[द] तवं वै जयेष्ठॊ जयैष्ठिनेयः पुत्र मा पाण्डवान दविषः दवेष्टा हय असुखम आदत्ते यथैव निधनं तथा ॥ 1 ॥
अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम अद्विषन्तं कथं दविष्यात तवादृशॊ भरतर्षभ ॥ 2 ॥
तुल्याभिजनवीर्यश च कथं भरातुः शरियं नृप पुत्र कामयसे मॊहान मैवं भूः शाम्य साध्व इह ॥ 3 ॥
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ ऋत्विजस तव तन्वन्तु सप्त तन्तुं महाध्वरम ॥ 4 ॥
आहरिष्यन्ति राजानस तवापि विपुलं धनम परीत्या च बहुमानाच च रत्नान्य आभरणानि च ॥ 5 ॥
अनर्थाचरितं तात परस्वस्पृहणं भृशम सवसंतुष्टः सवधर्मस्थॊ यः स वै सुखम एधते ॥ 6 ॥
अव्यापारः परार्थेषु नित्यॊद्यॊगः सवकर्मसु उद्यमॊ रक्षणे सवेषाम एतद वैभव लक्षणम ॥ 7 ॥
विपत्तिष्व अव्यथॊ दक्षॊ नित्यम उत्थानवान नरः अप्रमत्तॊ विनीतात्मा नित्यं भद्राणि पश्यति ॥ 8 ॥
अन्तर वेद्यां ददद वित्तं कामान अनुभवन परियान करीडन सत्रीभिर निरातङ्कः परशाम्य भरतर्षभ ॥ 9 ॥
[द] जानन वै मॊहयसि मां नावि नौर इव संयता सवार्थे किं नावधानं ते उताहॊ दवेष्टि मां भवान ॥ 10 ॥
न सन्तीमे धार्तराष्ट्रा येषां तवम अनुशासिता भविष्यम अर्थम आख्यासि सदा तवं कृत्यम आत्मनः ॥ 11 ॥
परप्रणेयॊ ऽगरणीर हि यश च मार्गात परमुह्यति पन्थानम अनुगच्छेयुः कथं तस्य पदानुगाः ॥ 12 ॥
राजन परिगत परज्ञॊ वृद्धसेवी जितेन्द्रियः परतिपन्नान सवकार्येषु संमॊहयसि नॊ भृषम ॥ 13 ॥
लॊकवृत्ताद राजवृत्तम अन्यद आह बृहस्पतिः तस्माद राज्ञा परयत्नेन सवार्थश चिन्त्यः सदैव हि ॥ 14 ॥
कषत्रियस्य महाराज जये वृत्तिः समाहिता स वै धर्मॊ ऽसत्व अधर्मॊ वा सववृत्तौ भरतर्षभ ॥ 15 ॥
परकालयेद दिशः सर्वाः परतॊदेनेव सारथिः परत्य अमित्रश्रियं दीप्तां बुभूषुर भरतर्षभ ॥ 16 ॥
परच्छन्नॊ वा परकाशॊ वा यॊ यॊगॊ रिपुबान्धनः तद वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं समृतम ॥ 17 ॥
असंतॊषः शरियॊ मूलं तस्मात तं कामयाम्य अहम समुच्छ्रये यॊ यतते स राजन परमॊ नयी ॥ 18 ॥
मम तवं हि न कर्तव्यम ऐश्वर्ये वा धने ऽपि वा पूर्वावाप्तं हरन्त्य अन्ये राजधर्मं हि तं विदुः ॥ 19 ॥
अद्रॊहे समयं कृत्वा चिच्छेद नमुचेः शिरः शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी ॥ 20 ॥
दवाव एतौ गरसते भूमिः सर्पॊ बिलशयान इव राजानं चाविरॊद्धारं बराह्मणं चाप्रवासिनम ॥ 21 ॥
नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते येन साधारणी वृत्तिः स शत्रुर नेतरॊ जनः ॥ 22 ॥
शत्रुपक्षं समृध्यन्तं यॊ मॊहात समुपेक्षते वयाधिर आप्यायित इव तस्य मूलं छिनत्ति सः ॥ 23 ॥
अल्पॊ ऽपि हय अरिर अत्यन्तं वर्धमानपराक्रमः वल्मीकॊ मूलज इव गरसते वृक्षम अन्तिकात ॥ 24 ॥
आजमीढ रिपॊर लक्ष्मीर मा ते रॊचिष्ट भारत एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः ॥ 25 ॥
जन्म वृद्धिम इवार्थानां यॊ वृद्धिम अभिकाङ्क्षते एधते जञातिषु स वै सद्यॊ वृद्धिर हि विक्रमः ॥ 26 ॥
नाप्राप्य पाण्डवैश्वर्यं संशयॊ मे भविष्यति अवाप्स्ये वा शरियं तां हि शेष्ये वा निहतॊ युधि ॥ 27 ॥
अतादृशस्य किं मे ऽदय जीवितेन विशां पते वर्धन्ते पाण्डवा नित्यं वयं तु सथिरवृद्धयः ॥ 28 ॥
सभापर्व · Sabha Parva
अध्याय 50
Reach this point to mark the section finished.
Continue to अध्याय 51