धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 43

  1. [व] वसन दुर्यॊधनस तस्यां सभायां भरतर्षभ शनैर ददर्श तां सर्वां सभां शकुनिना सह ॥ 1 ॥

  2. तस्यां दिव्यान अभिप्रायान ददर्श कुरुनन्दनः न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ॥ 2 ॥

  3. स कदा चित सभामध्ये धार्तराष्ट्रॊ महीपतिः सफाटिकं तलम आसाद्य जलम इत्य अभिशङ्कया ॥ 3 ॥

  4. सववस्त्रॊत्कर्षणं राजा कृतवान बुद्धिमॊहितः दुर्मना विमुखश चैव परिचक्राम तां सभाम ॥ 4 ॥

  5. ततः सफाटिकतॊयां वै सफाटिकाम्बुज शॊभिताम वापीं मत्वा सथलम इति स वासाः परापतज जले ॥ 5 ॥

  6. जले निपतितं दृष्ट्वा किं करा जहसुर भृशम वासांसि च शुभान्य अस्मै परददू राजशासनात ॥ 6 ॥

  7. तथागतं तु तं दृष्ट्वा भीमसेनॊ महाबलः अर्जुनश च यमौ चॊभौ सर्वे ते पराहसंस तदा ॥ 7 ॥

  8. नामर्षयत ततस तेषाम अवहासम अमर्षणः आकारं रक्षमाणस तु न स तान समुदैक्षत ॥ 8 ॥

  9. पुनर वसनम उत्क्षिप्य परतरिष्यन्न इव सथलम आरुरॊह ततः सर्वे जहसुस ते पुनर जनाः ॥ 9 ॥

  10. दवारं च विवृताकारं ललाटेन समाहनत संवृतं चेति मन्वानॊ दवारदेशाद उपारमत ॥ 10 ॥

  11. एवं परलम्भान विविधान पराप्य तत्र विशां पते पाण्डवेयाभ्यनुज्ञातस ततॊ दुर्यॊधनॊ नृपः ॥ 11 ॥

  12. अप्रहृष्टेन मनसा राजसूये महाक्रतौ परेक्ष्यताम अद्भुताम ऋद्धिं जगाम गजसाह्वयम ॥ 12 ॥

  13. पाण्डव शरीप्रतप्तस्य धयानग्लानस्य गच्छतः दुर्यॊधनस्य नृपतेः पापा मतिर अजायत ॥ 13 ॥

  14. पार्थान सुमनसॊ दृष्ट्वा पार्थिवांश च वशानुगान कृत्स्नं चापिहितं लॊकम आ कुमारं कुरूद्वह ॥ 14 ॥

  15. महिमानं परं चापि पाण्डवानां महात्मनाम दुर्यॊधनॊ धार्तराष्ट्रॊ विवर्णः समपद्यत ॥ 15 ॥

  16. स तु गच्छन्न अनेकाग्रः सभाम एवानुचिन्तयन शरियं च ताम अनुपमां धर्मराजस्य धीमतः ॥ 16 ॥

  17. परमत्तॊ धृतराष्ट्रस्य पुत्रॊ दुर्यॊधनस तदा नाभ्यभाषत सुबलजं भाषमाणं पुनः पुनः ॥ 17 ॥

  18. अनेकाग्रं तु तं दृष्ट्वा शकुनिः परत्यभाषत दुर्यॊधन कुतॊ मूलं निःश्वसन्न इव गच्छसि ॥ 18 ॥

  19. [द] दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिर वशानुगाम जिताम अस्त्रप्रतापेन शवेताश्वस्य महात्मनः ॥ 19 ॥

  20. तं च यज्ञं तथा भूतं दृष्ट्वा पार्थस्य मातुल यथा शक्रस्य देवेषु तथा भूतं महाद्युते ॥ 20 ॥

  21. अमर्षेण सुसंपूर्णॊ दह्यमानॊ दिवानिशम शुचि शुक्रागमे काले शुष्ये तॊयम इवाल्पकम ॥ 21 ॥

  22. पश्य सात्वत मुख्येन शिशुपालं निपातितम न च तत्र पुमान आसीत कश चित तस्य पदानुगः ॥ 22 ॥

  23. दह्यमाना हि राजानः पाण्डवॊत्थेन वह्निना कषान्तवन्तॊ ऽपराधं तं कॊ हि तं कषन्तुम अर्हति ॥ 23 ॥

  24. वासुदेवेन तत कर्म तथायुक्तं महत कृतम सिद्धं च पाण्डवेयानां परतापेन महात्मनाम ॥ 24 ॥

  25. तथा हि रत्नान्य आदाय विविधानि नृपा नृपम उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः ॥ 25 ॥

  26. शरियं तथाविधां दृष्ट्वा जवलन्तीम इव पाण्डवे अमर्षवशम आपन्नॊ दह्ये ऽहम अतथॊचितः ॥ 26 ॥

  27. वह्निम एव परवेक्ष्यामि भक्षयिष्यामि वा विषम अपॊ वापि परवेक्ष्यामि न हि शक्ष्यामि जीवितुम ॥ 27 ॥

  28. कॊ हि नाम पुमाँल लॊके मर्षयिष्यति सत्त्ववान सपत्नान ऋध्यतॊ दृष्ट्वा हानिम आत्मन एव च ॥ 28 ॥

  29. सॊ ऽहं न सत्री न चाप्य अस्त्री न पुमान नापुमान अपि यॊ ऽहं तां मर्षयाम्य अद्य तादृशीं शरियम आगताम ॥ 29 ॥

  30. ईश्वरत्वं पृथिव्याश च वसुमत्तां च तादृशीम यज्ञं च तादृशं दृष्ट्वा मादृशः कॊ न संज्वरेत ॥ 30 ॥

  31. अशक्तश चैक एवाहं ताम आहर्तुं नृप शरियम सहायांश च न पश्यामि तेन मृत्युं विचिन्तये ॥ 31 ॥

  32. दैवम एव परं मन्ये पौरुषं तु निरर्थकम दृष्ट्वा कुन्तीसुते शुभ्रां शरियं ताम आहृतां तथा ॥ 32 ॥

  33. कृतॊ यत्नॊ मया पूर्वं विनाशे तस्य सौबल तच च सर्वम अतिक्रम्य सवृद्धॊ ऽपस्व इव पङ्कजम ॥ 33 ॥

  34. तेन दैवं परं मन्ये पौरुषं तु निरर्थकम धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः ॥ 34 ॥

  35. सॊ ऽहं शरियं च तां दृष्ट्वा सभां तां च तथाविधाम रक्षिभिश चावहासं तं परितप्ये यथाग्निना ॥ 35 ॥

  36. स माम अभ्यनुजानीहि मातुलाद्य सुदुःखितम अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ॥ 36 ॥

Reach this point to mark the section finished.

Continue to अध्याय 44

Previous: अध्याय 42