धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 4

  1. [व] ततः परवेशनं चक्रे तस्यां राजा युधिष्ठिरः अयुतं भॊजयाम आस बराह्मणानां नराधिपः ॥ 1 ॥

  2. घृतपायसेन मधुना भक्ष्यैर मूलफलैस तथा अहतैश चैव वासॊभिर माल्यैर उच्चावचैर अपि ॥ 2 ॥

  3. ददौ तेभ्यः सहस्राणि गवां परत्येकशः परभुः पुण्याहघॊषस तत्रासीद दिवस्पृग इव भारत ॥ 3 ॥

  4. वादित्रैर विविधैर गीतैर गन्धैर उच्चावचैर अपि पूजयित्वा कुरुश्रेष्ठॊ दैवतानि निवेश्य च ॥ 4 ॥

  5. तत्र मल्ला नटा झल्लाः सूता वैतालिकास तथा उपतस्थुर महात्मानं सप्तरात्रं युधिष्ठिरम ॥ 5 ॥

  6. तथा स कृत्वा पूजां तां भरातृभिः सह पाण्डवः तस्यां सभायां रम्यायां रेमे शक्रॊ यथा दिवि ॥ 6 ॥

  7. सभायाम ऋषयस तस्यां पाण्डवैः सह आसते आसां चक्रुर नरेन्द्राश च नानादेशसमागताः ॥ 7 ॥

  8. असितॊ देवलः सत्यः सर्पमाली महाशिराः अर्वावसुः सुमित्रश च मैत्रेयः शुनकॊ बलिः ॥ 8 ॥

  9. बकॊ दाल्भ्यः सथूलशिराः कृष्णद्वैपायनः शुकः सुमन्तुर जैमिनिः पैलॊ वयास शिष्यास तथा वयम ॥ 9 ॥

  10. तित्तिरिर याज्ञवल्क्यश च ससुतॊ लॊमहर्षणः अप्सु हॊम्यश च धौम्यश च आणी माण्डव्य कौशिकौ ॥ 10 ॥

  11. दामॊष्णीषस तरैवणिश च पर्णादॊ घटजानुकः मौञ्जायनॊ वायुभक्षः पाराशर्यश च सारिकौ ॥ 11 ॥

  12. बलवाकः शिनी वाकः सत्यपालः कृतश्रमः जातू कर्णः शिखावांश च सुबलः पारिजातकः ॥ 12 ॥

  13. पर्वतश च महाभागॊ मार्कण्डेयस तथा मुनिः पवित्रपाणिः सावर्णिर भालुकिर गालवस तथा ॥ 13 ॥

  14. जङ्घा बन्धुश च रैभ्यश च कॊपवेगश्रवा भृगुः हरि बभ्रुश च कौण्डिन्यॊ बभ्रु माली सनातनः ॥ 14 ॥

  15. कक्षीवान औशिजश चैव नाचिकेतॊ ऽथ गौतमः पैङ्गॊ वराहः शुनकः शाण्डिल्यश च महातपाः कर्करॊ वेणुजङ्घश च कलापः कठ एव च ॥ 15 ॥

  16. मुनयॊ धर्मसहिता धृतात्मानॊ जितेन्द्रियाः एते चान्ये च बहवॊ वेदवेदाङ्गपारगाः ॥ 16 ॥

  17. उपासते महात्मानं सभायाम ऋषिसत्तमाः कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयॊ ऽमलाः ॥ 17 ॥

  18. तथैव कषत्रिय शरेष्ठा धर्मराजम उपासते शरीमान महात्मा धर्मात्मा मुञ्ज केतुर विवर्धनः ॥ 18 ॥

  19. संग्रामजिद दुर्मुखश च उग्रसेनश च वीर्यवान कक्षसेनः कषितिपतिः कषेमकश चापराजितः काम्बॊजराजः कमलः कम्पनश च महाबलः ॥ 19 ॥

  20. सततं कम्पयाम आस यवनान एक एव यः यथासुरान कालकेयान देवॊ वज्रधरस तथा ॥ 20 ॥

  21. जटासुरॊ मद्रकान्तश च राजा; कुन्तिः कुणिन्दश च किरात राजः तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्यॊड्र राजौ सह चान्ध्रकेण ॥ 21 ॥

  22. किरात राजः सुमना यवनाधिपतिस तथा चाणूरॊ देवरातश च भॊजॊ भीम रथश च यः ॥ 22 ॥

  23. शरुतायुधश च कालिङ्गॊ जयत्सेनश च मागधः सुशर्मा चेकितानश च सुरथॊ ऽमित्रकर्षणः ॥ 23 ॥

  24. केतुमान वसु दानश च वैदेहॊ ऽथ कृतक्षणः सुधर्मा चानिरुद्धश च शरुतायुश च महाबलः ॥ 24 ॥

  25. अनूप राजॊ दुर्धर्षः कषेमजिच च सुदक्षिणः शिशुपालः सहसुतः करूषाधिपतिस तथा ॥ 25 ॥

  26. वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः आहुकॊ वि पृथुश चैव गदः सारण एव च ॥ 26 ॥

  27. अक्रूरः कृतवर्मा च सात्यकिश च शिनेः सुतः भीष्मकॊ ऽथाहृतिश चैव दयुमत सेनश च वीर्यवान केकयाश च महेष्वासा यज्ञसेनश च सौमकिः ॥ 27 ॥

  28. अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः ॥ 28 ॥

  29. तत्रैव शिक्षिता राजन कुमारा वृष्णिनन्दनाः रौक्मिणेयश च साम्बश च युयुधानश च सात्यकिः ॥ 29 ॥

  30. एते चान्ये च बहवॊ राजानः पृथिवीपते धनंजय सखा चात्र नित्यम आस्ते सम तुम्बुरुः ॥ 30 ॥

  31. चित्रसेनः सहामात्यॊ गन्धर्वाप्सरसस तथा गीतवादित्रकुशलाः शम्या तालविशारदाः ॥ 31 ॥

  32. परमाणे ऽथ लयस्थाने किंनराः कृतनिश्रमाः संचॊदितास तुम्बुरुणा गन्धर्वाः सहिता जगुः ॥ 32 ॥

  33. गायन्ति दिव्यतानैस ते यथान्यायं मनस्विनः पाण्डुपुत्रान ऋषींश चैव रमयन्त उपासते ॥ 33 ॥

  34. तस्यां सभायाम आसीनाः सुव्रताः सत्यसंगराः दिवीव देवा बरह्माणं युधिष्ठिरम उपासते ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 5

Previous: अध्याय 3