[भम] भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर न ताभिर उत दीव्यन्ति दया चैवास्ति तास्व अपि ॥ 1 ॥
काश्यॊ यद बलिम आहार्षीद दरव्यं यच चान्यद उत्तमम तथान्ये पृथिवीपाला यानि रत्नान्य उपाहरन ॥ 2 ॥
वाहनानि धनं चैव कवचान्य आयुधानि च राज्यम आत्मा वयं चैव कैतवेन हृतं परैः ॥ 3 ॥
न च मे तत्र कॊपॊ ऽभूत सर्वस्येशॊ हि नॊ भवान इदं तव अतिकृतं मन्ये दरौपदी यत्र पण्यते ॥ 4 ॥
एषा हय अनर्हती बाला पाण्डवान पराप्य कौरवैः तवत्कृते कलिश्यते कषुद्रैर नृशंसैर निकृतिप्रियैः ॥ 5 ॥
अस्याः कृते मन्युर अयं तवयि राजन निपात्यते बाहू ते संप्रधक्ष्यामि सहदेवाग्निम आनय ॥ 6 ॥
[अर] न पुरा भीमसेन तवम ईदृशीर वदिता गिरः परैस ते नाशितं नूनं नृशंसैर धर्मगौरवम ॥ 7 ॥
न सकामाः परे कार्या धर्मम एवाचरॊत्तमम भरातरं धार्मिकं जयेष्ठं नातिक्रमितुम अर्हति ॥ 8 ॥
आहूतॊ हि परै राजा कषात्र धर्मम अनुस्मरन दीव्यते परकामेन तन नः कीर्तिकरं महत ॥ 9 ॥
[भम] एवम अस्मि कृतं विद्यां यद्य अस्याहं धनंजय दीप्ते ऽगनौ सहितौ बाहू निर्दयेयं बलाद इव ॥ 10 ॥
[व] तथा तान दुःखितान दृष्ट्वा पाण्डवान धृतराष्ट्रजः कलिश्यमानां च पाञ्चालीं विकर्ण इदम अब्रवीत ॥ 11 ॥
याज्ञसेन्या यद उक्तं तद वाक्यं विब्रूत पार्थिवाः अविवेकेन वाक्यस्य नरकः सद्य एव नः ॥ 12 ॥
भीष्मश च धृतराष्ट्रश च कुरुवृद्ध तमाव उभौ समेत्य नाहतुः किं चिद विदुरश च महामतिः ॥ 13 ॥
भरद्वाजॊ ऽपि सर्वेषाम आचार्यः कृप एव च अत एताव अपि परश्नं नाहतुर दविजसत्तमौ ॥ 14 ॥
ये तव अन्ये पृथिवीपालाः समेताः सर्वतॊदिशः कामक्रॊधौ समुत्सृज्य ते बरुवन्तु यथामति ॥ 15 ॥
यद इदं दरौपदी वाक्यम उक्तवत्य असकृच छुभा विमृश्य कस्य कः पक्षः पार्थिवा वदतॊत्तरम ॥ 16 ॥
एवं स बहुशः सर्वान उक्तवांस तान सभा सदः न च ते पृथिवीपालास तम ऊचुः साध्व असाधु वा ॥ 17 ॥
उक्त्वा तथासकृत सर्वान विकर्णः पृथिवीपतीन पाणिं पाणौ विनिष्पिष्य निःश्वसन्न इदम अब्रवीत ॥ 18 ॥
विब्रूत पृथिवीपाला वाक्यं मा वा कथं चन मन्ये नयाय्यं यद अत्राहं तद धि वक्ष्यामि कौरवाः ॥ 19 ॥
चत्वार्य आहुर नरश्रेष्ठा वयसनानि महीक्षिताम मृगयां पानम अक्षांश च गराम्ये चैवातिसक्तताम ॥ 20 ॥
एतेषु हि नरः सक्तॊ धर्मम उत्सृज्य वर्तते तथायुक्तेन च कृतां करियां लॊकॊ न मन्यते ॥ 21 ॥
तद अयं पाण्डुपुत्रेण वयसने वर्तता भृशम समाहूतेन कितवैर आस्थितॊ दरौपदी पणः ॥ 22 ॥
साधारणी च सर्वेषां पाण्डवानाम अनिन्दिता जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ॥ 23 ॥
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना एतत सर्वं विचार्याहं मन्ये न विजिताम इमाम ॥ 24 ॥
एतच छरुत्वा महान नादः सभ्यानाम उदतिष्ठत विकर्णं शंसमानानां सौबलं च विनिन्दताम ॥ 25 ॥
तस्मिन्न उपरते शब्दे राधेयः करॊधमूर्छितः परगृह्य रुचिरं बाहुम इदं वचनम अब्रवीत ॥ 26 ॥
दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्य अपि तज्जस तस्य विनाशाय यथाग्निर अरणि परजः ॥ 27 ॥
एते न किं चिद अप्य आहुश चॊद्यमानापि कृष्णया धर्मेण विजितां मन्ये मन्यन्ते दरुपदात्मजाम ॥ 28 ॥
तवं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे यद बरवीषि सभामध्ये बालः सथविर भाषितम ॥ 29 ॥
न च धर्मं यथातत्त्वं वेत्सि दुर्यॊधनावर यद बरवीषि जितां कृष्णाम अजितेति सुमन्दधीः ॥ 30 ॥
कथं हय अविजितां कृष्णां मन्यसे धृतराष्ट्रज यदा सभायां सर्वस्वं नयस्तवान पाण्डवाग्रजः ॥ 31 ॥
अभ्यन्तरा च सर्वस्वे दरौपदी भरतर्षभ एवं धर्मजितां कृष्णां मन्यसे न जितां कथम ॥ 32 ॥
कीर्तिता दरौपदी वाचा अनुज्ञाता च पाण्डवैः भवत्य अविजिता केन हेतुनैषा मता तव ॥ 33 ॥
मन्यसे वा सभाम एताम आनीताम एकवाससम अधर्मेणेति तत्रापि शृणु मे वाक्यम उत्तरम ॥ 34 ॥
एकॊ भर्ता सत्रिया देवैर विहितः कुरुनन्दन इयं तव अनेकवशगा बन्धकीति विनिश्चिता ॥ 35 ॥
अस्याः सभाम आनयनं न चित्रम इति मे मतिः एकाम्बर धरत्वं वाप्य अथ वापि विवस्त्रता ॥ 36 ॥
यच चैषां दरविणं किं चिद या चैषा ये च पाण्डवाः सौबलेनेह तत सर्वं धर्मेण विजितं वसु ॥ 37 ॥
दुःशासन सुबालॊ ऽयं विकर्णः पराज्ञवादिकः पाण्डवानां च वासांसि दरौपद्याश चाप्य उपाहर ॥ 38 ॥
तच छरुत्वा पाण्डवाः सर्वे सवानि वासांसि भारत अवकीर्यॊत्तरीयाणि सभायां समुपाविशत ॥ 39 ॥
ततॊ दुःशासनॊ राजन दरौपद्या वसनं बलात सभामध्ये समाक्षिप्य वयपक्रष्टुं परचक्रमे ॥ 40 ॥
आकृष्यमाणे वसने दरौपद्यास तु विशां पते तद रूपम अपरं वस्त्रं परादुरासीद अनेकशः ॥ 41 ॥
ततॊ हलहलाशब्दस तत्रासीद घॊरनिस्वनः तद अद्भुततमं लॊके वीक्ष्य सर्वमहीक्षिताम ॥ 42 ॥
शशाप तत्र भीमस तु राजमध्ये महास्वनः करॊधाद विस्फुरमाणौष्ठॊ विनिष्पिष्य करे करम ॥ 43 ॥
इदं मे वाक्यम आदद्ध्वं कषत्रिया लॊकवासिनः नॊक्तपूर्वं नरैर अन्यैर न चान्यॊ यद वदिष्यति ॥ 44 ॥
यद्य एतद एवम उक्त्वा तु न कुर्यां पृथिवीश्वराः पितामहानां सर्वेषां नाहं गतिम अवाप्नुयाम ॥ 45 ॥
अस्य पापस्य दुर्जातेर भारतापसदस्य च न पिबेयं बलाद वक्षॊ भित्त्वा चेद रुधिरं युधि ॥ 46 ॥
तस्य ते वचनं शरुत्वा सर्वलॊकप्रहर्षणम परचक्रुर बहुलां पूजां कुत्सन्तॊ धृतराष्ट्रजम ॥ 47 ॥
यदा तु वाससां राशिः सभामध्ये समाचितः ततॊ दुःशासनः शरान्तॊ वरीडितः समुपाविशत ॥ 48 ॥
धिक शब्दस तु ततस तत्र समभूल लॊमहर्षणः सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस तदा ॥ 49 ॥
न विब्रुवन्ति कौरव्याः परश्नम एतम इति सम ह सजनः करॊशति समात्र धृतराष्ट्रं विगर्हयन ॥ 50 ॥
ततॊ बाहू समुच्छ्रित्य निवार्य च सभा सदः विदुरः सर्वधर्मज्ञ इदं वचनम अब्रवीत ॥ 51 ॥
[वि] दरौपदी परश्नम उक्त्वैवं रॊरवीति हय अनाथवत न च विब्रूत तं परश्नं सभ्या धर्मॊ ऽतर पीड्यते ॥ 52 ॥
सभां परपद्यते हय आर्तः परज्वलन्न इव हव्यवाट तं वै सत्येन धर्मेण सभ्याः परशमयन्त्य उत ॥ 53 ॥
धर्मप्रश्नम अथॊ बरूयाद आर्तः सभ्येषु मानवः विब्रूयुस तत्र ते परश्नं कामक्रॊधवशातिगाः ॥ 54 ॥
विकर्णेन यथा परज्ञम उक्तः परश्नॊ नराधिपाः भवन्तॊ ऽपि हि तं परश्नं विब्रुवन्तु यथामति ॥ 55 ॥
यॊ हि परश्नं न विब्रूयाद धर्मदर्षी सभां गतः अनृते या फलावाप्तिस तस्याः सॊ ऽरधं समश्नुते ॥ 56 ॥
यः पुनर वितथं बरूयाद धर्मदर्शी सभां गतः अनृतस्य फलं कृत्स्नं संप्राप्नॊतीति निश्चयः ॥ 57 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम परह्लादस्य च संवादं मुनेर आङ्गिरसस्य च ॥ 58 ॥
परह्लादॊ नाम दैत्येन्द्रस तस्य पुत्रॊ विरॊचनः कन्या हेतॊर आङ्गिरसं सुधन्वानम उपाद्रवत ॥ 59 ॥
अहं जयायान अहं जयायान इति कन्येप्सया तदा तयॊर देवनम अत्रासीत पराणयॊर इति नः शरुतम ॥ 60 ॥
तयॊः परश्न विवादॊ ऽभूत परह्लादं ताव अपृच्छताम जयायान क आवयॊर एकः परश्नं परब्रूहि मा मृषा ॥ 61 ॥
स वै विवदनाद भीतः सुधन्वानं वयलॊकयत तं सुधन्वाब्रवीत करुद्धॊ बरह्मदण्ड इव जवलन ॥ 62 ॥
यदि वै वक्ष्यसि मृषा परह्लादाथ न वक्ष्यसि शतधा ते शिरॊ वज्री वज्रेण परहरिष्यति ॥ 63 ॥
सुधन्वना तथॊक्तः सन वयथितॊ ऽशवत्थ पर्णवत जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम ॥ 64 ॥
[परह] तवं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च बराह्मणस्य महाप्राज्ञ धर्मकृच्छ्रम इदं शृणु ॥ 65 ॥
यॊ वै परश्नं न विब्रूयाद वितथं वापि निर्दिशेत के वै तस्य परे लॊकास तन ममाचक्ष्व पृच्छतः ॥ 66 ॥
[कष] जानन न विब्रुवन परश्नं कामात करॊधात तथा भयात सहस्रं वारुणान पाशान आत्मनि परतिमुञ्चति ॥ 67 ॥
तस्य संवत्सरे पूर्णे पाश एकः परमुच्यते तस्मात सत्यं तु वक्तव्यं जानता सत्यम अञ्जसा ॥ 68 ॥
विद्धॊ धर्मॊ हय अधर्मेण सभां यत्र परपद्यते न चास्य शल्यं कृन्तन्ति विद्धास तत्र सभा सदः ॥ 69 ॥
अर्धं हरति वै शरेष्ठः पादॊ भवति कर्तृषु पादश चैव सभासत्सु ये न निन्दन्ति निन्दितम ॥ 70 ॥
अनेनॊ भवति शरेष्ठॊ मुच्यन्ते च सभा सदः एनॊ गच्छति कर्तारं निन्दार्हॊ यत्र निन्द्यते ॥ 71 ॥
वितथं तु वदेयुर ये धर्मं परह्लाद पृच्छते इष्टापूर्तं च ते घनन्ति सप्त चैव परावरान ॥ 72 ॥
हृतस्वस्य हि यद दुःखं हतपुत्रस्य चापि यत ऋणिनं परति यच चैव राज्ञा गरस्तस्य चापि यत ॥ 73 ॥
सत्रियाः पत्या विहीनायाः सार्थाद भरष्टस्य चैव यत अध्यूढायाश च यद दुःखं साक्षिभिर विहतस्य च ॥ 74 ॥
एतानि वै समान्य आहुर दुःखानि तरिदशेश्वराः तानि सर्वाणि दुःखानि पराप्नॊति वितथं बरुवन ॥ 75 ॥
समक्ष दर्शनात साक्ष्यं शरवणाच चेति धारणात तस्मात सत्यं बरुवन साक्षी धर्मार्थाभ्यां न हीयते ॥ 76 ॥
[वि] कश्यपस्य वचॊ शरुत्वा परह्लादः पुत्रम अब्रवीत शरेयान सुधन्वा तवत्तॊ वै मत्तः शरेयांस तथाङ्गिराः ॥ 77 ॥
माता सुधन्वनश चापि शरेयसी मातृतस तव विरॊचन सुधन्वायं पराणानाम ईश्वरस तव ॥ 78 ॥
[सुधन्वन] पुत्रस्नेहं परित्यज्य यस तवं धर्मे परतिष्ठितः अनुजानामि ते पुत्रं जीवत्व एष शतं समाः ॥ 79 ॥
[वि] एवं वै परमं धर्मं शरुत्वा सर्वे सभा सदः यथा परश्नं तु कृष्णाया मन्यध्वं तत्र किं परम ॥ 80 ॥
[व] विदुरस्य वचॊ शरुत्वा नॊचुः किं चन पार्थिवाः कर्णॊ दुःशासनं तव आह कृष्णां दासीं गृहान नय ॥ 81 ॥
तां वेपमानां सव्रीडां परलपन्तीं सम पाण्डवान दुःशासनः सभामध्ये विचकर्ष तपस्विनीम ॥ 82 ॥
सभापर्व · Sabha Parva
अध्याय 61
Reach this point to mark the section finished.
Continue to अध्याय 62