धर्मDharmic Data

सभापर्व · Sabha Parva

अध्याय 33

  1. [व] ततॊ ऽभिषेचनीये ऽहनि बराह्मणा राजभिः सह अन्तर वेदीं परविविशुः सत्कारार्थं महर्षयः ॥ 1 ॥

  2. नारदप्रमुखास तस्याम अन्तर वेद्यां महात्मनः समासीनाः शुशुभिरे सह राजर्षिभिस तदा ॥ 2 ॥

  3. समेता बरह्मभवने देवा देवर्षयॊ यथा कर्मान्तरम उपासन्तॊ जजल्पुर अमितौजसः ॥ 3 ॥

  4. इदम एवं न चाप्य एवम एवम एतन न चान्यथा इत्य ऊचुर बहवस तत्र वितण्डानाः परस्परम ॥ 4 ॥

  5. कृशान अर्थांस तथा के चिद अकृशांस तत्र कुर्वते अकृशांश च कृशांश चक्रुर हेतुभिः शास्त्रनिश्चितैः ॥ 5 ॥

  6. तत्र मेधाविनः के चिद अर्थम अन्यैः परपूरितम विचिक्षिपुर यथा शयेना नभॊगतम इवामिषम ॥ 6 ॥

  7. के चिद धर्मार्थसंयुक्ताः कथास तत्र महाव्रताः रेमिरे कथयन्तश च सर्ववेदविदां वराः ॥ 7 ॥

  8. सा वेदिर वेदसंपन्नैर देवद्विज महर्षिभिः आबभासे समाकीर्णा नक्षत्रैर दयौर इवामला ॥ 8 ॥

  9. न तस्यां समिधौ शूद्रः कश चिद आसीन न चाव्रतः अन्तर वेद्यां तदा राजन युधिष्ठिर निवेशने ॥ 9 ॥

  10. तां तु लक्ष्मीवतॊ लक्ष्मीं तदा यज्ञविधानजाम तुतॊष नारदः पश्यन धर्मराजस्य धीमतः ॥ 10 ॥

  11. अथ चिन्तां समापेदे स मुनिर मनुजाधिप नारदस तं तदा पश्यन सर्वक्षत्रसमागमम ॥ 11 ॥

  12. सस्मार च पुरावृत्तां कथां तां भरतर्षभ अंशावतरणे यासौ बरह्मणॊ भवने ऽभवत ॥ 12 ॥

  13. देवानां संगमं तं तु विज्ञाय कुरुनन्दन नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम ॥ 13 ॥

  14. साक्षात स विबुधारिघ्नः कषत्रे नारायणॊ विभुः परतिज्ञां पालयन धीमाञ जातः परपुरंजयः ॥ 14 ॥

  15. संदिदेश पुरा यॊ ऽसौ विबुधान भूतकृत सवयम अन्यॊन्यम अभिनिघ्नन्तः पुनर लॊकान अवाप्स्यथ ॥ 15 ॥

  16. इति नारायणः शम्भुर भगवाञ जगतः परभुः आदिश्य विबुधान सर्वान अजायत यदुक्षये ॥ 16 ॥

  17. कषिताव अन्धकवृष्णीणां वंशे वंशभृतां वरः परया शुशुभे लक्ष्म्या नक्षत्राणाम इवॊडुराट ॥ 17 ॥

  18. यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते सॊ ऽयं मानुषवन नाम हरिर आस्ते ऽरिमर्दनः ॥ 18 ॥

  19. अहॊ बत महद भूतं सवयम्भूर यद इदं सवयम आदास्यति पुनः कषत्रम एवं बलसमन्वितम ॥ 19 ॥

  20. इत्य एतां नारदश चिन्तां चिन्तयाम आस धर्मवित हरिं नारायणं जञात्वा यज्ञैर ईड्यं तम ईश्वरम ॥ 20 ॥

  21. तस्मिन धर्मविदां शरेष्ठॊ धर्मराजस्य धीमतः महाध्वरे महाबुद्धिस तस्थौ स बहुमानतः ॥ 21 ॥

  22. ततॊ भीष्मॊ ऽबरवीद राजन धर्मराजं युधिष्ठिरम करियताम अर्हणं राज्ञां यथार्हम इति भारत ॥ 22 ॥

  23. आचार्यम ऋत्विजं चैव संयुक्तं च युधिष्ठिर सनातकं च परियं चाहुः षड अर्घ्यार्हान नृपं तथा ॥ 23 ॥

  24. एतान अर्हान अभिगतान आहुः संवत्सरॊषितान त इमे कालपूगस्य महतॊ ऽसमान उपागताः ॥ 24 ॥

  25. एषाम एकैकशॊ राजन्न अर्घ्यम आनीयताम इति अथ चैषां वरिष्ठाय समर्थायॊपनीयताम ॥ 25 ॥

  26. [य] कस्मै भवान मन्यते ऽरघम एकस्मै कुरुनन्दन उपनीयमानं युक्तं च तन मे बरूहि पितामह ॥ 26 ॥

  27. [व] ततॊ भीष्मः शांतनवॊ बुद्ध्या निश्चित्य भारत वार्ष्णेयं मन्यते कृष्णम अर्हणीयतमं भुवि ॥ 27 ॥

  28. एष हय एषां समेतानां तेजॊबलपराक्रमैः मध्ये तपन्न इवाभाति जयॊतिषाम इव भास्करः ॥ 28 ॥

  29. असूर्यम इव सूर्येण निवातम इव वायुना भासितं हलादितं चैव कृष्णेनेदं सदॊ हि नः ॥ 29 ॥

  30. तस्मै भीष्माभ्यनुज्ञातः सहदेवः परतापवान उपजह्रे ऽथ विधिवद वार्ष्णेयायार्घ्यम उत्तमम ॥ 30 ॥

  31. परतिजग्राह तत कृष्णः शास्र दृष्टेन कर्मणा शिशुपालस तु तां पूजां वासुदेवे न चक्षमे ॥ 31 ॥

  32. स उपालभ्य भीमं च धर्मराजं च संसदि अपाक्षिपद वासुदेवं चेदिराजॊ महाबलः ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 34

Previous: अध्याय 32