[भ] चेदिराजकुले जातस तर्यक्ष एष चतुर्भुजः रासभाराव सदृशं रुराव च ननाद च ॥ 1 ॥
तेनास्य माता पितरौ तरेसतुस तौ स बान्धवौ वैकृतं तच च तौ दृष्ट्वा तयागाय कुरुतां मतिम ॥ 2 ॥
ततः सभार्यं नृपतिं सामात्यं सपुरॊहितम चिन्ता संमूढहृदयं वाग उवाचाशरीरिणी ॥ 3 ॥
एष ते नृपते पुत्रः शरीमाञ जातॊ महाबलः तस्माद अस्मान न भेतव्यम अव्यग्रः पाहि वै शिशुम ॥ 4 ॥
न चैवैतस्य मृत्युस तवं न कालः परत्युपस्थितः मृत्युर हन्तास्य शस्त्रेण स चॊत्पन्नॊ नराधिप ॥ 5 ॥
संश्रुत्यॊदाहृतं वाक्यं भूतम अन्तर्हितं ततः पुत्रस्नेहाभिसंतप्ता जननी वाक्यम अब्रवीत ॥ 6 ॥
येनेदम ईरितं वाक्यं ममैव तनयं परति पराञ्जलिस तं नमस्यामि बरवीतु स पुनर वचः ॥ 7 ॥
शरॊतुम इच्छामि पुत्रस्य कॊ ऽसय मृत्युर भविष्यति अन्तर्हितं ततॊ भूतम उवाचेदं पुनर वचः ॥ 8 ॥
येनॊत्सङ्गे गृहीतस्य भुजाव अभ्यधिकाव उभौ पतिष्यतः कषितितले पञ्चशीर्षाव इवॊरगौ ॥ 9 ॥
तृतीयम एतद बालस्य ललाटस्थं च लॊचनम निमज्जिष्यति यं दृष्ट्वा सॊ ऽसय मृत्युर भविष्यति ॥ 10 ॥
तर्यक्षं चतुर्भुजं शरुत्वा तथा च समुदाहृतम धरण्यां पार्थिवाः सर्वे अभ्यगच्छन दिदृक्षवः ॥ 11 ॥
तान पूजयित्वा संप्राप्तान यथार्हं स महीपतिः एकैकस्य नृपस्याङ्के पुत्रम आरॊपयत तदा ॥ 12 ॥
एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम शिशुर अङ्के समारूढॊ न तत पराप निदर्शनम ॥ 13 ॥
ततश चेदिपुरं पराप्तौ संकर्षण जनार्दनौ यादवौ यादवीं दरस्तुं सवसारं तां पितुस तदा ॥ 14 ॥
अभिवाद्य यथान्यायं यथा जयेष्ठं नृपांश च तान कुशलानामयं पृष्ट्वा निषण्णौ राम केशवौ ॥ 15 ॥
अभ्यर्चितौ तदा वीरौ परीत्या चाभ्यधिकं ततः पुत्रं दामॊदरॊत्सङ्गे देवी संन्यदधात सवयम ॥ 16 ॥
नयस्तमात्रस्य तस्याङ्के भुजाव अभ्यधिकाव उभौ पेततुस तच च नयनं निममज्ज ललाटजम ॥ 17 ॥
तद दृष्ट्वा वयथिता तरस्ता वरं कृष्णम अयाचत ददस्व मे वरं कृष्ण भयार्ताय महाभुज ॥ 18 ॥
तवं हय आर्तानां समाश्वासॊ भीतानाम अभयंकरः पितृस्वसारं मा भैषीर इत्य उवाच जनार्दनः ॥ 19 ॥
ददानि कं वरं किं वा करवाणि पितृस्वसः शक्यं वा यदि वाशक्यं करिष्यामि वचस तव ॥ 20 ॥
एवम उक्ता ततः कृष्णम अब्रवीद यदुनन्दनम शिशुपालस्यापराधान कषमेथास तवं महाबल ॥ 21 ॥
[क] अपराधशतं कषाम्यं मया हय अस्य पितृष्वसः पुत्रस्य ते वधार्हाणां मा तवं शॊके मनः कृथाः ॥ 22 ॥
[भस] एवम एष नृपः पापः शिशुपालः सुमन्दधीः तवां समाह्वयते वीर गॊविन्द वरदर्पितः ॥ 23 ॥
सभापर्व · Sabha Parva
अध्याय 40
Reach this point to mark the section finished.
Continue to अध्याय 41