[व] एवम उक्त्वा ततॊ भीष्मॊ विरराम महायशाः वयाजहारॊत्तरं तत्र सहदेवॊ ऽरथवद वचः ॥ 1 ॥
केशवं केशि हन्तारम अप्रमेयपराक्रमम पूज्यमानं मया यॊ वः कृष्णं न सहते नृपाः ॥ 2 ॥
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम एवम उक्ते मया सम्यग उत्तरं परब्रवीतु सः ॥ 3 ॥
मतिमन्तस तु ये के चिद आचार्यं पितरं गुरुम अर्च्यम अर्चितम अर्चार्हम अनुजानन्तु ते नृपाः ॥ 4 ॥
ततॊ न वयाजहारैषां कश चिद बुद्धिमतां सताम मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे ॥ 5 ॥
ततॊ ऽपतत पुष्पवृष्टिः सहदेवस्य मूर्धनि अदृश्य रूपा वाचश चाप्य अब्रुवन साधु साध्व इति ॥ 6 ॥
आविध्यद अजिनं कृष्णं भविष्यद भूतजल्पकः सर्वसंशय निर्मॊक्ता नारदः सर्वलॊकवित ॥ 7 ॥
तत्राहूतागताः सर्वे सुनीथ परमुखा गणाः संप्रादृश्यन्त संक्रुद्धा विवर्णवदनास तथा ॥ 8 ॥
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम अब्रुवंस तत्र राजानॊ निर्वेदाद आत्मनिश्चयात ॥ 9 ॥
सुहृद्भिर वार्यमाणानां तेषां हि वपुर आबभौ आमिषाद अपकृष्टानां सिंहानाम इव गर्जताम ॥ 10 ॥
तं बलौघम अपर्यन्तं राजसागरम अक्षयम कुर्वाणं समयं कृष्णॊ युद्धाय बुबुधे तदा ॥ 11 ॥
पूजयित्वा तु पूजार्हं बरह्मक्षत्रं विशेषतः सहदेवॊ नृणां देवः समापयत कर्म तत ॥ 12 ॥
तस्मिन्न अभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः अतिताम्रेक्षणः कॊपाद उवाच मनुजाधिपान ॥ 13 ॥
सथितः सेनापतिर वॊ ऽहं मन्यध्वं किं नु सांप्रतम युधि तिष्ठाम संनह्य समेतान वृष्णिपाण्डवान ॥ 14 ॥
इति सर्वान समुत्साह्य राज्ञस तांश चेदिपुंगवः यज्ञॊपघाताय ततः सॊ ऽमन्त्रयत राजभिः ॥ 15 ॥
सभापर्व · Sabha Parva
अध्याय 36
Reach this point to mark the section finished.
Continue to अध्याय 37