धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 54

  1. [य] मत्तः कैतवकेनैव यज जितॊ ऽसमि दुरॊदरम शकुने हन्त दीव्यामॊ गलहमानाः सहस्रशः ॥ 1 ॥

  2. इमे निष्कसहस्रस्य कुण्डिनॊ भरिताः शतम कॊशॊ हिरण्यम अक्षय्यं जातरूपम अनेकशः एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया ॥ 2 ॥

  3. [व] इत्य उक्तः शकुनिः पराह जितम इत्य एव तं नृपम ॥ 3 ॥

  4. [य] अयं सहस्रसमितॊ वैयाघ्रः सुप्रवर्तितः सुचक्रॊपस्करः शरीमान किङ्किणीजालमण्डितः ॥ 4 ॥

  5. संह्रादनॊ राजरथॊ य इहास्मान उपावहत जैत्रॊ रथवरः पुण्यॊ मेघसागर निःस्वनः ॥ 5 ॥

  6. अष्टौ यं कुररच छायाः सदश्वा राष्ट्रसंमताः वहन्ति नैषाम उच्येत पदा भूमिम उपस्पृशन एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया ॥ 6 ॥

  7. [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 7 ॥

  8. [य] सहस्रसंख्या नागा मे मत्तास तिष्ठन्ति सौबल हेमकक्षाः कृतापीडाः पद्मिनॊ हेममालिनः ॥ 8 ॥

  9. सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि ईषा दन्ता महाकायाः सर्वे चाष्ट करेणवः ॥ 9 ॥

  10. सर्वे च पुरभेत्तारॊ नगमेघनिभा गजाः एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया ॥ 10 ॥

  11. [व] तम एवं वादिनं पार्थं परहसन्न इव सौबलः जितम इत्य एव शकुनिर युधिष्ठिरम अभासत ॥ 11 ॥

  12. [य] शतं दासी सहस्राणि तरुण्यॊ मे परभद्रिकाः कम्बुकेयूर धारिण्यॊ निष्ककन्थ्यः सवलं कृताः ॥ 12 ॥

  13. महार्हमाल्याभरणाः सुवस्त्राश चन्दनॊक्षिताः मणीन हेमच बिभ्रत्यः सर्वा वै सूक्ष्मवाससः ॥ 13 ॥

  14. अनुसेवां चरन्तीमाः कुशला नृत्यसामसु सनातकानाम अमात्यानां राज्ञां च मम शासनात एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया ॥ 14 ॥

  15. [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 15 ॥

  16. [य] एतावन्त्य एव दासानां सहस्राण्य उत सन्ति मे परदक्षिणानुलॊमाश च परावार वसनाः सदा ॥ 16 ॥

  17. पराज्ञा मेधाविनॊ दक्षा युवानॊ मृष्टकुण्डलाः पात्री हस्ता दिवारात्रम अतिथीन भॊजयन्त्य उत एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया ॥ 17 ॥

  18. [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 18 ॥

  19. [य] रथास तावन्त एवेमे हेमभाण्डाः पताकिनः हयैर विनीतैः संपन्ना रथिभिश चित्रयॊधिभिः ॥ 19 ॥

  20. एकैकॊ यत्र लभते सहस्रपरमां भृतिम युध्यतॊ ऽयुध्यतॊ वापि वेतनं मासकालिकम एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया ॥ 20 ॥

  21. [व] इत्य एवम उक्ते पार्थेन कृतवैरॊ दुरात्मवान जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 21 ॥

  22. [य] अश्वांस तित्तिरि कल्माषान गान्धर्वान हेममालिनः ददौ चित्ररथस तुष्टॊ यांस तान गाण्डीवधन्वने एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया ॥ 22 ॥

  23. [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 23 ॥

  24. [य] रथानां शकटानां च हयानां चायुतानि मे युक्तानाम एव तिष्ठन्ति वाहैर उच्चावचैर वृताः ॥ 24 ॥

  25. एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः कषीरं पिबन्तस तिष्ठन्ति भुञ्जानाः शालितण्डुलान ॥ 25 ॥

  26. षष्टिस तानि सहस्राणि सर्वे पृथुल वक्षसः एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया ॥ 26 ॥

  27. [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 27 ॥

  28. [य] ताम्रलॊहैर परिवृता निधयॊ मे चतुर्शताः पञ्च दरौणिक एकैकः सुवर्णस्याहतस्य वै एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया ॥ 28 ॥

  29. [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 55

Previous: अध्याय 53