[व] अथाब्रवीन मयः पार्थम अर्जुनं जयतां वरम आपृच्छे तवां गमिष्यामि कषिप्रम एष्यामि चाप्य अहम ॥ 1 ॥
उत्तरेण तु कैलासं मैनाकं पर्वतं परति यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः परति ॥ 2 ॥
सभायां सत्यसंधस्य यद आसीद वृषपर्वणः आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत ॥ 3 ॥
ततः सभां करिष्यामि पाण्डवाय यशॊ विने मनः परह्लादिनीं चित्रां सर्वरत्र विभूषिताम ॥ 4 ॥
अस्ति बिन्दुसरस्य एव गदा शरेष्ठा कुरूद्वह निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून सुवर्णबिन्दुभिश चित्रा गुर्वी भारसहा दृढा ॥ 5 ॥
सा वै शतसहस्रस्य संमिता सर्वघातिनी अनुरूपा च भीमस्य गाण्डीवं भवतॊ यथा ॥ 6 ॥
वारुणश च महाशङ्खॊ देवदत्तः सुघॊषवान सर्वम एतत परदास्यामि भवते नात्र संशयः इत्य उक्त्वा सॊ ऽसुरः पार्थं पराग उदीचीम अगाद दिशम ॥ 7 ॥
उत्तरेण तु कैलासं मैनाकं पर्वतं परति हिरण्यशृङ्गॊ भगवान महामणिमयॊ गिरिः ॥ 8 ॥
रम्यं बिन्दुसरॊ नाम यत्र राजा भगीरथः दृष्ट्वा भागीरथीं गङ्गाम उवास बहुलाः समाः ॥ 9 ॥
यत्रेष्ट्वा सर्वभूतानाम ईश्वरेण महात्मना आहृताः करतवॊ मुख्याः शतं भरतसत्तम ॥ 10 ॥
यत्र यूपा मणिमयाश चित्याश चापि हिरन मयाः शॊभार्थं विहितास तत्र न तु दृष्टान्ततः कृताः ॥ 11 ॥
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः यत्र भूतपतिः सृष्ट्वा सर्वलॊकान सनातनः उपास्यते तिग्मतेजा वृतॊ भूतैः सहस्रशः ॥ 12 ॥
नरनारायणौ बरह्मा यमः सथाणुश च पञ्चमः उपासते यत्र सत्रं सहस्रयुगपर्यये ॥ 13 ॥
यत्रेष्टं वासुदेवेन सर्वैर वर्षसहस्रकैः शरद्दधानेन सततं शिष्टसंप्रतिपत्तये ॥ 14 ॥
सुवर्णमालिनॊ यूपाश चित्याश चाप्य अति भास्वराः ददौ यत्र सहस्राणि परयुतानि च केशवः ॥ 15 ॥
तत्र गत्वा स जग्राह गदां शङ्खं च भारत सफाटिकं च सभा दरव्यं यद आसीद वृषपर्वणः किंकरैः सह रक्षॊभिर अगृह्णात सर्वम एव तत ॥ 16 ॥
तद आहृत्य तु तां चक्रे सॊ ऽसुरॊ ऽपरतिमां सभाम विश्रुतां तरिषु लॊकेषु दिव्यां मणिमयीं शुभाम ॥ 17 ॥
गदां च भीमसेनाय परवरां परददौ तदा देवदत्तं च पार्थाय ददौ शङ्खम अनुत्तमम ॥ 18 ॥
सभा तु सा महाराज शातकुम्भमय दरुमा दश किष्कु सहस्राणि समन्ताद आयताभवत ॥ 19 ॥
यथा वह्नेर यथार्कस्य सॊमस्य च यथैव सा भराजमाना तथा दिव्या बभार परमं वपुः ॥ 20 ॥
परतिघ्नतीव परभया परभाम अर्कस्य भास्वराम परबभौ जवलमानेव दिव्या दिव्येन वर्चसा ॥ 21 ॥
नगमेघप्रतीकाशा दिवम आवृत्य विष्ठिता आयता विपुला शलक्ष्णा विपाप्मा विगतक्लमा ॥ 22 ॥
उत्तमद्रव्यसंपन्ना मणिप्राकारमालिनी बहुरत्ना बहुधना सुकृता विश्वकर्मणा ॥ 23 ॥
न दाशार्ही सुधर्मा वा बरह्मणॊ वापि तादृशी आसीद रूपेण संपन्ना यां चक्रे ऽपरतिमां मयः ॥ 24 ॥
तां सम तत्र मयेनॊक्ता रक्षन्ति च वहन्ति च सभाम अष्टौ सहस्राणि किंकरा नाम राक्षसाः ॥ 25 ॥
अन्तरिक्षचरा घॊरा महाकाया महाबलाः रक्ताक्षाः पिङ्गलाक्षाश च शुक्तिकर्णाः परहारिणः ॥ 26 ॥
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः वैडूर्य पत्रविततां मणिनाल मयाम्बुजाम ॥ 27 ॥
पद्मसौगन्धिक वतीं नानाद्विज गणायुताम पुष्पितैः पङ्कजैश चित्रां कूर्ममत्स्यैश च शॊभिताम ॥ 28 ॥
सूपतीर्थाम अकलुषां सर्वर्तुसलिलां शुभाम मारुतेनैव चॊद्धूतैर मुक्ता बिन्दुभिर आचिताम ॥ 29 ॥
मणिरत्नचितां तां तु के चिद अभ्येत्य पार्थिवाः दृष्ट्वापि नाभ्यजानन्त ते ऽजञानात परपतन्त्य उत ॥ 30 ॥
तां सभाम अभितॊ नित्यं पुष्पवन्तॊ महाद्रुमाः आसन नानाविधा नीलाः शीतच छाया मनॊरमाः ॥ 31 ॥
काननानि सुगन्धीनि पुष्करिण्यश च सर्वशः हंसकारण्डव युताश चक्रवाकॊपशॊभिताः ॥ 32 ॥
जलजानां च माल्यानां सथलजानां च सर्वशः मारुतॊ गन्धम आदाय पाण्डवान सम निषेवते ॥ 33 ॥
ईदृशीं तां सभां कृत्वा मासैः परि चतुर्दशैः निष्ठितां धर्मराजाय मयॊ राज्ञे नयवेदयत ॥ 34 ॥
सभापर्व · Sabha Parva
अध्याय 3
Reach this point to mark the section finished.
Continue to अध्याय 4