[व] ततॊ युधिष्ठिरॊ राजा शिशुपालम उपाद्रवत उवाच चैनं मधुरं सान्त्वपूर्वम इदं वचः ॥ 1 ॥
नेदं युक्तं महीपाल यादृशं वै तवम उक्तवान अधर्मश च परॊ राजन पारुष्यं च निरर्थकम ॥ 2 ॥
न हि धर्मं परं जातु नावबुध्येत पार्थिव भीष्मः शांतनवस तव एनं मावमंस्था अतॊ ऽनयथा ॥ 3 ॥
पश्य चेमान महीपालांस तवत्तॊ वृद्धतमान बहून मृष्यन्ते चार्हणां कृष्णे तद्वत तवं कषन्तुम अर्हसि ॥ 4 ॥
वेद तत्त्वेन कृष्णं हि भीष्मश चेदिपते भृशम न हय एनं तवं तथा वेत्थ यथैनं वेद कौरवः ॥ 5 ॥
[भस] नास्मा अनुनयॊ देयॊ नायम अर्हति सान्त्वनम लॊकवृद्धतमे कृष्णे यॊ ऽरहणां नानुमन्यते ॥ 6 ॥
कषत्रियः कषत्रियं जित्वा रणे रणकृतां वरः यॊ मुञ्चति वशे कृत्वा गुरुर भवति तस्य सः ॥ 7 ॥
अस्यां च समितौ राज्ञाम एकम अप्य अजितं युधि न पश्यामि महीपालं सात्वती पुत्र तेजसा ॥ 8 ॥
न हि केवलम अस्माकम अयम अर्च्यतमॊ ऽचयुतः तरयाणाम अपि लॊकानाम अर्चनीयॊ जनार्दनः ॥ 9 ॥
कृष्णेन हि जिता युद्धे बहवः कषत्रियर्षभाः जगत सर्वं च वार्ष्णेये निखिलेन परतिष्ठितम ॥ 10 ॥
तस्मात सत्स्व अपि वृद्धेषु कृष्णम अर्चाम नेतरान एवं वक्तुं न चार्हस तवं मा भूत ते बुद्धिर ईदृशी ॥ 11 ॥
जञानवृद्धा मया राजन बहवः पर्युपासिताः तेषां कथयतां शौरेर अहं गुणवतॊ गुणान समागतानाम अश्रौषं बहून बहुमतान सताम ॥ 12 ॥
कर्माण्य अपि च यान्य अस्य जन्मप्रभृति धीमतः बहुशः कथ्यमानानि नरैर भूयॊ शरुतानि मे ॥ 13 ॥
न केवलं वयं कामाच चेदिराजजनार्दनम न संबन्धं पुरस्कृत्य कृतार्थं वा कथं चन ॥ 14 ॥
अर्चामहे ऽरचितं सद्भिर भुवि भौम सुखावहम यशॊ शौचं जयं चास्य विज्ञायार्चां परयुज्महे ॥ 15 ॥
न हि कश चिद इहास्माभिः सुबालॊ ऽपय अपरीक्षितः गुणैर वृद्धान अतिक्रम्य हरिर अर्च्यतमॊ मतः ॥ 16 ॥
जञानवृद्धॊ दविजातीनां कषत्रियाणां बलाधिकः पूज्ये ताव इह गॊविन्दे हेतू दवाव अपि संस्थितौ ॥ 17 ॥
वेदवेदाङ्गविज्ञानं बलं चाप्य अमितं तथा नृणां हि लॊके कस्यास्ति विशिष्टं केशवाद ऋते ॥ 18 ॥
दानं दाक्ष्यं शरुतं शौर्यं हरीः कीर्तिर बुद्धिर उत्तमा संनतिः शरीर धृतिस तुष्टिः पुष्टिश च नियताच्युते ॥ 19 ॥
तम इमं सर्वसंपन्नम आचार्यं पितरं गुरुम अर्च्यम अर्चितम अर्चार्हं सर्वे संमन्तुम अर्थथ ॥ 20 ॥
ऋत्विग गुरुर विवाह्यश च सनातकॊ नृपतिः परियः सर्वम एतद धृषी केशे तस्माद अभ्यर्चितॊ ऽचयुतः ॥ 21 ॥
कृष्ण एव हि लॊकानाम उत्पत्तिर अपि चाप्ययः कृष्णस्य हि कृते भूतम इदं विश्वं समर्पितम ॥ 22 ॥
एष परकृतिर अव्यक्ता कर्ता चैव सनातनः परश च सर्वभूतेभ्यस तस्माद वृद्धतमॊ ऽचयुतः ॥ 23 ॥
बुद्धिर मनॊ महान वायुस तेजॊ ऽमभः खं मही च या चतुर्विधं च यद भूतं सर्वं कृष्णे परतिष्ठितम ॥ 24 ॥
आदित्यश चन्द्रमाश चैव नक्षत्राणि गरहाश च ये दिशश चॊपदिशश चैव सर्वं कृष्णे परतिष्ठितम ॥ 25 ॥
अयं तु पुरुषॊ बालः शिशुपालॊ न बुध्यते सर्वत्र सर्वदा कृष्णं तस्माद एवं परभाषते ॥ 26 ॥
यॊ हि धर्मं विचिनुयाद उत्कृष्टं मतिमान नरः स वै पश्येद यथा धर्मं न तथा चेदिराड अयम ॥ 27 ॥
स वृद्धबालेष्व अथ वा पार्थिवेषु महात्मसु कॊ नार्हं मन्यते कृष्णं कॊ वाप्य एनं न पूजयेत ॥ 28 ॥
अथेमां दुष्कृतां पूजां शिशुपालॊ वयवस्यति दुष्कृतायां यथान्यायं तथायं कर्तुम अर्हति ॥ 29 ॥
सभापर्व · Sabha Parva
अध्याय 35
Reach this point to mark the section finished.
Continue to अध्याय 36