धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 49

  1. [द] आर्यास तु ये वै राजानः सत्यसंधा महाव्रताः पर्याप्तविद्या वक्तारॊ वेदान्तावभृथाप्लुताः ॥ 1 ॥

  2. धृतिमन्तॊ हरीनिषेधा धर्मात्मानॊ यशस्विनः मूर्ढाभिषिक्तास ते चैनं राजानः पर्युपासते ॥ 2 ॥

  3. दक्षिणार्थं समानीता राजभिः कांस्यदॊहनाः आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः ॥ 3 ॥

  4. आजह्रुस तत्र सत्कृत्य सवयम उद्यम्य भारत अभिषेकार्थम अव्यग्रा भाण्डम उच्चावचं नृपाः ॥ 4 ॥

  5. बाह्लीकॊ रथम आहार्षीज जाम्बूनदपरिष्कृतम सुदक्षिणस तं युयुजे शवेतैः काम्बॊजजैर हयैः ॥ 5 ॥

  6. सुनीथॊ ऽपरतिमं तस्य अनुकर्षं महायशाः धवजं चेदिपतिः कषिप्रम अहार्षीत सवयम उद्यतम ॥ 6 ॥

  7. दाक्षिणात्यः संनहनं सरग उष्णीषे च मागधः वसु दानॊ महेष्वासॊ गजेन्द्रं षष्टिहायनम ॥ 7 ॥

  8. मत्स्यस तव अक्षान अवाबध्नाद एकलव्य उपानहौ आवन्त्यस तव अभिषेकार्थम आपॊ बहुविधास तथा ॥ 8 ॥

  9. चेकितान उपासङ्गं धनुः काश्य उपाहरत असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम ॥ 9 ॥

  10. अभ्यषिञ्चत ततॊ धौम्यॊ वयासश च सुमहातपाः नारदं वै पुरस्कृत्य देवलं चासितं मुनिम ॥ 10 ॥

  11. परीतिमन्त उपातिष्ठन्न अभिषेकं महर्षयः जामदग्न्येन सहितास तथान्ये वेदपारगाः ॥ 11 ॥

  12. अभिजग्मुर महात्मानं मन्त्रवद भूरिदक्षिणम महेन्द्रम इव देवेन्द्रं दिवि सप्तर्षयॊ यथा ॥ 12 ॥

  13. अधारयच छत्रम अस्य सात्यकिः सत्यविक्रमः धनंजयश च वयजने भीमसेनश च पाण्डवः ॥ 13 ॥

  14. उपागृह्णाद यम इन्द्राय पुराकल्पे परजापतिः तम अस्मै शङ्खम आहार्षीद वारुणं कलशॊदधिः ॥ 14 ॥

  15. सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलॊ ऽभवत ॥ 15 ॥

  16. गच्छन्ति पूर्वाद अपरं समुद्रं चापि दक्षिणम उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः ॥ 16 ॥

  17. तत्र सम दध्मुः शतशः शङ्खान मङ्गल्य कारणात पराणदंस ते समाध्मातास तत्र रॊमाणि मे ऽहृषन ॥ 17 ॥

  18. परणता भूमिपाश चापि पेतुर ईनाः सवतेजसा धृष्टद्युम्नः पाण्डवाश च सात्यकिः केशवॊ ऽषटमः ॥ 18 ॥

  19. सत्त्वस्थाः शौर्यसंपन्ना अन्यॊन्यप्रियकारिणः विसंज्ञान भूमिपान दृष्ट्वा मां च ते पराहसंस तदा ॥ 19 ॥

  20. ततः परहृष्टॊ बीभत्सुः परादाद धेमविषाणिनाम शतान्य अनडुहां पञ्च दविजमुख्येषु भारत ॥ 20 ॥

  21. नैवं शम्बर हन्ताभूद यौवनाश्वॊ मनुर न च न च राजा पृथुर वैन्यॊ न चाप्य आसीद भगीरथः ॥ 21 ॥

  22. यथातिमात्रं कौन्तेयः शरिया परमया युतः राजसूयम अवाप्यैवं हरिश चन्द्र इव परभुः ॥ 22 ॥

  23. एतां दृष्ट्वा शरियं पार्थे हरिश चन्द्रे यथा विभॊ कथं नु जीवितं शरेयॊ मम पश्यसि भारत ॥ 23 ॥

  24. अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप कनीयांसॊ विवर्धन्ते जयेष्ठा हीयन्ति भारत ॥ 24 ॥

  25. एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणॊ ऽपि कुरुप्रवीर तेनाहम एवं कृषतां गतश च; विवर्णतां चैव स शॊकतां च ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 50

Previous: अध्याय 48