[व] ततः शरुत्वैव भीष्मस्य चेदिराड उरुविक्रमः युयुत्सुर वासुदेवेन वासुदेवम उवाच ह ॥ 1 ॥
आह्वये तवां रणं गच्छ मया सार्धं जनार्दन यावद अद्य निहन्मि तवां सहितं सर्वपाण्डवैः ॥ 2 ॥
सह तवया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा नृपतीन समतिक्रम्य यैर अराजा तवम अर्चितः ॥ 3 ॥
ये तवां दासम अराजानं बाल्याद अर्चन्ति दुर्मतिम अनर्हम अर्हवत कृष्ण वध्यास त इति मे मतिः इत्य उक्त्वा राजशार्दूलस तस्थौ गर्जन्न अमर्षणः ॥ 4 ॥
एवम उक्ते ततः कृष्णॊ मृदुपूर्वम इदं वचः उवाच पार्थिवान सर्वांस तत्समक्षं च पाण्डवान ॥ 5 ॥
एष नः शत्रुर अत्यन्तं पार्थिवाः सात्वती सुतः सात्वतानां नृशंसात्मा न हितॊ ऽनपकारिणाम ॥ 6 ॥
पराग्ज्यॊतिष पुरं यातान अस्माञ जञात्वा नृशंसकृत अदहद दवारकाम एष सवस्रीयः सन नराधिपाः ॥ 7 ॥
करीडतॊ भॊजराजन्यान एष रैवतके गिरौ हत्वा बद्ध्वा च तान सर्वान उपायात सवपुरं पुरा ॥ 8 ॥
अश्वमेधे हयं मेध्यम उत्सृष्टं रक्षिभिर वृतम पितुर मे यज्ञविघ्नार्थम अहरत पापनिश्चयः ॥ 9 ॥
सुवीरान परतिपत्तौ च बभ्रॊर एष यशस्विनः भार्याम अभ्यहरन मॊहाद अकामां ताम इतॊ गताम ॥ 10 ॥
एष माया परतिच्छन्नः करूषार्थे तपस्विनीम जहार भद्रां वैशालीं मातुलस्य नृशंसकृत ॥ 11 ॥
पितृस्वसुः कृते दुःखं सुमहन मर्षयाम्य अहम दिष्ट्या तव इदं सर्वराज्ञां संनिधाव अद्य वर्तते ॥ 12 ॥
पश्यन्ति हि भवन्तॊ ऽदय मय्य अतीव वयतिक्रमम कृतानि तु परॊक्षं मे यानि तानि निबॊधत ॥ 13 ॥
इमं तव अस्य न शक्ष्यामि कषन्तुम अद्य वयतिक्रमम अवलेपाद वधार्हस्य समग्रे राजमण्डले ॥ 14 ॥
रुक्मिण्याम अस्य मूढस्य परार्थनासीन मुमूर्षतः न च तां पराप्तवान मूढः शूद्रॊ वेदश्रुतिं यथा ॥ 15 ॥
एवमादि ततः सर्वे सहितास ते नराधिपाः वासुदेव वचॊ शरुत्वा चेदिराजं वयगर्हयन ॥ 16 ॥
ततस तद वचनं शरुत्वा शिशुपालः परतापवान जहास सवनवद धासं परहस्येदम उवाच ह ॥ 17 ॥
मत पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन विशेषतः पार्थिवेषु वरीडां न कुरुषे कथम ॥ 18 ॥
मन्यमानॊ हि कः सत्सु पुरुषः परिकीर्तयेत अन्यपूर्वां सत्रियं जातु तवदन्यॊ मधुसूदन ॥ 19 ॥
कषम वा यदि ते शरद्धा मा वा कृष्ण मम कषम करुद्धाद वापि परसन्नाद वा किं मे तवत्तॊ भविष्यति ॥ 20 ॥
तथा बरुवत एवास्य भगवान मधुसूदनः वयपाहरच छिरॊ करुद्धश चक्रेणामित्र कर्षणः स पपात महाबाहुर वज्राहत इवाचलः ॥ 21 ॥
ततश चेदिपतेर देहात तेजॊ ऽगर्यं ददृशुर नृपाः उत्पतन्तं महाराज गगणाद इव भास्करम ॥ 22 ॥
ततः कमलपत्राक्षं कृष्णं लॊकनमस्कृतम ववन्दे तत तदा तेजॊ विवेश च नराधिप ॥ 23 ॥
तद अद्भुतम अमन्यन्त दृष्ट्वा सर्वे महीक्षितः यद विवेश महाबाहुं तत तेजॊ पुरुषॊत्तमम ॥ 24 ॥
अनभ्रे परववर्ष दयौः पपात जवलिताशनिः कृष्णेन निहते चैद्ये चचाल च वसुंधरा ॥ 25 ॥
ततः के चिन महीपाला नाब्रुवंस तत्र किं चन अतीतवाक्पथे काले परेक्षमाणा जनार्दनम ॥ 26 ॥
हस्तैर हस्ताग्रम अपरे परत्यपीषन्न अमर्षिताः अपरे दशनैर ओष्ठान अदशन करॊधमूर्छिताः ॥ 27 ॥
रहस तु के चिद वार्ष्णेयं परशशंसुर नराधिपाः के चिद एव तु संरब्धा मध्यस्थास तव अपरे ऽभवन ॥ 28 ॥
परहृष्टाः केशवं जग्मुः संस्तुवन्तॊ महर्षयः बराह्मणाश च महात्मानः पार्थिवाश च महाबलाः ॥ 29 ॥
पाण्डवस तव अब्रवीद भरातॄन सत्कारेण महीपतिम दमघॊषात्मजं वीरं संसाधयत माचिरम तथा च कृतवन्तस ते भरातुर वै शासनं तदा ॥ 30 ॥
चेदीनाम आधिपत्ये च पुत्रम अस्य महीपतिम अभ्यसिञ्चत तदा पार्थः सह तैर वसुधाधिपैः ॥ 31 ॥
ततः स कुरुराजस्य करतुः सर्वं समृद्धिमान यूनां परीतिकरॊ राजन संबभौ विपुलौजसः ॥ 32 ॥
शान्तविघ्नः सुखारम्भः परभूतधनधान्यवान अन्नवान बहुभक्ष्यश च केशवेन सुरक्षितः ॥ 33 ॥
समापयाम आस च तं राजसूयं महाक्रतुम तं तु यज्ञं महाबाहुर आ समाप्तेर जनार्दनः ररक्ष भगवाञ शौरिः शार्ङ्गचक्रगदाधरः ॥ 34 ॥
ततस तव अवभृथ सनातं धर्मराजं युधिष्ठिरम समस्तं पार्थिवं कषत्रम अभिगम्येदम अब्रवीत ॥ 35 ॥
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं पराप्तवान विभॊ आजमीढाजमीढानां यशॊ संवर्धितं तवया कर्मणैतेन राजेन्द्र धर्मश च सुमहान कृतः ॥ 36 ॥
आपृच्छामॊ नरव्याघ्र सर्वकामैः सुपूजिताः सवराष्ट्राणि गमिष्यामस तदनुज्ञातुम अर्हसि ॥ 37 ॥
शरुत्वा तु वचनं राज्ञां धर्मराजॊ युधिष्ठिरः यथार्हं पूज्य नृपतीन भरातॄन सर्वान उवाच ह ॥ 38 ॥
राजानः सर्व एवैते परीत्यास्मान समुपागताः परस्थिताः सवानि राष्ट्राणि माम आपृच्छ्य परंतपाः ते ऽनुव्रजत भद्रं ते विषयान्तं नृपॊत्तमान ॥ 39 ॥
भरातुर वचनम आज्ञाय पाण्डवा धर्मचारिणः यथार्हं नृप मुख्यांस तान एकैकं समनुव्रजन ॥ 40 ॥
विराटम अन्वयात तूर्णं धृष्टद्युम्नः परतापवान धनंजयॊ यज्ञसेनं महात्मानं महारथः ॥ 41 ॥
भीष्मं च धृतराष्ट्रं च भीमसेनॊ महाबलः दरॊणं च स सुतं वीरं सहदेवॊ महारथः ॥ 42 ॥
नकुलः सुबलं राजन सह पुत्रं समन्वयात दरौपदेयाः स सौभौद्राः पार्वतीयान महीपतीन ॥ 43 ॥
अन्वगच्छंस तथैवान्यान कषत्रियान कषत्रियर्षभाः एवं संपूजितास ते वै जग्मुर विप्राश च सर्वशः ॥ 44 ॥
गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ युधिष्ठिरम उवाचेदं वासुदेवः परतापवान ॥ 45 ॥
आपृच्छे तवां गमिष्यामि दवारकां कुरुनन्दन राजसूयं करतुश्रेष्ठं दिष्ट्या तवं पराप्तवान असि ॥ 46 ॥
तम उवाचैवम उक्तस तु धर्मराण मधुसूदनम तव परसादाद गॊविन्द पराप्तवान अस्मि वै करतुम ॥ 47 ॥
समस्तं पार्थिवं कषत्रं तवत्प्रसादाद वशानुगम उपादाय बलिं मुख्यं माम एव समुपस्थितम ॥ 48 ॥
न वयं तवाम ऋते वीर रंस्यामेह कथं चन अवश्यं चापि गन्तव्या तवया दवारवती पुरी ॥ 49 ॥
एवम उक्तः स धर्मात्मा युधिष्ठिर सहायवान अभिगम्याब्रवीत परीतः पृथां पृथु यशा हरिः ॥ 50 ॥
साम्राज्यं समनुप्राप्ताः पुत्रास ते ऽदय पितृष्वसः सिद्धार्था वसुमन्तश च सा तवं परीतिम इवाप्नुहि ॥ 51 ॥
अनुज्ञातस तवया चाहं दवारकां गन्तुम उत्सहे सुभद्रां दरौपदीं चैव सभाजयत केशवः ॥ 52 ॥
निष्क्रम्यान्तःपुराच चैव युधिष्ठिर सहायवान सनातश च कृतजप्यश च बराह्मणान सवस्ति वाच्य च ॥ 53 ॥
ततॊ मेघवरप्रख्यं सयन्दनं वै सुकल्पितम यॊजयित्वा महाराज दारुकः परत्युपस्थितः ॥ 54 ॥
उपस्थितं रथं दृष्ट्वा तार्क्ष्य परवर केतनम परदक्षिणम उपावृत्य समारुह्य महामनाः परययौ पुण्डरीकाक्षस ततॊ दवारवतीं पुरीम ॥ 55 ॥
तं पद्भ्याम अनुवव्राज धर्मराजॊ युधिष्ठिरः भरातृभिः सहितः शरीमान वासुदेवं महाबलम ॥ 56 ॥
ततॊ मुहूर्तं संगृह्य सयन्दनप्रवरं हरिः अब्रवीत पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम ॥ 57 ॥
अप्रमत्तः सथितॊ नित्यं परजाः पाहि विशां पते पर्जन्यम इव भूतानि महाद्रुमम इवाण्डजाः बान्धवास तवॊपजीवन्तु सहस्राक्षम इवामराः ॥ 58 ॥
कृत्वा परस्परेणैव संविदं कृष्ण पाण्डवौ अन्यॊन्यं समनुज्ञाप्य जग्मतुः सवगृहान परति ॥ 59 ॥
गते दवारवतीं कृष्णे सात्वत परवरे नृप एकॊ दुर्यॊधनॊ राजा शकुनिश चापि सौबलः तस्यां सभायां दिव्यायाम ऊषतुस तौ नरर्षभौ ॥ 60 ॥
सभापर्व · Sabha Parva
अध्याय 42
Reach this point to mark the section finished.
Continue to अध्याय 43