धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 72

  1. [व] वनं गतेषु पार्थेषु निर्जितेषु दुरॊदरे धृतराष्ट्रं महाराज तदा चिन्ता समाविशत ॥ 1 ॥

  2. तं चिन्तयानम आसीनं धृतराष्ट्रं जनेश्वरम निःश्वसन्तम अनेकाग्रम इति हॊवाच संजयः ॥ 2 ॥

  3. अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप परव्राज्य पाण्डवान राज्याद राजन किम अनुशॊचसि ॥ 3 ॥

  4. [ध] अशॊच्यं तु कुतस तेषां येषां वैरं भविष्यति पाण्डवैर युद्धशौण्डैर हि मित्रवद्भिर महारथैः ॥ 4 ॥

  5. [स] तवेदं सुकृतं राजन महद वैरं भविष्यति विनाशः सर्वलॊकस्य सानुबन्धॊ भविष्यति ॥ 5 ॥

  6. वार्यमाणॊ ऽपि भीष्मेण दरॊणेन विदुरेण च पाण्डवानां परियां भार्यां दरौपदीं धर्मचारिणीम ॥ 6 ॥

  7. पराहिणॊद आनयेहेति पुत्रॊ दुर्यॊधनस तव सूतपुत्रं सुमन्दात्मा निर्लज्जः परातिकामिनम ॥ 7 ॥

  8. [धृ] यस्मै देवाः परयच्छन्ति पुरुषाय पराभवम बुद्धिं तस्यापकर्षन्ति सॊ ऽपाचीनानि पश्यति ॥ 8 ॥

  9. बुद्धौ कलुष भूतायां विनाशे परत्युपस्थिते अनयॊ नयसंकाशॊ हृदयान नापसर्पति ॥ 9 ॥

  10. अनर्थाश चार्थरूपेण अर्थाश चानर्थ रूपिणः उत्तिष्ठन्ति विनाशान्ते नरं तच चास्य रॊचते ॥ 10 ॥

  11. न कालॊ दण्डम उद्यम्य शिरॊ कृन्तति कस्य चित कालस्य बलम एतावद विपरीतार्थ दर्शनम ॥ 11 ॥

  12. आसादितम इदं घॊरं तुमुलं लॊमहर्षणम पाञ्चालीम अपकर्षद्भिः सभामध्ये तपस्विनीम ॥ 12 ॥

  13. अयॊनिजां रूपवतीं कुले जातां विभावरीम कॊ नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम ॥ 13 ॥

  14. पर्यानयेत सभामध्यम ऋते दुर्द्यूत देविनम सत्री धर्मिणीं वरारॊहां शॊनितेन समुक्षिता ॥ 14 ॥

  15. एकवस्त्रां च पाञ्चालीं पाण्डवान अभ्यवेक्षतीम हृतस्वान भरष्टचित्तांस तान हृतदारान हृतश्रियः ॥ 15 ॥

  16. विहीनान सर्वकामेभ्यॊ दासभाववशं गतान धर्मपाशपरिक्षिप्तान अशक्तान इव विक्रमे ॥ 16 ॥

  17. करुद्धाम अमर्षितां कृष्णां दुःखितां कुरुसंसदि दुर्यॊधनश च कर्णश च कटुकान्य अभ्यभाषताम ॥ 17 ॥

  18. तस्याः कृपण चक्षुर भयां परदह्येतापि मेदिनी अपि शेषं भवेद अद्य पुत्राणां मम संजय ॥ 18 ॥

  19. भारतानां सत्रियः सर्वा गान्धार्या सह संगताः पराक्रॊर्शन भैरवं तत्र दृष्ट्वा कृष्णां सभा गताम ॥ 19 ॥

  20. अग्निहॊत्राणि सायाह्ने न चाहूयन्त सर्वशः बराह्मणाः कुपिताश चासन दरौपद्याः परिकर्षणे ॥ 20 ॥

  21. आसीन निष्टानकॊ घॊरॊ निर्घातश च महान अभूत दिवॊल्काश चापतन घॊरा राहुश चार्कम उपाग्रसत अपर्वणि महाघॊरं परजानां जनयन भयम ॥ 21 ॥

  22. तथैव रथशालासु परादुरासीद धुताशनः धवजाश च वयवशीर्यन्त भरतानाम अभूतये ॥ 22 ॥

  23. दुर्यॊधनस्याग्निहॊत्रे पराक्रॊशन भैरवं शिवाः तास तदा परत्यभाषन्त रासभाः सर्वतॊदिशम ॥ 23 ॥

  24. परातिष्ठत ततॊ भीष्मॊ दरॊणेन सह संजय कृपश च सॊमदत्तश च बाह्लीकश च महारथः ॥ 24 ॥

  25. ततॊ ऽहम अब्रुवं तत्र विदुरेण परचॊदितः वरं ददानि कृष्णायै कान्स्कितं यद यद इच्छति ॥ 25 ॥

  26. अवृणॊत तत्र पाञ्चाली पाण्डवान अमितौजसः सरथान सधनुष्कांश चाप्य अनुज्ञासिषम अप्य अहम ॥ 26 ॥

  27. अथाब्रवीन महाप्राज्ञॊ विदुरः सर्वधर्मवित एतद अन्ताः सथ भरता यद वः कृष्णा सभां गता ॥ 27 ॥

  28. एषा पाञ्चालराजस्य सुतैषा शरीर अनुत्तमा पाञ्चाली पाण्डवान एतान दैवसृष्टॊपसर्पति ॥ 28 ॥

  29. तस्याः पार्थाः परिक्लेशं न कषंस्यन्ते ऽतयमर्षणाः वृष्णयॊ वा महेष्वासाः पाञ्चाला वा महौजसः ॥ 29 ॥

  30. तेन सत्याभिसंधेन वासुदेवेन रक्षिताः आगमिष्यति बीभत्सुः पाञ्चालैर अभिरक्षितः ॥ 30 ॥

  31. तेषां मध्ये महेष्वासॊ भीमसेनॊ महाबलः आगमिष्यति धुन्वानॊ गदां दण्डम इवान्तकः ॥ 31 ॥

  32. ततॊ गाण्डीवनिर्घॊषं शरुत्वा पार्थस्य धीमतः गदा वेगं च भीमस्य नालं सॊढुं नराधिपाः ॥ 32 ॥

  33. तत्र मे रॊचते नित्यं पार्थैर सार्धं न विग्रहः कुरुभ्यॊ हि सदा मन्ये पाण्डवाञ शक्तिमत्तरान ॥ 33 ॥

  34. तथा हि बलवान राजा जरासंधॊ महाद्युतिः बाहुप्रहरणेनैव भीमेन निहतॊ युधि ॥ 34 ॥

  35. तस्य ते शम एवास्तु पाण्डवैर भरतर्षभ उभयॊः पक्षयॊर युक्तं करियताम अविशङ्कया ॥ 35 ॥

  36. एवं गावल्गणे कषत्ता धर्मार्थसहितं वचः उक्तवान न गृहीतं च मया पुत्र हितेप्सया ॥ 36 ॥

Reach this point to mark the section finished.

Continue to अध्याय 1

Previous: अध्याय 71