[विदुर] महाराज विजानीहि यत तवां वक्ष्यामि तच छृणु मुमूर्षॊर औषधम इव न रॊचेतापि ते शरुतम ॥ 1 ॥
यद वै पुरा जातमात्रॊ रुराव; गॊमायुवद विस्वरं पापचेताः दुर्यॊधनॊ भारतानां कुलघ्नः; सॊ ऽयं युक्तॊ भविता कालहेतुः ॥ 2 ॥
गृहे वसन्तं गॊमायुं तवं वै मत्वा न बुध्यसे दुर्यॊधनस्य रूपेण शृणु काव्यां गिरं मम ॥ 3 ॥
मधु वै माध्विकॊ लब्ध्वा परपातं नावबुध्यते आरुह्य तं मज्जति वा पतनं वाधिगच्छति ॥ 4 ॥
सॊ ऽयं मत्तॊ ऽकषदेवेन मधुवन न परीक्षते परपातं बुध्यते नैव वैरं कृत्वा महारथैः ॥ 5 ॥
विदितं ते महाराज राजस्व एवासमञ्जसम अन्धका यादवा भॊजाः समेताः कंसम अत्यजन ॥ 6 ॥
नियॊगाच च हते तस्मिन कृष्णेनामित्र घातिना एवं ते जञातयः सर्वे मॊदमानाः शतं समाः ॥ 7 ॥
तवन नियुक्तः सव्यसाची निगृह्णातु सुयॊधनम निग्रहाद अस्य पापस्य मॊदन्तां कुरवः सुखम ॥ 8 ॥
काकेनेमांश चित्रबर्हाञ शार्दूलान करॊष्टुकेन च करीणीष्व पाण्डवान राजन मा मज्जीः शॊकसागरे ॥ 9 ॥
तयजेत कुलार्थे पुरुषं गरामस्यार्थे कुलं तयजेत गरामं जनपदस्यार्थे आत्मार्थे पृथिवीं तयजेत ॥ 10 ॥
सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयं करः इति सम भाषते काव्यॊ जम्भ तयागे महासुरान ॥ 11 ॥
हिरण्यष्ठीविनः कश चित पक्षिणॊ वनगॊचरान गृहे किल कृतावासाँल लॊभाद राजन्न अपीडयत ॥ 12 ॥
सदॊपभॊज्याँल लॊभान्धॊ हिरण्यार्थे परंतप आयातिं च तदा तवं च उभे सद्यॊ वयनाशयत ॥ 13 ॥
तदात्व कामः पाण्डूंस तवं मा दरुहॊ भरतर्षभ मॊहात्मा तप्यसे पश्चात पक्षिहा पुरुषॊ यथा ॥ 14 ॥
जातं जातं पाण्डवेभ्यः पुष्पम आदत्स्व भारत माला कार इवारामे सनेहं कुर्वन पुनः पुनः ॥ 15 ॥
वृक्षान अङ्गारकारीव मैनान धाक्षीः समूलकान मा गमः ससुतामात्यः सबलश च पराभवम ॥ 16 ॥
समवेतान हि कः पार्थान परतियुध्येत भारत मरुद्भिः सहितॊ राजन्न अपि साक्षान मरुत्पतिः ॥ 17 ॥
सभापर्व · Sabha Parva
अध्याय 55
Reach this point to mark the section finished.
Continue to अध्याय 56