[व] ततः परायाद विदुरॊ ऽशवैर उदारैर; महाजवैर बलिभिः साधु दान्तैः बलान नियुक्तॊ धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम ॥ 1 ॥
सॊ ऽभिपत्य तद अध्वानम आसाद्य नृपतेः पुरम परविवेश महाबुद्धिः पूज्यमानॊ दविजातिभिः ॥ 2 ॥
स राजगृहम आसाद्य कुवेर भवनॊपमम अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम ॥ 3 ॥
तं वै राजा सत्यधृतिर महात्मा; अजातशत्रुर विदुरं यथावत पूजा पूर्वं परतिगृह्याजमीढस; ततॊ ऽपृच्छद धृतराष्ट्रं सपुत्रम ॥ 4 ॥
[य] विज्ञायते ते मनसॊ न परहर्षः; कच चित कषत्तः कुशलेनागतॊ ऽसि कच चित पुत्राः सथविरस्यानुलॊमा; वशानुगाश चापि विशॊ ऽपि कच चित ॥ 5 ॥
[वि] राजा महात्मा कुशली सपुत्र; आस्ते वृतॊ जञातिभिर इन्द्रकल्पैः परीतॊ राजन पुत्र गणैर विनीतैर; विशॊक एवात्म रतिर दृढात्मा ॥ 6 ॥
इदं तु तवां कुरुराजॊ ऽभयुवाच; पूर्वां पृष्ट्वा कुशलं चाव्ययं च इयं सभा तवत सभा तुल्यरूपा; भरातॄणां ते पश्यताम एत्य पुत्र ॥ 7 ॥
समागम्य भरातृभिः पार्थ तस्यां; सुहृद दयूतं करियतां रम्यतां च परीयामहे भवतः संगमेन; समागताः कुरवश चैव सर्वे ॥ 8 ॥
दुरॊदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा तान दरक्ष्यसे कितवान संनिविष्टान; इत्य आगतॊ ऽहं नृपते तज जुषस्व ॥ 9 ॥
[य] दयूते कषत्तः कलहॊ विद्यते; नः कश वै दयूतं रॊचयेद युध्यमानः किं वा भवान मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव सथिताः सम ॥ 10 ॥
[वि] जानाम्य अहं दयूतम अनर्थमूलं; कृतश च यत्नॊ ऽसय मया निवारणे राजा तु मां पराहिनॊत तवत्सकाशं; शरुत्वा विद्वञ शरेय इहाचरस्व ॥ 11 ॥
[य] के तत्रान्ये कितवा दीव्यमाना; विना राज्ञॊ धृतराष्ट्रस्य पुत्रैः पृच्छामि तवां विदुर बरूहि नस तान; यैर दीव्यामः शतशः संनिपत्य ॥ 12 ॥
[वि] गान्धारराजः शकुनिर विशां पते; राजातिदेवी कृतहस्तॊ मताक्षः विविंशतिश चित्रसेनश च राजा; सत्यव्रतः पुरुमित्रॊ जयश च ॥ 13 ॥
[य] महाभयाः कितवाः संनिविष्टा; मायॊपधा देवितारॊ ऽतर सन्ति धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैर अद्य तैर मे ॥ 14 ॥
नाहं राज्ञॊ धृतराष्ट्रस्य शासनान; न गन्तुम इच्छामि कवे दुरॊदरम इष्टॊ हि पुत्रस्य पिता सदैव; तद अस्मि कर्ता विदुरात्थ मां यथा ॥ 15 ॥
न चाकामः शकुनिना देविताहं; न चेन मां धृष्णुर आह्वयिता सभायाम आहूतॊ ऽहं न निवर्ते कदा चित; तद आहितं शाश्वतं वै वरतं मे ॥ 16 ॥
[व] एवम उक्त्वा विदुरं धर्मराजः; परायात्रिकं सर्वम आज्ञाप्य तूर्णम परायाच छवॊ भूते सगणः सानुयात्रः; सह सत्रीभिर दरौपदीम आदि कृत्वा ॥ 17 ॥
दैवं परज्ञां तु मुष्णाति तेजश चक्षुर इवापतत धातुश च वशम अन्वेति पाशैर इव नरः सितः ॥ 18 ॥
इत्य उक्त्वा परययौ राजा सह कषत्त्रा युधिष्ठिरः अमृष्यमाणस तत पार्थः समाह्वानम अरिंदमः ॥ 19 ॥
बाह्लिकेन रथं दत्तम आस्थाय परवीरहा परिच्छन्नॊ ययौ पार्थॊ भरातृभिः सह पाण्डवः ॥ 20 ॥
राजश्रिया दीप्यमानॊ ययौ बरह्म पुरःसरः धृतराष्ट्रेण चाहूतः कालस्य समयेन च ॥ 21 ॥
स हास्तिनपुरं गत्वा धृतराष्ट्र गृहं ययौ समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः ॥ 22 ॥
तथा दरॊणेन भीष्मेण कर्णेन च कृपेण च समियाय यथान्यायं दरौणिना च विभुः सह ॥ 23 ॥
समेत्य च महाबाहुः सॊमदत्तेन चैव ह दुर्यॊधनेन शल्येन सौबलेन च वीर्यवान ॥ 24 ॥
ये चान्ये तत्र राजानः पूर्वम एव समागताः जयद्रथेन च तथा कुरुभिश चापि सर्वशः ॥ 25 ॥
ततः सर्वैर महाबाहुर भरातृभिः परिवारितः परविवेश गृहं राज्ञॊ धृतराष्ट्रस्य धीमतः ॥ 26 ॥
ददर्श तत्र गान्धारीं देवीं पतिम अनुव्रताम सनुषाभिः संवृतां शश्वत ताराभिर इव रॊहिणीम ॥ 27 ॥
अभिवाद्य स गान्धारीं तया च परतिनन्दितः ददर्श पितरं वृद्धं परज्ञा चक्षुषम ईश्वरम ॥ 28 ॥
राज्ञा मूर्धन्य उपाघ्रातास ते च कौरवनन्दनाः चत्वारः पाण्डवा राजन भीमसेनपुरॊगमाः ॥ 29 ॥
ततॊ हर्षः समभवत कौरवाणां विशां पते तान दृष्ट्वा पुरुषव्याघ्रान पाण्डवान परियदर्शनान ॥ 30 ॥
विविशुस ते ऽभयनुज्ञाता रत्नवन्ति गृहाण्य अथ ददृशुश चॊपयातास तान दरौपदी परमुखाः सत्रियः ॥ 31 ॥
याज्ञसेन्याः पराम ऋद्धिं दृष्ट्वा परज्वलिताम इव सनुषास ता धृतराष्ट्रस्य नातिप्रमनसॊ ऽभवन ॥ 32 ॥
ततस ते पुरुषव्याघ्रा गत्वा सत्रीभिस तु संविदम कृत्वा वयायामपूर्वाणि कृत्यानि परतिकर्म च ॥ 33 ॥
ततः कृताह्निकाः सर्वे दिव्यचन्दन रूषिताः कल्याण मनसश चैव बराह्मणान सवस्ति वाच्य च ॥ 34 ॥
मनॊज्ञम अशनं भुक्त्वा विविशुः शरणान्य अथ उपगीयमाना नारीभिर अस्वपन कुरुनन्दनाः ॥ 35 ॥
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम सतूयमानाश च विश्रान्ताः काले निद्राम अथात्यजन ॥ 36 ॥
सुखॊषितास तां रजनीं परातः सर्वे कृताह्निकाः सभां रम्यां परविविशुः कितवैर अभिसंवृताम ॥ 37 ॥
सभापर्व · Sabha Parva
अध्याय 52
Reach this point to mark the section finished.
Continue to अध्याय 53