[व] पिता महं गुरुं चैव परत्युद्गम्य युधिष्ठिरः अभिवाद्य ततॊ राजन्न इदं वचनम अब्रवीत भीष्मं दरॊणं कृपं दरौणिं दुर्यॊधन विविंशती ॥ 1 ॥
अस्मिन यज्ञे भवन्तॊ माम अनुगृह्णन्तु सर्वशः इदं वः सवम अहं चैव यद इहास्ति धनं मम परीणयन्तु भवन्तॊ मां यथेष्टम अनियन्त्रिताः ॥ 2 ॥
एवम उक्त्वा स तान सर्वान दीक्षितः पाण्डवाग्रजः युयॊज ह यथायॊगम अधिकारेष्व अनन्तरम ॥ 3 ॥
भक्ष्यभॊज्याधिकारेषु दुःशासनम अयॊजयत परिग्रहे बराह्मणानाम अश्वत्थामानम उक्तवान ॥ 4 ॥
राज्ञां तु परतिपूजार्थं संजयं संन्ययॊजयत कृताकृत परिज्ञाने भीष्मद्रॊणौ महामती ॥ 5 ॥
हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे दक्षिणानां च वै दाने कृपं राजा नययॊजयत तथान्यान पुरुषव्याघ्रांस तस्मिंस तस्मिन नययॊजयत ॥ 6 ॥
बाह्लिकॊ धृतराष्ट्रश च सॊमदत्तॊ जयद्रथः नकुलेन समानीताः सवामिवत तत्र रेमिरे ॥ 7 ॥
कषत्ता वययकरस तव आसीद विदुरः सर्वधर्मवित दुर्यॊधनस तव अर्हणानि परतिजग्राह सर्वशः ॥ 8 ॥
सर्वलॊकः समावृत्तः पिप्रीषुः फलम उत्तमम दरष्टुकामः सभां चैव धर्मराजं च पाण्डवम ॥ 9 ॥
न कश चिद आहरत तत्र सहस्रावरम अर्हणम रत्नैश च बहुभिस तत्र धर्मराजम अवर्धयन ॥ 10 ॥
कथं नु मम कौरव्यॊ रत्नदानैः समाप्नुयात यज्ञम इत्य एव राजानः सपर्धमाना ददुर धनम ॥ 11 ॥
भवनैः सविमानाग्रैः सॊदर्कैर बलसंवृतैः लॊकराज विमानैश च बराह्मणावसथैः सह ॥ 12 ॥
कृतैर आवसथैर दिव्यैर विमानप्रतिमैस तथा विचित्रै रत्नवद्भिश च ऋद्ध्या परमया युतैः ॥ 13 ॥
राजभिश च समावृत्तैर अतीव शरीसमृद्धिभिः अशॊभत सदॊ राजन कौन्तेयस्य महात्मनः ॥ 14 ॥
ऋद्द्या च वरुणं देवं सपर्धमानॊ युधिष्ठिरः षड अग्निनाथ यज्ञेन सॊ ऽयजद दक्षिणावता सर्वाञ जनान सर्वकामैः समृद्धैर समतर्पयत ॥ 15 ॥
अन्नवान बहुभक्ष्यश च भुक्तवज जनसंवृतः रत्नॊपहार कर्मण्यॊ बभूव स समागमः ॥ 16 ॥
इडाज्य हॊमाहुतिभिर मन्त्रशिक्षा समन्वितैः तस्मिन हि ततृपुर देवास तते यज्ञे महर्षिभिः ॥ 17 ॥
यथा देवास तथा विप्रा दक्षिणान्न महाधनैः ततृपुः सर्ववर्णाश च तस्मिन यज्ञे मुदान्विताः ॥ 18 ॥
सभापर्व · Sabha Parva
अध्याय 32
Reach this point to mark the section finished.
Continue to अध्याय 33