[व] स गत्वा हास्तिनपुरं नकुलः समितिंजयः भीष्मम आमन्त्रयाम आस धृतराष्ट्रं च पाण्डवः ॥ 1 ॥
परययुः परीतमनसॊ यज्ञं बरह्म पुरःसराः संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस तदा ॥ 2 ॥
अन्ये च शतशस तुष्टैर मनॊभिर मनुजर्षभ दरष्टुकामाः सभां चैव धर्मराजं च पाण्डवम ॥ 3 ॥
दिग्भ्यः सर्वे समापेतुः पार्थिवास तत्र भारत समुपादाय रत्नानि विविधानि महान्ति च ॥ 4 ॥
धृतराष्ट्रश च भीष्मश च विदुरश च महामतिः दुर्यॊधन पुरॊगाश च भरातरः सर्व एव ते ॥ 5 ॥
सत्कृत्यामन्त्रिताः सर्वे आचार्य परमुखा नृपाः गान्धारराजः सुबलः शकुनिश च महाबलः ॥ 6 ॥
अचलॊ वृषकश चैव कर्णश च रथिनां वरः ऋतः शल्यॊ मद्रराजॊ बाह्लिकश च महारथः ॥ 7 ॥
सॊमदत्तॊ ऽथ कौरव्यॊ भूरिर भूरिश्रवाः शलः अश्वत्थामा कृपॊ दरॊणः सैन्धवश च जयद्रथः ॥ 8 ॥
यज्ञसेनः सपुत्रश च शाल्वश च वसुधाधिपः पराग्ज्यॊतिषश च नृपतिर भगदत्तॊ महायशाः ॥ 9 ॥
सह सर्वैस तथा मलेच्छैः सागरानूपवासिभिः पार्वतीयाश च राजानॊ राजा चैव बृहद्बलः ॥ 10 ॥
पौण्ड्रकॊ वासुदेवश च वङ्गः कालिङ्गकस तथा आकर्षः कुन्तलश चैव वानवास्यान्ध्रकास तथा ॥ 11 ॥
दरविडाः सिंहलाश चैव राजा काश्मीरकस तथा कुन्तिभॊजॊ महातेजाः सुह्मश च सुमहाबलः ॥ 12 ॥
बाह्लिकाश चापरे शूरा राजानः सर्व एव ते विराटः सह पुत्रैश च माचेल्लश च महारथः राजानॊ राजपुत्राश च नानाजनपदेश्वराः ॥ 13 ॥
शिशुपालॊ महावीर्यः सह पुत्रेण भारत आगच्छत पाण्डवेयस्य यज्ञं संग्रामदुर्मदः ॥ 14 ॥
रामश चैवानिरुद्धश च बभ्रुश च सहसा रणः गद परद्युम्न साम्बाश च चारु देष्णश च वीर्यवान ॥ 15 ॥
उल्मुकॊ निशठश चैव वीरः पराद्युम्निर एव च वृष्णयॊ निखिलेनान्ये समाजग्मुर महारथाः ॥ 16 ॥
एते चान्ये च बहवॊ राजानॊ मध्यदेशजाः आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम ॥ 17 ॥
ददुस तेषाम आवसथान धर्मराजस्य शासनात बहु कक्ष्यान्वितान राजन दीर्घिका वृक्षशॊभितान ॥ 18 ॥
तथा धर्मात्मजस तेषां चक्रे पूजाम अनुत्तमाम सत्कृताश च यथॊद्दिष्टाञ जग्मुर आवसथान नृपाः ॥ 19 ॥
कैलासशिखरप्रख्यान मनॊज्ञान दरव्यभूषितान सर्वतः संवृतान उच्चैः पराकारैः सुकृतैः सितैः ॥ 20 ॥
सुवर्णजालसंवीतान मणिकुट्टिम शॊभितान सुखारॊहण सॊपानान महासनपरिच्छदान ॥ 21 ॥
सरग्दाम समवछन्नान उत्तमागुरु गन्धिनः हंसांशु वर्णसदृशान आयॊजनसुदर्शनान ॥ 22 ॥
असंबाधान समद्वारान युतान उच्चावचैर गुणैः बहुधातुपिनद्धाङ्गान हिमवच्छिखरान इव ॥ 23 ॥
विश्रान्तास ते ततॊ ऽपश्यन भूमिपा भूरिदक्षिणम वृतं सदस्यैर बहुभिर धर्मराजं युधिष्ठिरम ॥ 24 ॥
तत सदॊ पार्थिवैः कीर्णं बराह्मणैश च महात्मभिः भराजते सम तदा राजन नाकपृष्ठम इवामरैः ॥ 25 ॥
सभापर्व · Sabha Parva
अध्याय 31
Reach this point to mark the section finished.
Continue to अध्याय 32