[व] संपूज्याथाभ्यनुज्ञातॊ महर्षेर वचनात परम परत्युवाचानुपूर्व्येण धर्मराजॊ युधिष्ठिरः ॥ 1 ॥
भगवन नयाय्यम आहैतं यथावद धर्मनिश्चयम यथाशक्ति यथान्यायं करियते ऽयं विधिर मया ॥ 2 ॥
राजभिर यद यथा कार्यं पुरा तत तन न संशयः यथान्यायॊपनीतार्थं कृतं हेतुमद अर्थवत ॥ 3 ॥
वयं तु सत्पथं तेषां यातुम इच्छामहे परभॊ न तु शक्यं तथा गन्तुं यथा तैर नियतात्मभिः ॥ 4 ॥
एवम उक्त्वा स धर्मात्मा वाक्यं तद अभिपूज्य च मुहूर्तात पराप्तकालं च दृष्ट्वा लॊकचरं मुनिम ॥ 5 ॥
नारदं सवस्थम आसीनम उपासीनॊ युधिष्ठिरः अपृच्छत पाण्डवस तत्र राजमध्ये महामतिः ॥ 6 ॥
भवान संचरते लॊकान सदा नानाविधान बहून बरह्मणा निर्मितान पूर्वं परेक्षमाणॊ मनॊजवः ॥ 7 ॥
ईदृशी भवता का चिद दृष्टपूर्वा सभा कव चित इतॊ वा शरेयसी बरह्मंस तन ममाचक्ष्व पृच्छतः ॥ 8 ॥
तच छरुत्वा नारदस तस्य धर्मराजस्य भाषितम पाण्डवं परत्युवाचेदं समयन मधुरया गिरा ॥ 9 ॥
मानुषेषु न मे तात दृष्टपूर्वा न च शरुता सभा मणिमयी राजन यथेयं तव भारत ॥ 10 ॥
सभां तु पितृराजस्य वरुणस्य च धीमतः कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च ॥ 11 ॥
बरह्मणश च सभां दिव्यां कथयिष्ये गतक्लमाम यदि ते शरवणे बुद्धिर वर्तते भरतर्षभ ॥ 12 ॥
नारदेनैवम उक्तस तु धर्मराजॊ युधिष्ठिरः पराञ्जलिर भरातृभिः सार्धं तैश च सर्वैर नृपैर वृतः ॥ 13 ॥
नारदं परत्युवाचेदं धर्मराजॊ महामनाः सभाः कथय ताः सर्वाः शरॊतुम इच्छामहे वयम ॥ 14 ॥
किं दरव्यास ताः सभा बरह्मन किं विस्ताराः किम आयताः पितामहं च के तस्यां सभायां पर्युपासते ॥ 15 ॥
वासवं देवराजं च यमं वैवस्वतं च के वरुणं च कुबेरं च सभायां पर्युपासते ॥ 16 ॥
एतत सर्वं यथातत्त्वं देवर्षे वदतस तव शरॊतुम इच्छाम सहिताः परं कौतूहलं हि नः ॥ 17 ॥
एवम उक्तः पाण्डवेन नारदः परत्युवाच तम करमेण राजन दिव्यास ताः शरूयन्ताम इह नः सभाः ॥ 18 ॥
सभापर्व · Sabha Parva
अध्याय 6
Reach this point to mark the section finished.
Continue to अध्याय 7