धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 59

  1. [दूृ] एहि कषत्तर दरौपदीम आनयस्व; परियां भार्यां संमतां पाण्डवानाम संमार्जतां वेश्म परैतु शीघ्रम; आनन्दॊ नः सह दासीभिर अस्तु ॥ 1 ॥

  2. [व] दुर्विभाव्यं भवति तवादृशेन; न मन्दसंबुध्यसि पाशबद्धः परपाते तवं लम्बमानॊ न वेत्सि; वयाघ्रान मृगः कॊपयसे ऽतिबाल्यात ॥ 2 ॥

  3. आशीविषाः शिरसि ते पूर्णकॊशा महाविषाः मा कॊपिष्ठाः सुमन्दात्मन मा गमस तवं यमक्षयम ॥ 3 ॥

  4. न हि दासीत्वम आपन्ना कृष्णा भवति भारत अनीशेन हि राज्ञैषा पणे नयस्तेति मे मतिः ॥ 4 ॥

  5. अयं धत्ते वेणुर इवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः दयूतं हि वैराय महाभयाय; पक्वॊ न बुध्यत्य अयम अन्तकाले ॥ 5 ॥

  6. नारुं तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्याम ॥ 6 ॥

  7. समुच्चरन्त्य अतिवादा हि वक्त्राद; यैर आहतः शॊचति रात्र्यहानि परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषाम ॥ 7 ॥

  8. अजॊ हि शस्त्रम अखनत किलैकः; शस्त्रे विपन्ने पद्भिर अपास्य भूमिम निकृन्तनं सवस्य कण्ठस्य घॊरं; तद्वद वैरं मा खनीः पाण्डुपुत्रैः ॥ 8 ॥

  9. न किं चिद ईड्यं परवदन्ति पापं; वनेचरं वा गृहमेधिनं वा तपस्विनं संपरिपूर्ण विद्यं; भषन्ति हैवं शवनराः सदैव ॥ 9 ॥

  10. दवारं सुघॊरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र तवाम अन्वेतारॊ बहवः कुरूणां; दयूतॊदये सह दुःशासनेन ॥ 10 ॥

  11. मज्जन्त्य अलाबूनि शिलाः पलवन्ते; मुह्यन्ति नावॊ ऽमभसि शश्वद एव मूढॊ राजा धृतराष्ट्रस्य पुत्रॊ; न मे वाचः पथ्यरूपाः शृणॊति ॥ 11 ॥

  12. अन्तॊ नूनं भवितायं कुरूणां; सुदारुणः सर्वहरॊ विनाशः वाचः काव्याः सुहृदां पथ्यरूपा; न शरूयन्ते वर्धते लॊभ एव ॥ 12 ॥

Reach this point to mark the section finished.

Continue to अध्याय 60

Previous: अध्याय 58