धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 47

  1. [द] यन मया पाण्डवानां तु दृष्टं तच छृणु भारत आहृतं भूमिपालैर हि वसु मुख्यं ततस ततः ॥ 1 ॥

  2. न विन्दे दृढम आत्मामं दृष्ट्वाहं तद अरेर धनम फलतॊ भूमितॊ वापि परतिपद्यस्व भारत ॥ 2 ॥

  3. ऐडांश चैलान वार्षदंशाञ जातरूपपरिष्कृताम परावाराजिन मुख्यांश च कम्बॊजः परददौ वसु ॥ 3 ॥

  4. अश्वांस तित्तिरि कल्माषांस तरिशतं शुकनासिकान उष्ट्रवामीस तरिशतं च पुष्टाः पीलु शमीङ्गुदैः ॥ 4 ॥

  5. गॊवासना बराह्मणाश च दासमीयाश च सर्वशः परीत्यर्थं ते महाभागा धर्मराज्ञॊ महात्मनः तरिखर्वं बलिम आदाय दवारि तिष्ठन्ति वारिताः ॥ 5 ॥

  6. कमण्डलून उपादाय जातरूपमयाञ शुभान एवं बलिं परदायाथ परवेशं लेभिरे ततः ॥ 6 ॥

  7. शतं दासी सहस्राणां कार्पासिक निवासिनाम शयामास तन्व्यॊ दीर्घकेश्यॊ हेमाभरण भूषिताः शूद्रा विप्रॊत्तमार्हाणि राङ्कवान्य अजिनानि च ॥ 7 ॥

  8. बलिं च कृत्स्नम आदाय भरु कच्छ निवासिनः उपनिन्युर महाराज हयान गान्धारदेशजान ॥ 8 ॥

  9. इन्द्र कृष्टैर वर्तयन्ति धान्यैर नदी मुखैश च ये समुद्रनिष्कुटे जाताः परिसिन्दु च मानवाः ॥ 9 ॥

  10. ते वैरामाः पारदाश च वङ्गाश च कितवैः सह विविधं बलिम आदाय रत्नानि विविधानि च ॥ 10 ॥

  11. अजाविकं गॊहिरण्यं खरॊष्ट्रं फलजं मधु कम्बलान विविधांश चैव दवारि तिष्ठन्ति वारिताः ॥ 11 ॥

  12. पराग्ज्यॊतिषाधिपः शूरॊ मलेच्छानाम अधिपॊ बली यनवैः सहितॊ राजा भगदत्तॊ महारथः ॥ 12 ॥

  13. आजानेयान हयाञ शीघ्रान आदायानिल रंहसः बलिं च कृत्स्नम आदाय दवारि तिष्ठति वारितः ॥ 13 ॥

  14. अश्मसारमयं भाण्डं शुद्धदन्तत्सरून असीन पराग्ज्यॊतिषॊ ऽथ तद दत्त्वा भगदत्तॊ ऽवरजत तदा ॥ 14 ॥

  15. दव्यक्षांस तर्यक्षाँल ललाटाक्षान नानादिग्भ्यः समागतान औष्णीषान अनिवासांश च बाहुकान पुरुषादकान ॥ 15 ॥

  16. एकपादांश च तत्राहम अपश्यं दवारि वारितान बल्यर्थं ददतस तस्मै हिरण्यं रजतं बहु ॥ 16 ॥

  17. इन्द्र गॊप कवर्णाभाञ शुकवर्णान मनॊजवान तथैवेन्द्रायुध निभान संध्याभ्रसदृशान अपि ॥ 17 ॥

  18. अनेकवर्णान आरण्यान गृहीत्वाश्वान मनॊजवान जातरूपम अनर्घ्यं च ददुस तस्यैक पादकाः ॥ 18 ॥

  19. चीनान हूनाञ शकान ओडून पर्वतान्तरवासिनः वार्ष्णेयान हारहूणांश च कृष्णान हैमवतांस तथा ॥ 19 ॥

  20. न पारयाम्य अभिगतान विविधान दवारि वारितान बल्यर्थं ददतस तस्य नानारूपान अनेकशः ॥ 20 ॥

  21. कृष्ण गरीवान महाकायान रासभाञ शतपातिनः आहार्षुर दशसाहस्रान विनीतान दिक्षु विश्रुतान ॥ 21 ॥

  22. परमाण रागस्पर्शाढ्यं बाह्ली चीन समुद्भवम और्णं च राङ्कवं चैव कीटजं पट्टजं तथा ॥ 22 ॥

  23. कुट्टी कृतं तथैवान्यत कमलाभं सहस्रशः शलक्ष्णं वस्त्रम अकार्पासम आविकं मृदु चाजिनम ॥ 23 ॥

  24. निशितांश चैव दीर्घासीन ऋष्टिशक्तिपरश्वधान अपरान्त समुद्भूतांस तथैव परशूञ शितान ॥ 24 ॥

  25. रसान गन्धांश च विविधान रत्नानि च सहस्रशः बलिं च कृत्स्नम आदाय दवारि तिष्ठन्ति वारिताः ॥ 25 ॥

  26. शकास तुखाराः कङ्काश च रॊमशाः शृङ्गिणॊ नराः महागमान दूरगमान गणितान अर्बुदं हयान ॥ 26 ॥

  27. कॊटिशश चैव बहुशः सुवर्णं पद्मसंमितम बलिम आदाय विविधं दवारि तिष्ठन्ति वारिताः ॥ 27 ॥

  28. आसनानि महार्हाणि यानानि शयनानि च मणिकाञ्चनचित्राणि गजदन्त मयानि च ॥ 28 ॥

  29. रथांश च विविधाकाराञ जातरूपपरिष्कृतान हयैर विनीतैः संपन्नान वैयाघ्रपरिवारणान ॥ 29 ॥

  30. विचित्रांश च परिस्तॊमान रत्नानि च सहस्रशः नाराचान अर्धनाराचाञ शस्त्राणि विविधानि च ॥ 30 ॥

  31. एतद दत्त्वा महद दरव्यं पूर्वदेशाधिपॊ नृपः परविष्टॊ यज्ञसदनं पाण्डवस्य महात्मनः ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 48

Previous: अध्याय 46