[ज] कथं समभवद दयूतं भरातॄणां तन महात्ययम यत्र तद वयसनं पराप्तं पाण्डवैर मे पितामहैः ॥ 1 ॥
के च तत्र सभास्तारा राजानॊ बरह्मवित्तम के चैनम अन्वमॊदन्त के चैनं परत्यषेधयन ॥ 2 ॥
विस्तरेणैतद इच्छामि कथ्यमानं तवया दविज मूलं हय एतद विनाशस्य पृथिव्या दविजसत्तम ॥ 3 ॥
[सूत] एवम उक्तस तदा राज्ञा वयास शिष्यः परतापवान आचचक्षे यथावृत्तं तत सर्वं सर्ववेदवित ॥ 4 ॥
[व] शृणु मे विस्तरेणेमां कथां भरतसत्तम भूय एव महाराज यदि ते शरवणे मतिः ॥ 5 ॥
विदुरस्य मतं जञात्वा धृतराष्ट्रॊ ऽमबिका सुतः दुर्यॊधनम इदं वाक्यम उवाच विजने पुनः ॥ 6 ॥
अलं दयूतेन गान्धारे विदुरॊ न परशंसति न हय असौ सुमहाबुद्धिर अहितं नॊ वदिष्यति ॥ 7 ॥
हितं हि परमं मन्ये विदुरॊ यत परभाषते करियतां पुत्र तत सर्वम एतन मन्ये हितं तव ॥ 8 ॥
देवर्षिर वासव गुरुर देवराजाय धीमते यत पराह शास्त्रं भगवान बृहस्पतिर उदारधीः ॥ 9 ॥
तद वेद विदुरः सर्वं सरहस्यं महाकविः सथितश च वचने तस्य सदाहम अपि पुत्रक ॥ 10 ॥
विदुरॊ वापि मेधावी कुरूणां परवरॊ मतः उद्धवॊ वा महाबुद्धिर वृष्णीणाम अर्चितॊ नृप ॥ 11 ॥
दयूतेन तद अलं पुत्र दयूते भेदॊ हि दृश्यते भेदे विनाशॊ राज्यस्य तत पुत्र परिवर्जय ॥ 12 ॥
पित्रा मात्रा च पुत्रस्य यद वै कार्यं परं समृतम पराप्तस तवम असि तत तात पितृपैतामहं पदम ॥ 13 ॥
अधीतवान कृती शास्त्रे लालितः सततं गृहे भरातृज्येष्ठः सथितॊ राज्ये विन्दसे किं न शॊभनम ॥ 14 ॥
पृथग्जनैर अलभ्यं यद भॊजनाच्छादनं परम तत पराप्तॊ ऽसि महाबाहॊ कस्माच छॊचसि पुत्रक ॥ 15 ॥
सफीतं राष्ट्रं महाबाहॊ पितृपैतामहं महत नित्यम आज्ञापयन भासि दिवि देवेश्वरॊ यथा ॥ 16 ॥
तस्य ते विदितप्रज्ञ शॊकमूलम इदं कथम समुत्थितं दुःखतरं तन मे शंसितुम अर्हसि ॥ 17 ॥
[द] अश्नाम्य आच्छादयामीति परपश्यन पापपूरुषः नामर्षं कुरुते यस तु पुरुषः सॊ ऽधमः समृतः ॥ 18 ॥
न मां परीणाति राजेन्द्र लक्ष्मीः साधारणा विभॊ जवलिताम इव कौन्तेये शरियं दृष्ट्वा च विव्यथे ॥ 19 ॥
सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिर वशानुगाम सथिरॊ ऽसमि यॊ ऽहं जीवामि दुःखाद एतद बरवीमि ते ॥ 20 ॥
आवर्जिता इवाभान्ति निघ्नाश चैत्रकि कौकुराः कारः करा लॊहजङ्घा युधिष्ठिर निवेशने ॥ 21 ॥
हिमवत्सागरानूपाः सर्वरत्नाकरास तथा अन्त्याः सर्वे पर्युदस्ता युधिष्ठिर निवेशने ॥ 22 ॥
जयेष्ठॊ ऽयम इति मां मत्वा शरेष्ठश चेति विशां पते युधिष्ठिरेण सत्कृत्य युक्तॊ रत्नपरिग्रहे ॥ 23 ॥
उपस्थितानां रत्नानां शरेष्ठानाम अर्घ हारिणाम नादृश्यत परः परान्तॊ नापरस तत्र भारत ॥ 24 ॥
न मे हस्तः समभवद वसु तत परतिगृह्णतः परातिष्ठन्त मयि शरान्ते गृह्य दूराहृतं वसु ॥ 25 ॥
कृतां बिन्दुसरॊ रत्नैर मयेन सफाटिकच छदाम अपश्यं नलिनीं पूर्णाम उदकस्येव भारत ॥ 26 ॥
वस्त्रम उत्कर्षति मयि पराहसत स वृकॊदरः शत्रॊर ऋद्धिविशेषेण विमूढं रत्नवर्जितम ॥ 27 ॥
तत्र सम यदि शक्तः सयां पातयेयं वृकॊदरम सपत्नेनावहासॊ हि स मां दहति भारत ॥ 28 ॥
पुनश च तादृशीम एव वापीं जलज शालिनीम मत्वा शिला समां तॊये पतितॊ ऽसमि नराधिप ॥ 29 ॥
तत्र मां पराहसत कृष्णः पार्थेन सह सस्वनम दरौपदी च सह सत्रीभिर वयथयन्ती मनॊ मम ॥ 30 ॥
कलिन्नवस्त्रस्य च जले किं करा राजचॊदिताः ददुर वासांसि मे ऽनयानि तच च दुःखतरं मम ॥ 31 ॥
परलम्भं च शृणुष्वान्यं गदतॊ मे नराधिप अद्वारेण विनिर्गच्छन दवारसंस्थान रूपिणा अभिहत्य शिलां भूयॊ ललाटेनास्मि विक्षतः ॥ 32 ॥
तत्र मां यमजौ दूराद आलॊक्य ललितौ किल बाहुभिः परिगृह्णीतां शॊचन्तौ सहिताव उभौ ॥ 33 ॥
उवाच सहदेवस तु तत्र मां विस्मयन्न इव इदं दवारम इतॊ गच्छ राजन्न इति पुनः पुनः ॥ 34 ॥
नामधेयानि रत्नानां पुरस्तान न शरुतानि मे यानि दृष्टानि मे तस्यां मनस तपति तच च मे ॥ 35 ॥
सभापर्व · Sabha Parva
अध्याय 46
Reach this point to mark the section finished.
Continue to अध्याय 47