[द] दायं तु तस्मै विविधं शृणु मे गदतॊ ऽनघ यज्ञार्थं राजभिर दत्तं महान्तं धनसंचयम ॥ 1 ॥
मेरुमन्दरयॊर मध्ये शैलॊदाम अभितॊ नदीम ये ते कीचक वेणूनां छायां रम्याम उपासते ॥ 2 ॥
खशा एकाशनाज्यॊहाः परदरा दीर्घवेनवः पशुपाश च कुणिन्दाश च तङ्गणाः परतङ्गणाः ॥ 3 ॥
ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः जातरूपं दरॊण मेयम अहार्षुः पुञ्जशॊ नृपाः ॥ 4 ॥
कृष्णाँल ललामांश चमराञ शुक्लांश चान्याञ शशिप्रभान हिमवत्पुष्पजं चैव सवादु कषौद्रं तथा बहु ॥ 5 ॥
उत्तरेभ्यः कुरुभ्यश चाप्य अपॊढं माल्यम अम्बुभिः उत्तराद अपि कैलासाद ओषधीः सुमहाबलाः ॥ 6 ॥
पार्वतीया बलिं चान्यम आहृत्य परणताः सथिताः अजातशत्रॊर नृपतेर दवारि तिष्ठन्ति वारिताः ॥ 7 ॥
ये परार्धे हिमवतः सूर्यॊदयगिरौ नृपाः वारि षेण समुद्रान्ते लॊहित्यम अभितश च ये फलमूलाशना ये च किराताश चर्म वाससः ॥ 8 ॥
चन्दनागुरुकाष्ठानां भारान कालीयकस्य च चर्म रत्नसुवर्णानां गन्धानां चैव राशयः ॥ 9 ॥
कैरातिकानाम अयुतं दासीनां च विशां पते आहृत्य रमणीयार्थान दूरजान मृगपक्षिणः ॥ 10 ॥
निचितं पर्वतेभ्यश च हिरण्यं भूरि वर्चसम बलिं च कृत्स्नम आदाय दवारि तिष्ठन्ति वारिताः ॥ 11 ॥
कायव्या दरदा दार्वाः शूरा वैयमकास तथा औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ॥ 12 ॥
काश्मीराः कुन्दमानाश च पौरका हंसकायनाः शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः ॥ 13 ॥
अम्बष्ठाः कौकुरास तार्क्ष्या वस्त्रपाः पह्लवैः सह वसातयः समौलेयाः सह कषुद्रकमालवैः ॥ 14 ॥
शौण्डिकाः कुक्कुराश चैव शकाश चैव विशां पते अङ्गा वङ्गाश च पुण्ड्राश च शानवत्या गयास तथा ॥ 15 ॥
सुजातयः शरेणिमन्तः शरेयांसः शस्त्रपाणयः आहार्षुः कषत्रिया वित्तं शतशॊ ऽजातशत्रवे ॥ 16 ॥
वङ्गाः कलिङ्ग पतयस ताम्रलिप्ताः सपुण्ड्रकाः दुकूलं कौशिकं चैव पत्रॊर्णं परावरान अपि ॥ 17 ॥
तत्र सम दवारपालैस ते परॊच्यन्ते राजशासनात कृतकाराः सुबलयस ततॊ दवारम अवाप्स्यथ ॥ 18 ॥
ईषा दन्तान हेमकक्षान पद्मवर्णान कुथावृतान शैलाभान नित्यमत्तांश च अभितः काम्यकं सरः ॥ 19 ॥
दत्त्वैकैकॊ दशशतान कुञ्जरान कवचावृतान कषमावतः कुलीनांश च दवारेण पराविशंस ततः ॥ 20 ॥
एते चान्ये च बहवॊ गणा दिग्भ्यः समागताः अन्यैश चॊपाहृतान्य अत्र रत्नानीह महात्मभिः ॥ 21 ॥
राजा चित्ररथॊ नाम गन्धर्वॊ वासवानुगः शतानि चत्वार्य अददद धयानां वातरंहसाम ॥ 22 ॥
तुम्बुरुस तु परमुदितॊ गन्धर्वॊ वाजिनां शतम आम्रपत्र सवर्णानाम अददद धेममालिनाम ॥ 23 ॥
कृती तु राजा कौरव्य शूकराणां विशां पते अददद गजरत्नानां शतानि सुबहून्य अपि ॥ 24 ॥
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम कुञ्जराणां सहस्रे दवे मत्तानां समुपाहृते ॥ 25 ॥
पांशुराष्ट्राद वसु दानॊ राजा षड विंशतिं गजान अश्वानां च सहस्रे दवे राजन काञ्चनमालिनाम ॥ 26 ॥
जवसत्त्वॊपपन्नानां वयःस्थानां नराधिप बलिं च कृत्स्नम आदाय पाण्डवेभ्यॊ नयवेदयत ॥ 27 ॥
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश दासानाम अयुतं चैव सदाराणां विशां पते ॥ 28 ॥
गजयुक्ता महाराज रथाः षड विंशतिस तथा राज्यं च कृत्स्नं पार्थेभ्यॊ यज्ञार्थं वै निवेदितम ॥ 29 ॥
समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस तथैव च शतशश च कुथांस तत्र सिन्हलाः समुपाहरन ॥ 30 ॥
संवृता मणिचीरैस तु शयामास ताम्रान्त लॊचनाः तान गृहीत्वा नरास तत्र दवारि तिष्ठन्ति वारिताः ॥ 31 ॥
परीत्यर्थं बराह्मणैश चैव कषत्रियाश च विनिर्जिताः उपाजह्रुर विशश चैव शूद्राः शुश्रूषवॊ ऽपि च परीत्या च बहुमानाच च अभ्यगच्छन युधिष्ठिरम ॥ 32 ॥
सर्वे मलेच्छाः सर्ववर्णा आदिमध्यान्तजास तथा नानादेशसमुत्थैश च नाना जातिभिर आगतैः पर्यस्त इव लॊकॊ ऽयं युधिष्ठिर निवेशने ॥ 33 ॥
उच्चावचान उपग्राहान राजभिः परहितान बहून शत्रूणां पश्यतॊ दुःखान मुमूर्षा मे ऽदय जायते ॥ 34 ॥
भृत्यास तु ये पाण्डवानां तांस ते वक्ष्यामि भारत येषाम आमं च पक्वं च संविधत्ते युधिष्ठिरः ॥ 35 ॥
अयुतं तरीणि पद्मानि गजारॊहाः ससादिनः रथानाम अर्बुदं चापि पादाता बहवस तथा ॥ 36 ॥
परमीयमानम आरब्धं पच्यमानं तथैव च विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ॥ 37 ॥
नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथं चन अपश्यं सर्ववर्णानां युधिष्ठिर निवेशने ॥ 38 ॥
अष्टाशीति सहस्राणि सनातका गृहमेधिनः तरिंशद दासीक एकैकॊ यान बिभर्ति युधिष्ठिरः सुप्रीताः परितुष्टाश च ते ऽपय आशंसन्त्य अरिक्षयम ॥ 39 ॥
दशान्यानि सहस्राणि यतीनाम ऊर्ध्वरेतसाम भुञ्जते रुक्मपात्रीषु युधिष्ठिर निवेशने ॥ 40 ॥
भुक्ताभुक्तं कृताकृतं सर्वम आ कुब्ज वामनम अभुञ्जाना याज्ञसेनी परत्यवैक्षद विशां पते ॥ 41 ॥
दवौ करं न परयच्छेतां कुन्तीपुत्राय भारत वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ॥ 42 ॥
सभापर्व · Sabha Parva
अध्याय 48
Reach this point to mark the section finished.
Continue to अध्याय 49