मांसमेदॊ वसाहारैर उग्रश्रवण दर्शनैः नानाप्रहरणैर घॊरैर वातैर इव महाजवैः वृतः सखायम अन्वास्ते सदैव धनदं नृप ॥ 22 ॥
सा सभा तादृशी राजन मया दृष्टान्तरिक्षगा पितामह सभां राजन कथयिष्ये गतक्लमाम ॥ 23 ॥
सभापर्व · Sabha Parva
अध्याय 10
Reach this point to mark the section finished.
Continue to अध्याय 11