धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 62

  1. [दरौ] पुरस्तात करणीयं मे न कृतं कार्यम उत्तरम विह्वलास्मि कृतानेन कर्षता बलिना बलात ॥ 1 ॥

  2. अभिवादं करॊम्य एषां गुरूणां कुरुसंसदि न मे सयाद अपराधॊ ऽयं यद इदं न कृतं मया ॥ 2 ॥

  3. [वै] सा तेन च समुद्धूता दुःखेन च तपस्विनी पतिता विललापेदं सभायाम अतथॊचिता ॥ 3 ॥

  4. [दरौ] सवयंवरे यास्मि नृपैर दृष्टा रङ्गे समागतैः न दृष्टपूर्वा चान्यत्र साहम अद्य सभां गता ॥ 4 ॥

  5. यां न वायुर न चादित्यॊ दृष्टवन्तौ पुरा गृहे साहम अद्य सभामध्ये दृश्यामि कुरुसंसदि ॥ 5 ॥

  6. यां न मृष्यन्ति वातेन सपृश्यमानां पुरा गृहे सपृश्यमानां सहन्ते ऽदय पाण्डवास तां दुरात्मना ॥ 6 ॥

  7. मृष्यन्ते कुरवश चेमे मन्ये कालस्य पर्ययम सनुषां दुहितरं चैव कलिश्यमानाम अनर्हतीम ॥ 7 ॥

  8. किं तव अतः कृपणं भूयॊ यद अहं सत्री सती शुभा सभामध्यं विगाहे ऽदय कव नु धर्मॊ महीक्षिताम ॥ 8 ॥

  9. धर्म्याः सत्रियः सभां पूर्वं न नयन्तीति नः शरुतम स नष्टः कौरवेयेषु पूर्वॊ धर्मः सनातनः ॥ 9 ॥

  10. कथं हि भार्या पाण्डूनां पार्षतस्य सवसा सती वासुदेवस्य च सखी पार्थिवानां सभाम इयाम ॥ 10 ॥

  11. ताम इमां धर्मराजस्य भार्यां सदृशवर्णजाम बरूत दासीम अदासीं वा तत करिष्यामि कौरवाः ॥ 11 ॥

  12. अयं हि मां दृढं कषुद्रः कौरवाणां यशॊहरः कलिश्नाति नाहं तत सॊढुं चिरं शक्ष्यामि कौरवाः ॥ 12 ॥

  13. जितां वाप्य अजितां वापि मन्यध्वं वा यथा नृपाः तथा परत्युक्तम इच्छामि तत करिष्यामि कौरवाः ॥ 13 ॥

  14. [भस] उक्तवान अस्मि कल्याणि धर्मस्य तु परां गतिम लॊके न शक्यते गन्तुम अपि विप्रैर महात्मभिः ॥ 14 ॥

  15. बलवांस तु यथा धर्मं लॊके पश्यति पूरुषः स धर्मॊ धर्मवेलायां भवत्य अभिहितः परैः ॥ 15 ॥

  16. न विवेक्तुं च ते परश्नम एतं शक्नॊमि निश्चयात सूक्ष्मत्वाद गहनत्वाच च कार्यस्यास्य च गौरवात ॥ 16 ॥

  17. नूनम अन्तः कुलस्यास्य भविता नचिराद इव तथा हि कुरवः सर्वे लॊभमॊहपरायणाः ॥ 17 ॥

  18. कुलेषु जाताः कल्याणि वयसनाभ्याहता भृशम धर्म्यान मार्गान न चयवन्ते यथा नस तवं वधूः सथिता ॥ 18 ॥

  19. उपपन्नं च पाञ्चालि तवेदं वृत्तम ईदृशम यत कृच्छ्रम अपि संप्राप्ता धर्मम एवान्ववेक्षसे ॥ 19 ॥

  20. एते दरॊणादयश चैव वृद्धा धर्मविदॊ जनाः शून्यैः शरीरैस तिष्ठन्ति गतासव इवानताः ॥ 20 ॥

  21. युधिष्ठिरस तु परश्ने ऽसमिन परमाणम इति मे मतिः अजितां वा जितां वापि सवयं वयाहर्तुम अर्हति ॥ 21 ॥

  22. [व] तथा तु दृष्ट्वा बहु तत तद एवं; रॊरूयमाणां कुररीम इवार्ताम नॊचुर वचः साध्व अथ वाप्य असाधु; महीक्षितॊ धार्तराष्ट्रस्य भीताः ॥ 22 ॥

  23. दृष्ट्वा तु तान पार्थिव पुत्रपौत्रांस; तूष्णींभूतान धृतराष्ट्रस्य पुत्रः समयन्न इवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम ॥ 23 ॥

  24. तिष्ठत्व अयं परश्न उदारसत्त्वे; भीमे ऽरजुने सहदेवे तथैव पत्यौ च ते नकुले याज्ञसेनि; वदन्त्व एते वचनं तवत परसूतम ॥ 24 ॥

  25. अनीश्वरं विब्रुवन्त्व आर्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतॊः कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि तवं मॊक्ष्यसे दासभावात ॥ 25 ॥

  26. धर्मे सथितॊ धर्मराजॊ महात्मा; सवयं चेदं कथयत्व इन्द्रकल्पः ईशॊ वा ते यद्य अनीशॊ ऽथ वैष; वाक्याद अस्य कषिप्रम एकं भजस्व ॥ 26 ॥

  27. सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास तवैव न विब्रुवन्त्य आर्य सत्त्वा यथावत; पतींश च ते समवेक्ष्याल्प भाग्यान ॥ 27 ॥

  28. [व] ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे परशशंसुस तदॊच्चैः चेलावेधांश चापि चक्रुर नदन्तॊ; हाहेत्य आसीद अपि चैवात्र नादः सर्वे चासन पार्थिवाः परीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः ॥ 28 ॥

  29. युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः किं नु वक्ष्यति धर्मज्ञ इति साची कृताननाः ॥ 29 ॥

  30. किं नु वक्ष्यति बीभत्सुर अजितॊ युधि पाण्डवः भीमसेनॊ यमौ चेति भृशं कौतूहलान्विताः ॥ 30 ॥

  31. तस्मिन्न उपरते शब्दे भीमसेनॊ ऽबरवीद इदम परगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम ॥ 31 ॥

  32. यद्य एष गुरुर अस्माकं धर्मराजॊ युधिष्ठिरः न परभुः सयात कुलस्यास्य न वयं मर्षयेमहि ॥ 32 ॥

  33. ईशॊ नः पुण्यतपसां पराणानाम अपि चेश्वरः मन्यते जितम आत्मानं यद्य एष विजिता वयम ॥ 33 ॥

  34. न हि मुच्येत जीवन मे पदा भूमिम उपस्पृशन मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजान इमान ॥ 34 ॥

  35. पश्यध्वम आयतौ वृत्तौ भुजौ मे परिघाव इव नैतयॊर अन्तरं पराप्य मुच्येतापि शतक्रतुः ॥ 35 ॥

  36. धर्मपाशसितस तव एवं नाधिगच्छामि संकटम गौरवेण निरुद्धश च निग्रहाद अर्जुनस्य च ॥ 36 ॥

  37. धर्मराज निसृष्टस तु सिंहः कषुद्रमृगान इव धार्तराष्ट्रान इमान पापान निष्पिषेयं तलासिभिः ॥ 37 ॥

  38. तम उवाच तदा भीष्मॊ दरॊणॊ विदुर एव च कषम्यताम एवम इत्य एवं सर्वं संभवति तवयि ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 63

Previous: अध्याय 61