[कर्ण] तरयः किलेमे अधना भवन्ति; दासः शिष्यश चास्वतन्त्रा च नारी दासस्य पत्नी तवं धनम अस्य भद्रे; हीनेश्वरा दासधनं च दासी ॥ 1 ॥
परविश्य सा नः परिचारैर भजस्व; तत ते कार्यं शिष्टम आवेश्य वेश्म ईशाः सम सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः ॥ 2 ॥
अन्यं वृणीष्व पतिम आशु भामिनि; यस्माद दास्यं न लभसे देवनेन अनवद्या वै पतिषु कामवृत्तिर; नित्यं दास्ये विदितं वै तवास्तु ॥ 3 ॥
पराजितॊ नकुलॊ भीमसेनॊ; युधिष्ठिरः सहदेवॊ ऽरजुनश च दासी भूता परविश याज्ञसेनि; पराजितास ते पतयॊ न सन्ति ॥ 4 ॥
परयॊजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः पाञ्चाल्यस्य दरुपदस्यात्मजाम इमां; सभामध्ये यॊ ऽतिदेवीद गलहेषु ॥ 5 ॥
[व] तद वै शरुत्वा भीमसेनॊ ऽतय अमर्षी; भृशं निशश्वास तदार्तरूपः राजानुगॊ धर्मपाशानुबद्धॊ; दहन्न इवैनं कॊपविरक्त दृष्टिः ॥ 6 ॥
[भम] नाहं कुप्ये सूतपुत्रस्य राजन्न; एष सत्यं दासधर्मः परविष्टः किं विद्विषॊ वाद्य मां धारयेयुर; नादेवीस तवं यद्य अनया नरेन्द्र ॥ 7 ॥
[वै] राधेयस्य वचॊ शरुत्वा राजा दुर्यॊधनस तदा युधिष्ठिरम उवाचेदं तूष्णींभूतम अचेतसम ॥ 8 ॥
भीमार्जुनौ यमौ चैव सथितौ ते नृपशासने परश्नं परब्रूहि कृष्णां तवम अजितां यदि मन्यसे ॥ 9 ॥
एवम उक्त्वा स कौन्तेयम अपॊह्य वसनं सवकम समयन्न इवैक्षत पाञ्चालीम ऐश्वर्यमदमॊहितः ॥ 10 ॥
कदली दण्डसदृशं सर्वलक्षणपूजितम गजहस्तप्रतीकाशं वज्रप्रतिम गौरवम ॥ 11 ॥
अभ्युत्स्मयित्वा राधेयं भीमम आधर्षयन्न इव दरौपद्याः परेक्षमाणायाः सव्यम ऊरुम अदर्शयत ॥ 12 ॥
वृकॊदरस तद आलॊक्य नेत्रे उत्फाल्य लॊहिते परॊवाच राजमध्ये तं सभां विश्रावयन्न इव ॥ 13 ॥
पितृभिः सह सालॊक्यं मा सम गच्छेद वृकॊदरः यद्य एतम ऊरुं गदया न भिन्द्यां ते महाहवे ॥ 14 ॥
करुद्धस्य तस्य सरॊतॊभ्यः सर्वेभ्यः पावकार्चिषः वृक्षस्येव विनिश्चेरुः कॊटरेभ्यः परदह्यतः ॥ 15 ॥
[वि] परं भयं पश्यत भीमसेनाद; बुध्यध्वं राज्ञॊ वरुणस्येव पाशात दैवेरितॊ नूनम अयं पुरस्तात; परॊ ऽनयॊ भरतेषूदपादि ॥ 16 ॥
अति दयूतं कृतम इदं धार्तराष्ट्रा; ये ऽसयां सत्रियं विवदध्वं सभायाम यॊगक्षेमॊ दृश्यते वॊ महाभयः; पापान मन्त्रान कुरवॊ मन्त्रयन्ति ॥ 17 ॥
इमं धर्मं कुरवॊ जानताशु; दुर्दृष्टे ऽसमिन परिषत संप्रदुष्येत इमां चेत पूर्वं कितवॊ ऽगलहीष्यद; ईशॊ ऽभविष्यद अपराजितात्मा ॥ 18 ॥
सवप्ने यथैतद धि धनं जितं सयात; तद एवं मन्ये यस्य दीव्यत्य अनीशः गान्धारि पुत्रस्य वचॊ निशम्य; धर्माद अस्मात कुरवॊ मापयात ॥ 19 ॥
[दुर] भीमस्य वाक्ये तद्वद एवार्जुनस्य; सथितॊ ऽहं वै यमयॊश चैवम एव युधिष्ठिरं चेत परवदन्त्य अनीशम; अथॊ दास्यान मॊक्ष्यसे याज्ञसेनि ॥ 20 ॥
[अर] ईशॊ राजा पूर्वम आसीद गलहे; नः कुन्तीपुत्रॊ धर्मराजॊ महात्मा ईशस तव अयं कस्य पराजितात्मा; तज जानीध्वं कुरवः सर्व एव ॥ 21 ॥
[व] ततॊ राज्ञॊ धृतराष्ट्रस्य गेहे; गॊमायुर उच्चैर वयाहरद अग्निहॊत्रे तं रासभाः परत्यभाषन्त राजन; समन्ततः पक्षिणश चैव रौद्राः ॥ 22 ॥
तं च शब्दं विदुरस तत्त्ववेदी; शुश्राव घॊरं सुबलात्मजा च भीष्मद्रॊणौ गौतमश चापि विद्वान; सवस्ति सवस्तीत्य अपि चैवाहुर उच्चैः ॥ 23 ॥
ततॊ गान्धारी विदुरश चैव विद्वांस; तम उत्पातं घॊरम आलक्ष्य राज्ञे निवेदयाम आसतुर आर्तवत तदा; ततॊ राजा वाक्यम इदं बभाषे ॥ 24 ॥
हतॊ ऽसि दुर्यॊधन मन्दबुद्धे; यस तवं सभायां कुरुपुंगवानाम सत्रियं समाभाषसि दुर्विनीत; विशेषतॊ दरौपदीं धर्मपत्नीम ॥ 25 ॥
एवम उक्त्वा धृतराष्ट्रॊ मनीषी; हितान्वेषी बान्धवानाम अपायात कृष्णां पाञ्चालीम अब्रवीत सान्त्वपूर्वं; विमृश्यैतत परज्ञया तत्त्वबुद्धिः ॥ 26 ॥
[ध] वरं वृणीष्व पाञ्चालि मत्तॊ यद अभिकाङ्क्षसि वधूनां हि विशिष्टा मे तवं धर्मपरमा सती ॥ 27 ॥
[दर] ददासि चेद वरं मह्यं वृणॊमि भरतर्षभ सर्वधर्मानुगः शरीमान अदासॊ ऽसतु युधिष्ठिरः ॥ 28 ॥
मनस्विनम अजानन्तॊ मा वै बरूयुः कुमारकाः एष वै दासपुत्रेति परतिविन्ध्यं तम आगतम ॥ 29 ॥
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान कव चित लालितॊ दासपुत्रत्वं पश्यन नश्येद धि भारत ॥ 30 ॥
[ध] दवितीयं ते वरं भद्रे ददामि वरयस्व माम मनॊ हि मे वितरति नैकं तवं वरम अर्हसि ॥ 31 ॥
[दर] सरथौ सधनुष्कौ च भीमसेनधनंजयौ नकुलं सहदेवं च दवितीयं वरये वयम ॥ 32 ॥
[ध] तृतीयं वरयास्मत्तॊ नासि दवाभ्यां सुसत कृता तवं हि सर्वस्नुषाणां मे शरेयसी धर्मचारिणी ॥ 33 ॥
[दर] लॊभॊ धर्मस्य नाशाय भगवन नाहम उत्सहे अनर्हा वरम आदातुं तृतीयं राजसत्तम ॥ 34 ॥
एकम आहुर वैश्य वरं दवौ तु कषत्रस्त्रिया वरौ तरयस तु राज्ञॊ राजेन्द्र बराह्मणस्य शतं वराः ॥ 35 ॥
पापीयांस इमे भूत्वा संतीर्णाः पतयॊ मम वेत्स्यन्ति चैव भद्राणि राजन पुण्येन कर्मणा ॥ 36 ॥
सभापर्व · Sabha Parva
अध्याय 63
Reach this point to mark the section finished.
Continue to अध्याय 64