[न] कथयिष्ये सभां दिव्यां युधिष्ठिर निबॊध ताम वैवस्वतस्य याम अर्थे विश्वकर्मा चकार ह ॥ 1 ॥
तैजसी सा सभा राजन बभूव शतयॊजना विस्तारायाम संपन्ना भूयसी चापि पाण्डव ॥ 2 ॥
अर्कप्रकाशा भराजिष्णुः सर्वतः कामचारिणी नैवातिशीता नात्युष्णा मनसश च परहर्षिणी ॥ 3 ॥
न शॊकॊ न जरा तस्यां कषुत्पिपासे न चाप्रियम न च दैन्यं कलमॊ वापि परतिकूलं न चाप्य उत ॥ 4 ॥
सर्वे कामाः सथितास तस्यां ये दिव्या ये च मानुषाः रसवच च परभूतं च भक्ष्यभॊज्यम अरिंदम ॥ 5 ॥
पुण्यगन्धाः सरजस तत्र नित्यपुष्पफलद्रुमाः रसवन्ति च तॊयानि शीतान्य उष्णानि चैव ह ॥ 6 ॥
तस्यां राजर्षयः पुण्यास तथा बरह्मर्षयॊ ऽमलाः यमं वैवस्वतं तात परहृष्टाः पर्युपासते ॥ 7 ॥
ययातिर नहुषः पूरुर मान्धाता सॊमकॊ नृगः तरसदस्युश च तुरयः कृतवीर्यः शरुतश्रवाः ॥ 8 ॥
अरिप्रणुत सुसिंहश च कृतवेगः कृतिर निमिः परतर्दनः शिबिर मत्स्यः पृथ्व अक्षॊ ऽथ बृहद्रथः ॥ 9 ॥
ऐडॊ मरुत्तः कुशिकः सांकाश्यः सांकृतिर भवः चतुरश्वः सदश्वॊर्मिः कार्तवीर्यश च पार्थिवः ॥ 10 ॥
भरतस तथा सुरथः सुनीथॊ नैषधॊ नलः दिवॊदासॊ ऽथ सुमना अम्बरीषॊ भगीरथः ॥ 11 ॥
वयश्वः सदश्वॊ वध्र्य अश्वः पञ्च हस्तः पृथुश्रवाः रुषद्गुर वृषसेनश च कषुपश च सुमहाबलः ॥ 12 ॥
रुषद अश्वॊ वसु मनाः पुरु कुत्सॊ धवजी रथी आर्ष्टिषेणॊ दिलीपश च महात्मा चाप्य उशीनरः ॥ 13 ॥
औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः अङ्गॊ ऽरिष्टश च वेनश च दुःषन्तः संजयॊ जयः ॥ 14 ॥
भाङ्गास्वरिः सुनीथश च निषधॊ ऽथ तविषी रथः करंधमॊ बाह्लिकश च सुद्युम्नॊ बलवान मधुः ॥ 15 ॥
कपॊत रॊमा तृणकः सहदेवार्जुनौ तथा रामॊ दाशरथिश चैव लक्ष्मणॊ ऽथ परतर्दनः ॥ 16 ॥
अलर्कः कक्षसेनश च गयॊ गौराश्व एव च जामदग्न्यॊ ऽथ रामॊ ऽतर नाभाग सगरौ तथा ॥ 17 ॥
भूरि दयुम्नॊ महाश्वश च पृथ्व अश्वॊ जनकस तथा वैन्यॊ राजा वारि षेणः पुरुजॊ जनमेजयः ॥ 18 ॥
बरह्मदत्तस तरिगर्तश च राजॊपरि चरस तथा इन्द्र दयुम्नॊ भीम जानुर गयः पृष्ठॊ नयॊ ऽनघ ॥ 19 ॥
पद्मॊ ऽथ मुचुकुन्दश च भूरि दयुम्नः परसेनजित अरिष्टनेमिः परद्युम्नः पृथग अश्वॊ ऽजकस तथा ॥ 20 ॥
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः धृतराष्ट्राश चैकशतम अशीतिर जनमेजयाः ॥ 21 ॥
शतं च बरह्मदत्तानाम ईरिणां वैरिणां शतम शंतनुश चैव राजर्षिः पाण्डुश चैव पिता तव ॥ 22 ॥
उशद गवः शतरथॊ देवराजॊ जयद्रथः वृषा दर्भिश च राजर्षिर धाम्ना सह समन्त्रिणा ॥ 23 ॥
अथापरे सहस्राणि ये गताः शशबिन्दवः इष्ट्वाश्वमेधैर बहुभिर महद्भिर भूरिदक्षिणैः ॥ 24 ॥
एते राजर्षयः पुण्याः कीर्तिमन्तॊ बहुश्रुताः तस्यां सभायां राजर्षे वैवस्वतम उपासते ॥ 25 ॥
अगस्त्यॊ ऽथ मतङ्गश च कालॊ मृत्युस तथैव च यज्वानश चैव सिद्धाश च ये च यॊगशरीरिणः ॥ 26 ॥
अग्निष्व आत्ताश च पितरः फेनपाश चॊष्मपाश च ये सवधावन्तॊ बर्हि षदॊ मूर्तिमन्तस तथापरे ॥ 27 ॥
कालचक्रं च साक्षाच च भगवान हव्यवाहनः नरा दुष्कृतकर्माणॊ दक्षिणायन मृत्यवः ॥ 28 ॥
कालस्य नयने युक्ता यमस्य पुरुषाश च ये तस्यां शिंशप पालाशास तथा काशकुशादयः उपासते धर्मराजं मूर्तिमन्तॊ निरामयाः ॥ 29 ॥
एते चान्ये च बहवः पितृराज सभा सदः अशक्याः परिसंख्यातुं नामभिः कर्मभिस तथा ॥ 30 ॥
असंबाधा हि सा पार्थ रम्या कामगमा सभा दीर्घकालं तपस तप्त्वा निर्मिता विश्वकर्मणा ॥ 31 ॥
परभासन्ती जवलन्तीव तेजसा सवेन भारत ताम उग्रतपसॊ यान्ति सुव्रताः सत्यवादिनः ॥ 32 ॥
शान्ताः संन्यासिनः सिद्धा पूताः पुण्येन कर्मणा सर्वे भास्वरदेहाश च सर्वे च विरजॊऽमबराः ॥ 33 ॥
चित्राङ्गदाश चित्रमाल्याः सर्वे जवलितकुण्डलाः सुकृतैः कर्मभिः पुण्यैः परिबर्हैर विभूषिताः ॥ 34 ॥
गन्धर्वाश च महात्मानः शतशश चाप्सरॊगणाः वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ॥ 35 ॥
पुण्याश च गन्धाः शब्दाश च तस्यां पार्थ समन्ततः दिव्यानि माल्यानि च ताम उपतिष्ठन्ति सर्वशः ॥ 36 ॥
शतं शतसहस्राणि धर्मिणां तं परजेश्वरम उपासते महात्मानं रूपयुक्ता मनस्विनः ॥ 37 ॥
ईदृशी सा सभा राजन पितृराज्ञॊ महात्मनः वरुणस्यापि वक्ष्यामि सभां पुष्कर मालिनीम ॥ 38 ॥
सभापर्व · Sabha Parva
अध्याय 8
Reach this point to mark the section finished.
Continue to अध्याय 9