धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 39

  1. [षिषु] स मे बहुमतॊ राजा जरासंधॊ महाबलः यॊ ऽनेन युद्धं नेयेष दासॊ ऽयम इति संयुगे ॥ 1 ॥

  2. केशवेन कृतं यत तु जरासंध वधे तदा भीमसेनार्जुनाभ्यां च कस तत साध्व इति मन्यते ॥ 2 ॥

  3. अद्वारेण परविष्टेन छद्मना बरह्मवादिना दृष्टः परभावः कृष्णेन जरासंधस्य धीमतः ॥ 3 ॥

  4. येन धर्मात्मनात्मानं बरह्मण्यम अभिजानता नैषितं पाद्यम अस्मै तद दातुम अग्रे दुरात्मने ॥ 4 ॥

  5. भुज्यताम इति तेनॊक्ताः कृष्ण भीम धनंजयाः जरासंधेन कौरव्य कृष्णेन विकृतं कृतम ॥ 5 ॥

  6. यद्य अयं जगतः कर्ता यथैनं मूर्ख मन्यसे कस्मान न बराह्मणं सम्यग आत्मानम अवगच्छति ॥ 6 ॥

  7. इदं तव आश्चर्यभूतं मे यद इमे पाण्डवास तवया अपकृष्टाः सतां मार्गान मन्यन्ते तच च साध्व इति ॥ 7 ॥

  8. अथ वा नैतद आश्चर्यं येषां तवम असि भारत सत्री सधर्मा च वृद्धश च सर्वार्थानां परदर्शकः ॥ 8 ॥

  9. [व] तस्य तद वचनं शरुत्वा रूक्षं रूक्षाक्षरं बहु चुकॊप बलिनां शरेष्ठॊ भीमसेनः परतापवान ॥ 9 ॥

  10. तस्य पद्मप्रतीकाशे सवभावायत विस्तृते भूयॊ करॊधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः ॥ 10 ॥

  11. तरिशिखां भरुकुटीं चास्य ददृशुः सर्वपार्थिवाः ललाटस्थां तरिकूटस्थां गङ्गां तरिपथगाम इव ॥ 11 ॥

  12. दन्तान संदशतस तस्य कॊपाद ददृशुर आननम युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ॥ 12 ॥

  13. उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम भीष्म एव महाबाहुर महासेनम इवेश्वरः ॥ 13 ॥

  14. तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत गुरुणा विविधैर वाक्यैः करॊधः परशमम आगतः ॥ 14 ॥

  15. नातिचक्राम भीष्मस्य स हि वाक्यम अरिंदमः समुद्धूतॊ घनापाये वेलाम इव महॊदधिः ॥ 15 ॥

  16. शिशुपालस तु संक्रुद्धे भीमसेने नराधिप नाकम्पत तदा वीरः पौरुषे सवे वयवस्थितः ॥ 16 ॥

  17. उत्पतन्तं तु वेगेन पुनः पुनर अरिंदमः न स तं चिन्तयाम आस सिंहः कषुद्रमृगं यथा ॥ 17 ॥

  18. परहसंश चाब्रवीद वाक्यं चेदिराजः परतापवान भीमसेनम अतिक्रुद्धं दृष्ट्वा भीमपराक्रमम ॥ 18 ॥

  19. मुञ्चैनं भीष्म पश्यन्तु यावद एनं नराधिपाः मत परतापाग्निनिर्दग्धं पतंगम इव वह्निना ॥ 19 ॥

  20. ततश चेदिपतेर वाक्यं तच छरुत्वा कुरुसत्तमः भीमसेनम उवाचेदं भीष्मॊ मतिमतां वरः ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 40

Previous: अध्याय 38