[व] नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा वासुदेव जिताम आशां यथासौ वयजयत परभुः ॥ 1 ॥
निर्याय खाण्डव परस्थात परतीचीम अभितॊ दिशम उद्दिश्य मतिमान परायान महत्या सेनया सह ॥ 2 ॥
सिंहनादेन महता यॊधानां गर्जितेन च रथनेमि निनादैश च कम्पयन वसुधाम इमाम ॥ 3 ॥
ततॊ बहुधनं रम्यं गवाश्वधनधान्यवत कार्तिकेयस्य दयितं रॊहीतकम उपाद्रवत ॥ 4 ॥
तत्र युद्धं महद वृत्तं शूरैर मत्तमयूरकैः मरु भूमिं च कार्त्स्न्येन तथैव बहु धान्यकम ॥ 5 ॥
शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः शिबींस तरिगर्तान अम्बष्ठान मालवान पञ्च कर्पटान ॥ 6 ॥
तथा मध्यमिकायांश च वाटधानान दविजान अथ पुनश च परिवृत्याथ पुष्करारण्यवासिनः ॥ 7 ॥
गणान उत्सव संकेतान वयजयत पुरुषर्षभ सिन्धुकूलाश्रिता ये च गरामणेया महाबलाः ॥ 8 ॥
शूद्राभीर गणाश चैव ये चाश्रित्य सरस्वतीम वर्तयन्ति च ये मत्स्यैर ये च पर्वतवासिनः ॥ 9 ॥
कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम उत्तरज्यॊतिकं चैव तथा वृण्डाटकं पुरम दवारपालं च तरसा वशे चक्रे महाद्युतिः ॥ 10 ॥
रमठान हारहूणांश च परतीच्याश चैव ये नृपाः तान सर्वान स वशे चक्रे शासनाद एव पाण्डवः ॥ 11 ॥
तत्रस्थः परेषयाम आस वासुदेवाय चाभिभुः स चास्य दशभी राज्यैः परतिजग्राह शासनम ॥ 12 ॥
ततः शाकलम अभ्येत्य मद्राणां पुटभेदनम मातुलं परीतिपूर्वेण शल्यं चक्रे वशे बली ॥ 13 ॥
स तस्मिन सत्कृतॊ राज्ञा सत्कारार्हॊ विशां पते रत्नानि भूरीण्य आदाय संप्रतस्थे युधां पतिः ॥ 14 ॥
ततः सागरकुक्षिस्थान मलेच्छान परमदारुणान पह्लवान बर्बरांश चैव तान सर्वान अनयद वशम ॥ 15 ॥
ततॊ रत्नान्य उपादाय वशे कृत्वा च पार्थिवान नयवर्तत नरश्रेष्ठॊ नकुलश चित्रमार्गवित ॥ 16 ॥
करभाणां सहस्राणि कॊशं तस्य महात्मनः ऊहुर दश महाराज कृच्छ्राद इव महाधनम ॥ 17 ॥
इन्द्रप्रस्थगतं वीरम अभ्येत्य स युधिष्ठिरम ततॊ माद्री सुतः शरीमान धनं तस्मै नयवेदयत ॥ 18 ॥
एवं परतीचीं नकुलॊ दिशं वरुणपालिताम विजिग्ये वासुदेवेन निर्जितां भरतर्षभः ॥ 19 ॥
सभापर्व · Sabha Parva
अध्याय 29
Reach this point to mark the section finished.
Continue to अध्याय 30