[ष] बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर आचक्ष्व वित्तं कौन्तेय यदि ते ऽसत्य अपराजितम ॥ 1 ॥
[य] मम वित्तम असंख्येयं यद अहं वेद सौबल अथ तवं शकुने कस्माद वित्तं समनुपृच्छसि ॥ 2 ॥
अयुतं परयुतं चैव खर्वं पद्मं तथार्बुदम शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम एतन मम धनं राजंस तेन दीव्याम्य अहं तवया ॥ 3 ॥
[व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 4 ॥
[य] गवाश्वं बहुधेनूकम असंख्येयम अजाविकम यत किं चिद अनुवर्णानां पराक सिन्धॊर अपि सौबल एतन मम धनं राजंस तेन दीव्याम्य अहं तवया ॥ 5 ॥
[व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 6 ॥
[य] पुरं जनपदॊ भूमिर अब्राह्मण धनैः सह अब्राह्मणाश च पुरुषा राजञ शिष्टं धनं मम एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया ॥ 7 ॥
[व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 8 ॥
[य] राजपुत्रा इमे राजञ शॊभन्ते येन भूषिताः कुण्डलानि च निष्काश च सर्वं चाङ्गविभूषणम एतं मम धनं राजंस तेन दीव्याम्य अहं तवया ॥ 9 ॥
[व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 10 ॥
[य] शयामॊ युवा लॊहिताक्षः सिंहस्कन्धॊ महाभुजः नकुलॊ गलह एकॊ मे यच चैतत सवगतं धनम ॥ 11 ॥
[ष] परियस ते नकुलॊ राजन राजपुत्रॊ युधिष्ठिर अस्माकं धनतां पराप्तॊ भूयस तवं केन दीव्यसि ॥ 12 ॥
[व] एवम उक्त्वा तु शकुनिस तान अक्षान परत्यपद्यत जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 13 ॥
[य] अयं धर्मान सहदेवॊ ऽनुशास्ति; लॊके हय अस्मिन पण्डिताख्यां गतश च अनर्हता राजपुत्रेण तेन; तवया दीव्याम्य अप्रियवत परियेण ॥ 14 ॥
[व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 15 ॥
[ष] माद्रीपुत्रौ परियौ राजंस तवेमौ विजितौ मया गरीयांसौ तु ते मन्ये भीमसेनधनंजयौ ॥ 16 ॥
[य] अधर्मं चरसे नूनं यॊ नावेक्षसि वै नयम यॊ नः सुमनसां मूढ विभेदं कर्तुम इच्छसि ॥ 17 ॥
[ष] गर्ते मत्तः परपतति परमत्तः सथाणुम ऋच्छति जयेष्ठॊ राजन वरिष्ठॊ ऽसि नमस ते भरतर्षभ ॥ 18 ॥
सवप्ने न तानि पश्यन्ति जाग्रतॊ वा युधिष्ठिर कितवा यानि दीव्यन्तः परलपन्त्य उत्कटा इव ॥ 19 ॥
[य] यॊ नः संख्ये नौर इव पारनेता; जेता रिपूणां राजपुत्रस तरस्वी अनर्हता लॊकवीरेण तेन; दीव्याम्य अहं शकुने फल्गुनेन ॥ 20 ॥
[व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 21 ॥
[ष] अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची भीमेन राजन दयितेन दीव्य; यत कैवव्यं पाण्डव ते ऽवशिष्टम ॥ 22 ॥
[य] यॊ नॊ नेता यॊ युधां नः परणेता; यथा वज्री दानव शत्रुर एकः तिर्यक परेक्षी संहतभ्रूर महात्मा; सिंहस्कन्धॊ यश च सदात्यमर्षी ॥ 23 ॥
बलेन तुल्यॊ यस्य पुमान न विद्यते; गदा भृताम अग्र्य इहारि मर्दनः अनर्हता राजपुत्रेण तेन; दीव्याम्य अहं भीमसेनेन राजन ॥ 24 ॥
[व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 25 ॥
[ष] बहु वित्तं पराजैषीर भरातॄंश च सहयद्विपान आचक्ष्व वित्तं कौन्तेय यदि ते ऽसत्य अपराजितम ॥ 26 ॥
[य] अहं विशिष्टः सर्वेषां भरातॄणां दयितस तथा कुर्यामस ते जिताः कर्म सवयम आत्मन्य उपप्लवे ॥ 27 ॥
[व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 28 ॥
[ष] एतत पापिष्ठम अकरॊर यद आत्मानं पराजितः शिष्टे सति धने राजन पाप आत्मपराजयः ॥ 29 ॥
[व] एवम उक्त्वा मताक्षस तान गलहे सर्वान अवस्थितान पराजयल लॊकवीरान आक्षेपेण पृथक पृथक ॥ 30 ॥
[ष] अस्ति वै ते परिया देवी गलह एकॊ ऽपराजितः पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर जय ॥ 31 ॥
[य] नैव हरस्वा न महती नातिकृष्णा न रॊहिणी सराग रक्तनेत्रा च तया दीव्याम्य अहं तवया ॥ 32 ॥
शारदॊत्पल पत्राक्ष्या शारदॊत्पल गन्धया शारदॊत्पल सेविन्या रूपेण शरीसमानया ॥ 33 ॥
तथैव सयाद आनृशंस्यात तथा सयाद रूपसंपदा तथा सयाच छील संपत्त्या याम इच्छेत पुरुषः सत्रियम ॥ 34 ॥
चरमं संविशति या परथमं परतिबुध्यते आ गॊपालावि पालेभ्यः सर्वं वेद कृताकृतम ॥ 35 ॥
आभाति पद्मवद वक्त्रं सस्वेदं मल्लिकेव च वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरॊमशा ॥ 36 ॥
तयैवं विधया राजन पाञ्चाल्याहं सुमध्यया गलहं दीव्यामि चार्व अङ्ग्या दरौपद्या हन्त सौबल ॥ 37 ॥
[व] एवम उक्ते तु वचने धर्मराजेन भारत धिग धिग इत्य एव वृद्धानां सभ्यानां निःसृता गिरः ॥ 38 ॥
चुक्षुभे सा सभा राजन राज्ञां संजज्ञिरे कथाः भीष्मद्रॊणकृपादीनां सवेदश च समजायत ॥ 39 ॥
शिरॊ गृहीत्वा विदुरॊ गतसत्त्व इवाभवत आस्ते धयायन्न अधॊ वक्त्रॊ निःश्वसन पन्नगॊ यथा ॥ 40 ॥
धृतराष्ट्रस तु संहृष्टः पर्यपृच्छत पुनः पुनः किं जितं किं जितम इति हय आकारं नाभ्यलक्षत ॥ 41 ॥
जहर्ष कर्णॊ ऽतिभृशं सह दुःशासनादिभिः इतरेषां तु सभ्यानां नेत्रेभ्यः परापतज जलम ॥ 42 ॥
सौबलस तव अविचार्यैव जितकाशी मदॊत्कटः जितम इत्य एव तान अक्षान पुनर एवान्वपद्यत ॥ 43 ॥
सभापर्व · Sabha Parva
अध्याय 58
Reach this point to mark the section finished.
Continue to अध्याय 59