धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 7

  1. [न] शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर जिता सवयं शक्रेण कौरव्य निर्मितार्क समप्रभा ॥ 1 ॥

  2. विस्तीर्णा यॊजनशतं शतम अध्यर्धम आयता वैहायसी कामगमा पञ्चयॊजनम उच्छ्रिता ॥ 2 ॥

  3. जरा शॊकक्लमापेता निरातङ्का शिवा शुभा वेश्मासनवती रम्या दिव्यपादप शॊभिता ॥ 3 ॥

  4. तस्यां देवेश्वरः पार्थ सभायां परमासने आस्ते शच्या महेन्द्राण्या शरिया लक्ष्म्या च भारत ॥ 4 ॥

  5. बिभ्रद वपुर अनिर्देश्यं किरीटी लॊहिताङ्गदः विरजॊऽमबरश चित्रमाल्यॊ हरीकीर्तिद्युतिभिः सह ॥ 5 ॥

  6. तस्याम उपासते नित्यं महात्मानं शतक्रतुम मरुतः सर्वतॊ राजन सर्वे च गृहमेधिनः सिद्धा देवर्षयश चैव साध्या देवगणास तथा ॥ 6 ॥

  7. एते सानुचराः सर्वे दिव्यरूपाः सवलंकृताः उपासते महात्मानं देवराजम अरिंदमम ॥ 7 ॥

  8. तथा देवर्षयः सर्वे पार्थ शक्रम उपासते अमला धूतपाप्मानॊ दीप्यमाना इवाग्नयः तेजस्विनः सॊमयुजॊ विपापा विगतक्लमाः ॥ 8 ॥

  9. पराशरः पर्वतश च तथा सावर्णि गालवौ शङ्खश च लिखितश चैव तथा गौर शिरा मुनिः ॥ 9 ॥

  10. दुर्वासाश च दीर्घतपा याज्ञवल्क्यॊ ऽथ भालुकिः उद्दालकः शवेतकेतुस तथा शाट्यायनः परभुः ॥ 10 ॥

  11. हविष्मांश च गविष्ठश च हरिश चन्द्रश च पार्थिवः हृद्यश चॊदर शाण्डिल्यः पाराशर्यः कृषी हवलः ॥ 11 ॥

  12. वातस्कन्धॊ विशाखश च विधाता काल एव च अनन्त दन्तस तवष्टा च विश्वकर्मा च तुम्बुरुः ॥ 12 ॥

  13. अयॊनिजा यॊनिजाश च वायुभक्षा हुताशिनः ईशानं सर्वलॊकस्य वज्रिणं समुपासते ॥ 13 ॥

  14. सहदेवः सुनीथश च वाल्मीकिश च महातपाः समीकः सत्यवांश चैव परचेताः सत्यसंगरः ॥ 14 ॥

  15. मेधातिथिर वामदेवः पुलस्त्यः पुलहः करतुः मरुत्तश च मरीचिश च सथाणुश चात्रिर महातपाः ॥ 15 ॥

  16. कक्षीवान गौतमस तार्क्ष्यस तथा वैश्वानरॊ मुनिः मुनिः कालक वृक्षीय आश्राव्यॊ ऽथ हिरण्यदः संवर्तॊ देव हव्यश च विष्वक्सेनश च वीर्यवान ॥ 16 ॥

  17. दिव्या आपस तथौषध्यः शरद्धा मेधा सरस्वती अर्थॊ धर्मश च कामश च विद्युतश चापि पाण्डव ॥ 17 ॥

  18. जलवाहास तथा मेघा वायवः सतनयित्नवः पराची दिग यज्ञवाहाश च पावकाः सप्त विंशतिः ॥ 18 ॥

  19. अग्नी षॊमौ तथेन्द्राग्नी मित्रॊ ऽथ सवितार्यमा भगॊ विश्वे च साध्याश च शुक्रॊ मन्थी च भारत ॥ 19 ॥

  20. यज्ञाश च दक्षिणाश चैव गरहाः सतॊभाश च सर्वशः यज्ञवाहाश च ये मन्त्राः सर्वे तत्र समासते ॥ 20 ॥

  21. तथैवाप्सरसॊ राजन गन्धर्वाश च मनॊरमाः नृत्यवादित्रगीतैश च हास्यैश च विविधैर अपि रमयन्ति सम नृपते देवराजं शतक्रतुम ॥ 21 ॥

  22. सतुतिभिर मङ्गलैश चैव सतुवन्तः कर्मभिस तथा विक्रमैश च महात्मानं बलवृत्रनिषूदनम ॥ 22 ॥

  23. बरह्म राजर्षयः सर्वे सर्वे देवर्षयस तथा विमानैर विविधैर दिव्यैर भराजमानैर इवाग्निभिः ॥ 23 ॥

  24. सरग्विणॊ भूषिताश चान्ये यान्ति चायान्ति चापरे बृहस्पतिश च शुक्रश च तस्याम आययतुः सह ॥ 24 ॥

  25. एते चान्ये च बहवॊ यतात्मानॊ यतव्रताः विमानैश चन्द्रसंकाशैः सॊमवत परियदर्शनाः बरह्मणॊ वचनाद राजन भृगुः सप्तर्षयस तथा ॥ 25 ॥

  26. एषा सभा मया राजन दृष्टा पुष्कर मालिनी शतक्रतॊर महाराज याम्यां शृणु ममानघ ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 8

Previous: अध्याय 6