[ष] दुर्यॊधन न ते ऽमर्षः कार्यः परति युधिष्ठिरम भागधेयानि हि सवानि पाण्डवा भुञ्जते सदा ॥ 1 ॥
अनेकैर अभ्युपायैश च तवयारब्धाः पुरासकृत विमुक्ताश च नरव्याघ्रा भागधेय पुरस्कृताः ॥ 2 ॥
तैर लब्धा दरौपदी भार्या दरुपदश च सुतैः सह सहायः पृथिवी लाभे वासुदेवश च वीर्यवान ॥ 3 ॥
लब्धश च नाभिभूतॊ ऽरथः पित्र्यॊ ऽंशः पृथिवीपते विवृद्धस तेजसा तेषां तत्र का परिदेवना ॥ 4 ॥
धनंजयेन गाण्डीवम अक्षय्यौ च महेषुधी लब्धान्य अस्त्राणि दिव्यानि तर्पयित्वा हुताशनम ॥ 5 ॥
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः कृता वशे महीपालास तत्र का परिदेवना ॥ 6 ॥
अग्निदाहान मयं चापि मॊक्षयित्वा सदानवम सभां तां कारयाम आस सव्यसाची परंतपः ॥ 7 ॥
तेन चैव मयेनॊक्ताः किं करा नाम राक्षसाः वहन्ति तां सभां भीमास तत्र का परिदेवना ॥ 8 ॥
यच चासहायतां राजन्न उक्तवान असि भारत तन मिथ्या भरातरॊ हीमे सहायास ते महारथाः ॥ 9 ॥
दरॊणस तव महेष्वासः सह पुत्रेण धीमता सूतपुत्रश च राधेयॊ गौतमश च महारथः ॥ 10 ॥
अहं च सह सॊदर्यैः सौमदत्तिश च वीर्यवान एतैस तवं सहितः सर्वैर जय कृत्स्नां वसुंधराम ॥ 11 ॥
[द] तवया च सहितॊ राजन्न एतैश चान्यैर महारथैः एतान एव विजेष्यामि यदि तवम अनुमन्यसे ॥ 12 ॥
एतेषु विजितेष्व अद्य भविष्यति मही मम सर्वे च पृथिवीपालाः सभा सा च महाधना ॥ 13 ॥
[ष] धनंजयॊ वासुदेवॊ भीमसेनॊ युधिष्ठिरः नकुलः सहदेवश च दरुपदश च सहात्म जैः ॥ 14 ॥
नैते युधि बलाज जेतुं शक्याः सुरगणैर अपि महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ॥ 15 ॥
अहं तु तद विजानामि विजेतुं येन शक्यते युधिष्ठिरं सवयं राजंस तन निबॊध जुषस्व च ॥ 16 ॥
[द] अप्रमादेन सुहृदाम अन्येषां च महात्मनाम यदि शक्या विजेतुं ते तन ममाचक्ष्व मातुल ॥ 17 ॥
[ष] दयूतप्रियश च कौन्तेयॊ न च जानाति देवितुम समाहूतश च राजेन्द्रॊ न शक्ष्यति निवर्तितुम ॥ 18 ॥
देवने कुशलश चाहं न मे ऽसति सदृशॊ भुवि तरिषु लॊकेषु कौन्तेयं तं तवं दयूते समाह्वय ॥ 19 ॥
तस्याक्षकुशलॊ राजन्न आदास्ये ऽहम असंशयम राज्यं शरियं च तां दीप्तां तवदर्थं पुरुषर्षभ ॥ 20 ॥
इदं तु सर्वं तवं राज्ञे दुर्यॊधन निवेदय अनुज्ञातस तु ते पित्रा विजेष्ये तं न संशयः ॥ 21 ॥
[द] तवम एव कुरुमुख्याय धृतराष्ट्राय सौबल निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम ॥ 22 ॥
सभापर्व · Sabha Parva
अध्याय 44
Reach this point to mark the section finished.
Continue to अध्याय 45