[ष] यां तवम एतां शरियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे तप्यसे तां हरिष्यामि दयूतेनाहूयतां परः ॥ 1 ॥
अगत्वा संशयम अहम अयुद्ध्वा च चमूमुखे अक्षान कषिपन्न अक्षतः सन विद्वान अविदुषॊ जये ॥ 2 ॥
गलहान धनूंसि मे विद्धि शरान अक्षांश च भारत अक्षाणां हृदयं मे जयां रथं विद्धि ममास्तरम ॥ 3 ॥
[द] अयम उत्सहते राजञ शरियम आहर्तुम अक्षवित दयूतेन पाण्डुपुत्रेभ्यस तत तुभ्यं तात रॊचताम ॥ 4 ॥
[ध] सथितॊ ऽसमि शासने भरातुर विदुरस्य महात्मनः तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम ॥ 5 ॥
[द] विहनिष्यति ते बुद्धिं विदुरॊ मुक्तसंशयः पाण्डवानां हिते युक्तॊ न तथा मम कौरव ॥ 6 ॥
नारभेत परसामर्थ्यात पुरुषः कार्यम आत्मनः मतिसाम्यं दवयॊर नास्ति कार्येषु कुरुनन्दन ॥ 7 ॥
भयं परिहरन मन्द आत्मानं परिपालयन वर्षासु कलिन्नकटवत तिष्ठन्न एवावसीदति ॥ 8 ॥
न वयाधयॊ नापि यमः शरेयः पराप्तिं परतीक्षते यावद एव भवेत कल्पस तावच छरेयॊ समाचरेत ॥ 9 ॥
[ध] सर्वथा पुत्रबलिभिर विग्रहं ते न रॊचये वैरं विकारं सृजति तद वै शस्त्रम अनायसम ॥ 10 ॥
अनर्थम अर्थं मन्यसे राजपुत्र; संग्रन्थनं कलहस्यातिघॊरम तद वै परवृत्तं तु यथा कथं चिद; विमॊक्षयेच चाप्य असि सायकांश च ॥ 11 ॥
[दुर] दयूते पुराणैर वयवहारः परनीतस; तत्रात्ययॊ नास्ति न संप्रहारः तद रॊचतां शकुनेर वाक्यम अद्य सभां; कषिप्रं तवम इहाज्ञापयस्व ॥ 12 ॥
सवर्गद्वारं दीव्यतां नॊ विशिष्टं; तद वर्तिनां चापि तथैव युक्तम भवेद एवं हय आत्मना तुल्यम एव; दुरॊदरं पाण्डवैस तवं कुरुष्व ॥ 13 ॥
[धृ] वाक्यं न मे रॊचते यत तवयॊक्तं; यत ते परियं तत करियतां नरेन्द्र पश्चात तप्यसे तद उपाक्रम्य वाक्यं; न हीदृशं भावि वचॊ हि धर्म्यम ॥ 14 ॥
दृष्टं हय एतद विदुरेनैवम एव; सर्वं पूर्वं बुद्धिविद्यानुगेन तद एवैतद अवशस्याभ्युपैति; महद भयं कषत्रिय बीजघाति ॥ 15 ॥
[व] एवम उक्त्वा धृतरास्थ्रॊ मनीषी; दैवं मत्वा परमं दुस्तरं च शशासॊच्चैः पुरुषान पुत्र वाक्ये; सथितॊ राजा दैवसंमूढचेताः ॥ 16 ॥
सहस्रस्तम्भां हेमवैडूर्य चित्रां; शतद्वारां तॊरणस्फाटि शृङ्गाम सभाम अग्र्यां करॊशमात्रायतां; मे तद विस्ताराम आशु कुर्वन्तु युक्ताः ॥ 17 ॥
शरुत्वा तस्य तवरिता निर्विशङ्काः; पराज्ञा दक्षास तां तथा चक्रुर आशु सर्वद्रव्याण्य उपजह्रुः सभायां; सहस्रशः शिल्पिनश चापि युक्ताः ॥ 18 ॥
कालेनाल्पेनाथ निष्ठां गतां; तां सभां रम्यां बहुरत्नां विचित्राम चित्रैर हेमैर आसनैर अभ्युपेताम; आचख्युस ते तस्य राज्ञः परतीताः ॥ 19 ॥
ततॊ विद्वान विदुरं मन्त्रिमुख्यम; उवाचेदं धृतराष्ट्रॊ नरेन्द्रः युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन कषिप्रम इहानयस्व ॥ 20 ॥
सभेयं मे बहुरत्ना विचित्रा; शय्यासनैर उपपन्ना महार्हैः सा दृश्यतां भरातृभिः सार्धम एत्य; सुहृद दयूतं वर्तताम अत्र चेति ॥ 21 ॥
मतम आज्ञाय पुत्रस्य धृतराष्ट्रॊ नराधिपः मत्वा च दुस्तरं दैवम एतद राजा चकार ह ॥ 22 ॥
अन्यायेन तथॊक्तस तु विदुरॊ विदुषां वरः नाभ्यनन्दद वचॊ भरातुर वचनं चेदम अब्रवीत ॥ 23 ॥
नाभिनन्दामि नृपते परैषम एतं; मैवं कृथाः कुलनाशाद बिभेमि पुत्रैर भिन्नैः कलहस ते धरुवं सयाद; एतच छङ्के दयूतकृते नरेन्द्र ॥ 24 ॥
[ध] नेह कषत्तः कलहस तप्स्यते मां; न चेद दैवं परतिलॊमं भविष्यत धात्रा तु दिष्टस्य वशे किलेदं सर्वं; जगच चेष्टति न सवतन्त्रम ॥ 25 ॥
तद अद्य विदुर पराप्य राजानं मम शासनात कषिप्रम आनय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम ॥ 26 ॥
सभापर्व · Sabha Parva
अध्याय 51
Reach this point to mark the section finished.
Continue to अध्याय 52