[व] उषित्वा खाण्डव परस्थे सुखवासं जनार्दनः पार्थैः परीतिसमायुक्तैः पूजनार्हॊ ऽभिपूजितः ॥ 1 ॥
गमनाय मतिं चक्रे पितुर दर्शनलालसः धर्मराजम अथामन्त्र्य पृथां च पृथुलॊचनः ॥ 2 ॥
ववन्दे चरणौ मूर्ध्ना जगद वन्द्यः पितृस्वसुः स तया मूर्ध्न्य उपाघ्रातः परिष्वक्तश च केशवः ॥ 3 ॥
ददर्शानन्तरं कृष्णॊ भगिनीं सवां महायशाः ताम उपेत्य हृषीकेशः परीत्या बाष्पसमन्वितः ॥ 4 ॥
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तम अनुत्तमम उवाच भगवान भद्रां सुभद्रां भद्र भाषिणीम ॥ 5 ॥
तया सवजनगामीनि शरावितॊ वचनानि सः संपूजितश चाप्य असकृच छिरसा चाभिवादितः ॥ 6 ॥
ताम अनुज्ञाप्य वार्ष्णेयः परतिनन्द्य च भामिनीम ददर्शानन्तरं कृष्णां दौम्यं चापि जनार्दनः ॥ 7 ॥
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः दरौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः ॥ 8 ॥
भरातॄन अभ्यगमद धीमान पार्थेन सहितॊ बली भरातृभिः पञ्चभिः कृष्णॊ वृतः शक्र इवामरैः ॥ 9 ॥
अर्चयाम आस देवांश च दविजांश च यदुपुंगवः माल्यजप्य नमः कारैर गन्धैर उच्चावचैर अपि स कृत्वा सर्वकार्याणि परतस्थे तस्थुषां वरः ॥ 10 ॥
सवस्ति वाच्यार्हतॊ विप्रान दधि पात्रफलाक्षतैः वसु परदाय च ततः परदक्षिणम अवर्तत ॥ 11 ॥
काञ्चनं रथम आस्थाय तार्क्ष्य केतनम आशुगम गदा चक्रासिशार्ङ्गाद्यैर आयुधैश च समन्वितम ॥ 12 ॥
तिथाव अथ च नक्षत्रे मुहूर्ते च गुणान्विते परययौ पुण्डरीकाक्षः सैन्यसुग्रीव वाहनः ॥ 13 ॥
अन्वारुरॊह चाप्य एनं परेम्णा राजा युधिष्ठिरः अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम अभीषून संप्रजग्राह सवयं कुरुपतिस तदा ॥ 14 ॥
उपारुह्यार्जुनश चापि चामरव्यजनं सितम रुक्मदण्डं बृहन मूर्ध्नि दुधावाभिप्रदक्षिणम ॥ 15 ॥
तथैव भीमसेनॊ ऽपि यमाभ्यां सहितॊ वशी पृष्ठतॊ ऽनुययौ कृष्णम ऋत्विक पौरजनैर वृतः ॥ 16 ॥
स तथा भरातृभिः सार्धं केशवः परवीरहा अनुगम्यमानः शुशुभे शिष्यैर इव गुरुः परियैः ॥ 17 ॥
पार्थम आमन्त्र्य गॊविन्दः परिष्वज्य च पीडितम युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा ॥ 18 ॥
परिष्वक्तॊ भृशं ताभ्यां यमाभ्याम अभिवादितः ततस तैः संविदं कृत्वा यथावन मधुसूदनः ॥ 19 ॥
निवर्तयित्वा च तदा पाण्डवान सपदानुगान सवां पुरीं परययौ कृष्णः पुरंदर इवापरः ॥ 20 ॥
लॊचनैर अनुजग्मुस ते तम आदृष्टि पथात तदा मनॊभिर अनुजग्मुस ते कृष्णं परीतिसमन्वयात ॥ 21 ॥
अतृप्त मनसाम एव तेषां केशव दर्शने कषिप्रम अन्तर्दधे शौरिश चक्षुषां परियदर्शनः ॥ 22 ॥
अकामा इव पार्थास ते गॊविन्द गतमानसाः निवृत्यॊपययुः सर्वे सवपुरं पुरुषर्षभाः सयन्दनेनाथ कृष्णॊ ऽपि समये दवारकाम अगात ॥ 23 ॥
सभापर्व · Sabha Parva
अध्याय 2
Reach this point to mark the section finished.
Continue to अध्याय 3