[ष] नायम अर्हति वार्ष्णेयस तिष्ठत्स्व इह महात्मसु महीपतिषु कौरव्य राजवत पार्थिवार्हणम ॥ 1 ॥
नायं युक्तः समाचारः पाण्डवेषु महात्मसु यत कामात पुण्डरीकाक्षं पाण्डवार्चितवान असि ॥ 2 ॥
बाला यूयं न जानीध्वं धर्मः सूक्ष्मॊ हि पाण्डवाः अयं तत्राभ्यतिक्रान्त आपगेयॊ ऽलपदर्शनः ॥ 3 ॥
तवादृशॊ धर्मयुक्तॊ हि कुर्वाणः परियकाम्यया भवत्य अभ्यधिकं भीष्मॊ लॊकेष्व अवमतः सताम ॥ 4 ॥
कथं हय अराजा दाशार्हॊ मध्ये सर्वमहीक्षिताम अर्हणाम अर्हति तथा यथा युष्माभिर अर्चितः ॥ 5 ॥
अथ वा मन्यसे कृष्णं सथविरं भरतर्षभ वसुदेवे सथिते वृद्धे कथम अर्हति तत सुतः ॥ 6 ॥
अथ वा वासुदेवॊ ऽपि परियकामॊ ऽनुवृत्तवान दरुपदे तिष्ठति कथं माधवॊ ऽरहति पूजनम ॥ 7 ॥
आचार्यं मन्यसे कृष्णम अथ वा कुरुपुंगव दरॊणे तिष्ठति वार्ष्णेयं कस्माद अर्चितवान असि ॥ 8 ॥
ऋत्विजं मन्यसे कृष्णम अथ वा कुरुनन्दन दवैपायने सथिते विप्रे कथं कृष्णॊ ऽरचितस तवया ॥ 9 ॥
नैव ऋत्विन न चाचार्यॊ न राजा मधुसूदनः अर्चितश च कुरुश्रेष्ठ किम अन्यत परियकाम्यया ॥ 10 ॥
अथ वाप्य अर्चनीयॊ ऽयं युष्माकं मधुसूदनः किं राजभिर इहानीतैर अवमानाय भारत ॥ 11 ॥
वयं तु न भयाद अस्य कौन्तेयस्य महात्मनः परयच्छामः करान सर्वे न लॊभान न च सान्त्वनात ॥ 12 ॥
अस्य धर्मप्रवृत्तस्य पार्थिव तवं चिकीर्षतः करान अस्मै परयच्छामः सॊ ऽयम अस्मान न मन्यते ॥ 13 ॥
किम अन्यद अवमानाद धि यद इमं राजसंसदि अप्राप्तलक्षणं कृष्णम अर्घ्येणार्चितवान असि ॥ 14 ॥
अकस्माद धर्मपुत्रस्य धर्मात्मेति यशॊ गतम कॊ हि धर्मच्युते पूजाम एवं युक्तां परयॊजयेत यॊ ऽयं वृष्णिकुले जातॊ राजानं हतवान पुरा ॥ 15 ॥
अद्य धर्मात्मता चैव वयपकृष्टा युधिष्ठिरात कृपणत्वं निविष्टं च कृष्णे ऽरघ्यस्य निवेदनात ॥ 16 ॥
यदि भीताश च कौन्तेयाः कृपणाश च तपस्विनः ननु तवयापि बॊद्धव्यं यां पूजां माधवॊ ऽरहति ॥ 17 ॥
अथ वा कृपणैर एताम उपनीतां जनार्दन पूजाम अनर्हः कस्मात तवम अभ्यनुज्ञातवान असि ॥ 18 ॥
अयुक्ताम आत्मनः पूजां तवं पुनर बहु मन्यसे हविषः पराप्य निष्यन्दं पराशितुं शवेव निर्जने ॥ 19 ॥
न तव अयं पार्थिवेन्द्राणाम अवमानः परयुज्यते तवाम एव कुरवॊ वयक्तं परलम्भन्ते जनार्दन ॥ 20 ॥
कलीबे दारक्रिया यादृग अन्धे वा रूपदर्शनम अराज्ञॊ राजवत पूजा तथा ते मधुसूदन ॥ 21 ॥
दृष्टॊ युधिष्ठिरॊ राजा दृष्टॊ भीष्मश च यादृशः वासुदेवॊ ऽपय अयं दृष्टः सर्वम एतद यथातथम ॥ 22 ॥
इत्य उक्त्वा शिशुपालस तान उत्थाय परमासनात निर्ययौ सदसस तस्मात सहितॊ राजभिस तदा ॥ 23 ॥
सभापर्व · Sabha Parva
अध्याय 34
Reach this point to mark the section finished.
Continue to अध्याय 35